ऋग्वेद-संहिता । नवमं मण्डलम् । 9 (1-75)
9.001.01a स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
9.001.01c इन्द्रा॑य॒ पात॑वे सु॒तः ॥
9.001.02a र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।
9.001.02c द्रुणा॑ स॒धस्थ॒मास॑दत् ॥
9.001.03a व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः ।
9.001.03c पर्षि॒ राधो॑ म॒घोना॑म् ॥
9.001.04a अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा ।
9.001.04c अ॒भि वाज॑मु॒त श्रव॑ः ॥
9.001.05a त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।
9.001.05c इन्दो॒ त्वे न॑ आ॒शस॑ः ॥
9.001.06a पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।
9.001.06c वारे॑ण॒ शश्व॑ता॒ तना॑ ॥
9.001.07a तमी॒मण्वी॑ः सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ ।
9.001.07c स्वसा॑र॒ः पार्ये॑ दि॒वि ॥
9.001.08a तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् ।
9.001.08c त्रि॒धातु॑ वार॒णं मधु॑ ॥
9.001.09a अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नव॒ः शिशु॑म् ।
9.001.09c सोम॒मिन्द्रा॑य॒ पात॑वे ॥
9.001.10a अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
9.001.10c शूरो॑ म॒घा च॑ मंहते ॥
9.002.01a पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ ।
9.002.01c इन्द्र॑मिन्दो॒ वृषा वि॑श ॥
9.002.02a आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे॑न्दो द्यु॒म्नव॑त्तमः ।
9.002.02c आ योनिं॑ धर्ण॒सिः स॑दः ॥
9.002.03a अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धस॑ः ।
9.002.03c अ॒पो व॑सिष्ट सु॒क्रतु॑ः ॥
9.002.04a म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्षन्ति॒ सिन्ध॑वः ।
9.002.04c यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
9.002.05a स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः ।
9.002.05c सोम॑ः प॒वित्रे॑ अस्म॒युः ॥
9.002.06a अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः ।
9.002.06c सं सूर्ये॑ण रोचते ॥
9.002.07a गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते॑ अप॒स्युव॑ः ।
9.002.07c याभि॒र्मदा॑य॒ शुम्भ॑से ॥
9.002.08a तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे ।
9.002.08c तव॒ प्रश॑स्तयो म॒हीः ॥
9.002.09a अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्व॑ः पवस्व॒ धार॑या ।
9.002.09c प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥
9.002.10a गो॒षा इ॑न्दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त ।
9.002.10c आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥
9.003.01a ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।
9.003.01c अ॒भि द्रोणा॑न्या॒सद॑म् ॥
9.003.02a ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।
9.003.02c पव॑मानो॒ अदा॑भ्यः ॥
9.003.03a ए॒ष दे॒वो वि॑प॒न्युभि॒ः पव॑मान ऋता॒युभि॑ः ।
9.003.03c हरि॒र्वाजा॑य मृज्यते ॥
9.003.04a ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।
9.003.04c पव॑मानः सिषासति ॥
9.003.05a ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।
9.003.05c आ॒विष्कृ॑णोति वग्व॒नुम् ॥
9.003.06a ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।
9.003.06c दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
9.003.07a ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।
9.003.07c पव॑मान॒ः कनि॑क्रदत् ॥
9.003.08a ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।
9.003.08c पव॑मानः स्वध्व॒रः ॥
9.003.09a ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्य॑ः सु॒तः ।
9.003.09c हरि॑ः प॒वित्रे॑ अर्षति ॥
9.003.10a ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निष॑ः ।
9.003.10c धार॑या पवते सु॒तः ॥
9.004.01a सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रव॑ः ।
9.004.01c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.02a सना॒ ज्योति॒ः सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा ।
9.004.02c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.03a सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि ।
9.004.03c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.04a पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।
9.004.04c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.05a त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभि॑ः ।
9.004.05c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.06a तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् ।
9.004.06c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.07a अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
9.004.07c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.08a अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः ।
9.004.08c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.09a त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि ।
9.004.09c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.10a र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र ।
9.004.10c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.005.01a समि॑द्धो वि॒श्वत॒स्पति॒ः पव॑मानो॒ वि रा॑जति ।
9.005.01c प्री॒णन्वृषा॒ कनि॑क्रदत् ॥
9.005.02a तनू॒नपा॒त्पव॑मान॒ः शृङ्गे॒ शिशा॑नो अर्षति ।
9.005.02c अ॒न्तरि॑क्षेण॒ रार॑जत् ॥
9.005.03a ई॒ळेन्य॒ः पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।
9.005.03c मधो॒र्धारा॑भि॒रोज॑सा ॥
9.005.04a ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरि॑ः ।
9.005.04c दे॒वेषु॑ दे॒व ई॑यते ॥
9.005.05a उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑ः ।
9.005.05c पव॑मानेन॒ सुष्टु॑ताः ॥
9.005.06a सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।
9.005.06c नक्तो॒षासा॒ न द॑र्श॒ते ॥
9.005.07a उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।
9.005.07c पव॑मान॒ इन्द्रो॒ वृषा॑ ॥
9.005.08a भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।
9.005.08c इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥
9.005.09a त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।
9.005.09c इन्दु॒रिन्द्रो॒ वृषा॒ हरि॒ः पव॑मानः प्र॒जाप॑तिः ॥
9.005.10a वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या ।
9.005.10c स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥
9.005.11a विश्वे॑ देवा॒ः स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।
9.005.11c वा॒युर्बृह॒स्पति॒ः सूर्यो॒ऽग्निरिन्द्र॑ः स॒जोष॑सः ॥
9.006.01a म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।
9.006.01c अव्यो॒ वारे॑ष्वस्म॒युः ॥
9.006.02a अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर ।
9.006.02c अ॒भि वा॒जिनो॒ अर्व॑तः ॥
9.006.03a अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।
9.006.03c अ॒भि वाज॑मु॒त श्रव॑ः ॥
9.006.04a अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन् ।
9.006.04c पु॒ना॒ना इन्द्र॑माशत ॥
9.006.05a यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑ ।
9.006.05c वने॒ क्रीळ॑न्त॒मत्य॑विम् ॥
9.006.06a तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।
9.006.06c सु॒तं भरा॑य॒ सं सृ॑ज ॥
9.006.07a दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः ।
9.006.07c पयो॒ यद॑स्य पी॒पय॑त् ॥
9.006.08a आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।
9.006.08c प्र॒त्नं नि पा॑ति॒ काव्य॑म् ॥
9.006.09a ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।
9.006.09c गुहा॑ चिद्दधिषे॒ गिर॑ः ॥
9.007.01a असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रिय॑ः ।
9.007.01c वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥
9.007.02a प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।
9.007.02c ह॒विर्ह॒विष्षु॒ वन्द्य॑ः ॥
9.007.03a प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।
9.007.03c सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥
9.007.04a परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।
9.007.04c स्व॑र्वा॒जी सि॑षासति ॥
9.007.05a पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।
9.007.05c यदी॑मृ॒ण्वन्ति॑ वे॒धस॑ः ॥
9.007.06a अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।
9.007.06c रे॒भो व॑नुष्यते म॒ती ॥
9.007.07a स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।
9.007.07c रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥
9.007.08a आ मि॒त्रावरु॑णा॒ भगं॒ मध्व॑ः पवन्त ऊ॒र्मय॑ः ।
9.007.08c वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥
9.007.09a अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।
9.007.09c श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥
9.008.01a ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् ।
9.008.01c वर्ध॑न्तो अस्य वी॒र्य॑म् ॥
9.008.02a पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ ।
9.008.02c ते नो॑ धान्तु सु॒वीर्य॑म् ॥
9.008.03a इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।
9.008.03c ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
9.008.04a मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वन्ति॑ स॒प्त धी॒तय॑ः ।
9.008.04c अनु॒ विप्रा॑ अमादिषुः ॥
9.008.05a दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्य॑ः ।
9.008.05c सं गोभि॑र्वासयामसि ॥
9.008.06a पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरि॑ः ।
9.008.06c परि॒ गव्या॑न्यव्यत ॥
9.008.07a म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विष॑ः ।
9.008.07c इन्दो॒ सखा॑य॒मा वि॑श ॥
9.008.08a वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।
9.008.08c सहो॑ नः सोम पृ॒त्सु धा॑ः ॥
9.008.09a नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद॑म् ।
9.008.09c भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
9.009.01a परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः ।
9.009.01c सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥
9.009.02a प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ ।
9.009.02c वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥
9.009.03a स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् ।
9.009.03c म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥
9.009.04a स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुह॑ः ।
9.009.04c या एक॒मक्षि॑ वावृ॒धुः ॥
9.009.05a ता अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः ।
9.009.05c इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥
9.009.06a अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः ।
9.009.06c क्रिवि॑र्दे॒वीर॑तर्पयत् ॥
9.009.07a अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ ।
9.009.07c तानि॑ पुनान जङ्घनः ॥
9.009.08a नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः ।
9.009.08c प्र॒त्न॒वद्रो॑चया॒ रुच॑ः ॥
9.009.09a पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् ।
9.009.09c सना॑ मे॒धां सना॒ स्व॑ः ॥
9.010.01a प्र स्वा॒नासो॒ रथा॑ इ॒वार्व॑न्तो॒ न श्र॑व॒स्यव॑ः ।
9.010.01c सोमा॑सो रा॒ये अ॑क्रमुः ॥
9.010.02a हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः ।
9.010.02c भरा॑सः का॒रिणा॑मिव ॥
9.010.03a राजा॑नो॒ न प्रश॑स्तिभि॒ः सोमा॑सो॒ गोभि॑रञ्जते ।
9.010.03c य॒ज्ञो न स॒प्त धा॒तृभि॑ः ॥
9.010.04a परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा ।
9.010.04c सु॒ता अ॑र्षन्ति॒ धार॑या ॥
9.010.05a आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म् ।
9.010.05c सूरा॒ अण्वं॒ वि त॑न्वते ॥
9.010.06a अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रव॑ः ।
9.010.06c वृष्णो॒ हर॑स आ॒यव॑ः ॥
9.010.07a स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः ।
9.010.07c प॒दमेक॑स्य॒ पिप्र॑तः ॥
9.010.08a नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ ।
9.010.08c क॒वेरप॑त्य॒मा दु॑हे ॥
9.010.09a अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तम् ।
9.010.09c सूर॑ः पश्यति॒ चक्ष॑सा ॥
9.011.01a उपा॑स्मै गायता नर॒ः पव॑माना॒येन्द॑वे ।
9.011.01c अ॒भि दे॒वाँ इय॑क्षते ॥
9.011.02a अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।
9.011.02c दे॒वं दे॒वाय॑ देव॒यु ॥
9.011.03a स न॑ः पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।
9.011.03c शं रा॑ज॒न्नोष॑धीभ्यः ॥
9.011.04a ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।
9.011.04c सोमा॑य गा॒थम॑र्चत ॥
9.011.05a हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।
9.011.05c मधा॒वा धा॑वता॒ मधु॑ ॥
9.011.06a नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन ।
9.011.06c इन्दु॒मिन्द्रे॑ दधातन ॥
9.011.07a अ॒मि॒त्र॒हा विच॑र्षणि॒ः पव॑स्व सोम॒ शं गवे॑ ।
9.011.07c दे॒वेभ्यो॑ अनुकाम॒कृत् ॥
9.011.08a इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे ।
9.011.08c म॒न॒श्चिन्मन॑स॒स्पति॑ः ॥
9.011.09a पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः ।
9.011.09c इन्द॒विन्द्रे॑ण नो यु॒जा ॥
9.012.01a सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने ।
9.012.01c इन्द्रा॑य॒ मधु॑मत्तमाः ॥
9.012.02a अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तर॑ः ।
9.012.02c इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
9.012.03a म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिन्धो॑रू॒र्मा वि॑प॒श्चित् ।
9.012.03c सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥
9.012.04a दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते ।
9.012.04c सोमो॒ यः सु॒क्रतु॑ः क॒विः ॥
9.012.05a यः सोम॑ः क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः ।
9.012.05c तमिन्दु॒ः परि॑ षस्वजे ॥
9.012.06a प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
9.012.06c जिन्व॒न्कोशं॑ मधु॒श्चुत॑म् ॥
9.012.07a नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघ॑ः ।
9.012.07c हि॒न्वा॒नो मानु॑षा यु॒गा ॥
9.012.08a अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति ।
9.012.08c विप्र॑स्य॒ धार॑या क॒विः ॥
9.012.09a आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् ।
9.012.09c अ॒स्मे इ॑न्दो स्वा॒भुव॑म् ॥
9.013.01a सोम॑ः पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।
9.013.01c वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥
9.013.02a पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।
9.013.02c सु॒ष्वा॒णं दे॒ववी॑तये ॥
9.013.03a पव॑न्ते॒ वाज॑सातये॒ सोमा॑ः स॒हस्र॑पाजसः ।
9.013.03c गृ॒णा॒ना दे॒ववी॑तये ॥
9.013.04a उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिष॑ः ।
9.013.04c द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥
9.013.05a ते न॑ः सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् ।
9.013.05c सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥
9.013.06a अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।
9.013.06c वि वार॒मव्य॑मा॒शव॑ः ॥
9.013.07a वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नव॑ः ।
9.013.07c द॒ध॒न्वि॒रे गभ॑स्त्योः ॥
9.013.08a जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।
9.013.08c विश्वा॒ अप॒ द्विषो॑ जहि ॥
9.013.09a अ॒प॒घ्नन्तो॒ अरा॑व्ण॒ः पव॑मानाः स्व॒र्दृश॑ः ।
9.013.09c योना॑वृ॒तस्य॑ सीदत ॥
9.014.01a परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः ।
9.014.01c का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥
9.014.02a गि॒रा यदी॒ सब॑न्धव॒ः पञ्च॒ व्राता॑ अप॒स्यव॑ः ।
9.014.02c प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥
9.014.03a आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
9.014.03c यदी॒ गोभि॑र्वसा॒यते॑ ॥
9.014.04a नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
9.014.04c अत्रा॒ सं जि॑घ्नते यु॒जा ॥
9.014.05a न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
9.014.05c गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥
9.014.06a अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
9.014.06c व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥
9.014.07a अ॒भि क्षिप॒ः सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म् ।
9.014.07c पृ॒ष्ठा गृ॑भ्णत वा॒जिन॑ः ॥
9.014.08a परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
9.014.08c वसू॑नि याह्यस्म॒युः ॥
9.015.01a ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑ः ।
9.015.01c गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥
9.015.02a ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।
9.015.02c यत्रा॒मृता॑स॒ आस॑ते ॥
9.015.03a ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था ।
9.015.03c यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥
9.015.04a ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।
9.015.04c नृ॒म्णा दधा॑न॒ ओज॑सा ॥
9.015.05a ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभि॑ः ।
9.015.05c पति॒ः सिन्धू॑नां॒ भव॑न् ॥
9.015.06a ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।
9.015.06c अव॒ शादे॑षु गच्छति ॥
9.015.07a ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यव॑ः ।
9.015.07c प्र॒च॒क्रा॒णं म॒हीरिष॑ः ॥
9.015.08a ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तय॑ः ।
9.015.08c स्वा॒यु॒धं म॒दिन्त॑मम् ॥
9.016.01a प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये ।
9.016.01c सर्गो॒ न त॒क्त्येत॑शः ॥
9.016.02a क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा ।
9.016.02c गो॒षामण्वे॑षु सश्चिम ॥
9.016.03a अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
9.016.03c पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥
9.016.04a प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोम॑ः प॒वित्रे॑ अर्षति ।
9.016.04c क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥
9.016.05a प्र त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत ।
9.016.05c म॒हे भरा॑य का॒रिण॑ः ॥
9.016.06a पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रिय॑ः ।
9.016.06c शूरो॒ न गोषु॑ तिष्ठति ॥
9.016.07a दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धस॑ः ।
9.016.07c वृथा॑ प॒वित्रे॑ अर्षति ॥
9.016.08a त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ ।
9.016.08c अव्यो॒ वारं॒ वि धा॑वसि ॥
9.017.01a प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः ।
9.017.01c सोमा॑ असृग्रमा॒शव॑ः ॥
9.017.02a अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टय॑ः पृथि॒वीमि॑व ।
9.017.02c इन्द्रं॒ सोमा॑सो अक्षरन् ॥
9.017.03a अत्यू॑र्मिर्मत्स॒रो मद॒ः सोम॑ः प॒वित्रे॑ अर्षति ।
9.017.03c वि॒घ्नन्रक्षां॑सि देव॒युः ॥
9.017.04a आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते ।
9.017.04c उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥
9.017.05a अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् ।
9.017.05c इ॒ष्णन्सूर्यं॒ न चो॑दयः ॥
9.017.06a अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रव॑ः ।
9.017.06c दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥
9.017.07a तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यव॑ः ।
9.017.07c मृ॒जन्ति॑ दे॒वता॑तये ॥
9.017.08a मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः ।
9.017.08c चारु॑रृ॒ताय॑ पी॒तये॑ ॥
9.018.01a परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
9.018.01c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.02a त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः ।
9.018.02c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.03a तव॒ विश्वे॑ स॒जोष॑सो दे॒वास॑ः पी॒तिमा॑शत ।
9.018.03c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.04a आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
9.018.04c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.05a य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
9.018.05c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.06a परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
9.018.06c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.07a स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
9.018.07c मदे॑षु सर्व॒धा अ॑सि ॥
9.019.01a यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।
9.019.01c तन्न॑ः पुना॒न आ भ॑र ॥
9.019.02a यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती ।
9.019.02c ई॒शा॒ना पि॑प्यतं॒ धिय॑ः ॥
9.019.03a वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।
9.019.03c हरि॒ः सन्योनि॒मास॑दत् ॥
9.019.04a अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।
9.019.04c सू॒नोर्व॒त्सस्य॑ मा॒तर॑ः ॥
9.019.05a कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।
9.019.05c याः शु॒क्रं दु॑ह॒ते पय॑ः ॥
9.019.06a उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।
9.019.06c पव॑मान वि॒दा र॒यिम् ॥
9.019.07a नि शत्रो॑ः सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।
9.019.07c दू॒रे वा॑ स॒तो अन्ति॑ वा ॥
9.020.01a प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति ।
9.020.01c सा॒ह्वान्विश्वा॑ अ॒भि स्पृध॑ः ॥
9.020.02a स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति ।
9.020.02c पव॑मानः सह॒स्रिण॑म् ॥
9.020.03a परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती ।
9.020.03c स न॑ः सोम॒ श्रवो॑ विदः ॥
9.020.04a अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् ।
9.020.04c इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
9.020.05a त्वं राजे॑व सुव्र॒तो गिर॑ः सो॒मा वि॑वेशिथ ।
9.020.05c पु॒ना॒नो व॑ह्ने अद्भुत ॥
9.020.06a स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
9.020.06c सोम॑श्च॒मूषु॑ सीदति ॥
9.020.07a क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि ।
9.020.07c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.021.01a ए॒ते धा॑व॒न्तीन्द॑व॒ः सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
9.021.01c म॒त्स॒रास॑ः स्व॒र्विद॑ः ॥
9.021.02a प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒ः सुष्व॑ये वरिवो॒विद॑ः ।
9.021.02c स्व॒यं स्तो॒त्रे व॑य॒स्कृत॑ः ॥
9.021.03a वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
9.021.03c सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥
9.021.04a ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
9.021.04c हि॒ता न सप्त॑यो॒ रथे॑ ॥
9.021.05a आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
9.021.05c यो अ॒स्मभ्य॒मरा॑वा ॥
9.021.06a ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
9.021.06c शु॒क्राः प॑वध्व॒मर्ण॑सा ॥
9.021.07a ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
9.021.07c स॒तः प्रासा॑विषुर्म॒तिम् ॥
9.022.01a ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिन॑ः ।
9.022.01c सर्गा॑ः सृ॒ष्टा अ॑हेषत ॥
9.022.02a ए॒ते वाता॑ इवो॒रव॑ः प॒र्जन्य॑स्येव वृ॒ष्टय॑ः ।
9.022.02c अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥
9.022.03a ए॒ते पू॒ता वि॑प॒श्चित॒ः सोमा॑सो॒ दध्या॑शिरः ।
9.022.03c वि॒पा व्या॑नशु॒र्धिय॑ः ॥
9.022.04a ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।
9.022.04c इय॑क्षन्तः प॒थो रज॑ः ॥
9.022.05a ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः ।
9.022.05c उ॒तेदमु॑त्त॒मं रज॑ः ॥
9.022.06a तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।
9.022.06c उ॒तेदमु॑त्त॒माय्य॑म् ॥
9.022.07a त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।
9.022.07c त॒तं तन्तु॑मचिक्रदः ॥
9.023.01a सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।
9.023.01c अ॒भि विश्वा॑नि॒ काव्या॑ ॥
9.023.02a अनु॑ प्र॒त्नास॑ आ॒यव॑ः प॒दं नवी॑यो अक्रमुः ।
9.023.02c रु॒चे ज॑नन्त॒ सूर्य॑म् ॥
9.023.03a आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गय॑म् ।
9.023.03c कृ॒धि प्र॒जाव॑ती॒रिष॑ः ॥
9.023.04a अ॒भि सोमा॑स आ॒यव॒ः पव॑न्ते॒ मद्यं॒ मद॑म् ।
9.023.04c अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥
9.023.05a सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् ।
9.023.05c सु॒वीरो॑ अभिशस्ति॒पाः ॥
9.023.06a इन्द्रा॑य सोम पवसे दे॒वेभ्य॑ः सध॒माद्य॑ः ।
9.023.06c इन्दो॒ वाजं॑ सिषाससि ॥
9.023.07a अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति ।
9.023.07c ज॒घान॑ ज॒घन॑च्च॒ नु ॥
9.024.01a प्र सोमा॑सो अधन्विषु॒ः पव॑मानास॒ इन्द॑वः ।
9.024.01c श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
9.024.02a अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
9.024.02c पु॒ना॒ना इन्द्र॑माशत ॥
9.024.03a प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे ।
9.024.03c नृभि॑र्य॒तो वि नी॑यसे ॥
9.024.04a त्वं सो॑म नृ॒माद॑न॒ः पव॑स्व चर्षणी॒सहे॑ ।
9.024.04c सस्नि॒र्यो अ॑नु॒माद्य॑ः ॥
9.024.05a इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
9.024.05c अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥
9.024.06a पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्य॑ः ।
9.024.06c शुचि॑ः पाव॒को अद्भु॑तः ॥
9.024.07a शुचि॑ः पाव॒क उ॑च्यते॒ सोम॑ः सु॒तस्य॒ मध्व॑ः ।
9.024.07c दे॒वा॒वीर॑घशंस॒हा ॥
9.025.01a पव॑स्व दक्ष॒साध॑नो दे॒वेभ्य॑ः पी॒तये॑ हरे ।
9.025.01c म॒रुद्भ्यो॑ वा॒यवे॒ मद॑ः ॥
9.025.02a पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।
9.025.02c धर्म॑णा वा॒युमा वि॑श ॥
9.025.03a सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।
9.025.03c वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
9.025.04a विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।
9.025.04c यत्रा॒मृता॑स॒ आस॑ते ॥
9.025.05a अ॒रु॒षो ज॒नय॒न्गिर॒ः सोम॑ः पवत आयु॒षक् ।
9.025.05c इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥
9.025.06a आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
9.025.06c अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥
9.026.01a तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ ।
9.026.01c विप्रा॑सो॒ अण्व्या॑ धि॒या ॥
9.026.02a तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् ।
9.026.02c इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥
9.026.03a तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ ।
9.026.03c ध॒र्ण॒सिं भूरि॑धायसम् ॥
9.026.04a तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः ।
9.026.04c पतिं॑ वा॒चो अदा॑भ्यम् ॥
9.026.05a तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.026.05c ह॒र्य॒तं भूरि॑चक्षसम् ॥
9.026.06a तं त्वा॑ हिन्वन्ति वे॒धस॒ः पव॑मान गिरा॒वृध॑म् ।
9.026.06c इन्द॒विन्द्रा॑य मत्स॒रम् ॥
9.027.01a ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।
9.027.01c पु॒ना॒नो घ्नन्नप॒ स्रिध॑ः ॥
9.027.02a ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।
9.027.02c प॒वित्रे॑ दक्ष॒साध॑नः ॥
9.027.03a ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।
9.027.03c सोमो॒ वने॑षु विश्व॒वित् ॥
9.027.04a ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।
9.027.04c इन्दु॑ः सत्रा॒जिदस्तृ॑तः ॥
9.027.05a ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।
9.027.05c प॒वित्रे॑ मत्स॒रो मद॑ः ॥
9.027.06a ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरि॑ः ।
9.027.06c पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
9.028.01a ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पति॑ः ।
9.028.01c अव्यो॒ वारं॒ वि धा॑वति ॥
9.028.02a ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्य॑ः सु॒तः ।
9.028.02c विश्वा॒ धामा॑न्यावि॒शन् ॥
9.028.03a ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।
9.028.03c वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
9.028.04a ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
9.028.04c अ॒भि द्रोणा॑नि धावति ॥
9.028.05a ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
9.028.05c विश्वा॒ धामा॑नि विश्व॒वित् ॥
9.028.06a ए॒ष शु॒ष्म्यदा॑भ्य॒ः सोम॑ः पुना॒नो अ॑र्षति ।
9.028.06c दे॒वा॒वीर॑घशंस॒हा ॥
9.029.01a प्रास्य॒ धारा॑ अक्षर॒न्वृष्ण॑ः सु॒तस्यौज॑सा ।
9.029.01c दे॒वाँ अनु॑ प्र॒भूष॑तः ॥
9.029.02a सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्त॑ः का॒रवो॑ गि॒रा ।
9.029.02c ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥
9.029.03a सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
9.029.03c वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥
9.029.04a विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
9.029.04c इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥
9.029.05a रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
9.029.05c नि॒दो यत्र॑ मुमु॒च्महे॑ ॥
9.029.06a एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
9.029.06c द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥
9.030.01a प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।
9.030.01c पु॒ना॒नो वाच॑मिष्यति ॥
9.030.02a इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑न॒ः कनि॑क्रदत् ।
9.030.02c इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम् ॥
9.030.03a आ न॒ः शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् ।
9.030.03c पव॑स्व सोम॒ धार॑या ॥
9.030.04a प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् ।
9.030.04c अ॒भि द्रोणा॑न्या॒सद॑म् ॥
9.030.05a अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.030.05c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.030.06a सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
9.030.06c चारुं॒ शर्धा॑य मत्स॒रम् ॥
9.031.01a प्र सोमा॑सः स्वा॒ध्य१॒॑ः पव॑मानासो अक्रमुः ।
9.031.01c र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥
9.031.02a दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः ।
9.031.02c भवा॒ वाजा॑नां॒ पति॑ः ॥
9.031.03a तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।
9.031.03c सोम॒ वर्ध॑न्ति ते॒ मह॑ः ॥
9.031.04a आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑ः सोम॒ वृष्ण्य॑म् ।
9.031.04c भवा॒ वाज॑स्य संग॒थे ॥
9.031.05a तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् ।
9.031.05c वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥
9.031.06a स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् ।
9.031.06c इन्दो॑ सखि॒त्वमु॑श्मसि ॥
9.032.01a प्र सोमा॑सो मद॒च्युत॒ः श्रव॑से नो म॒घोन॑ः ।
9.032.01c सु॒ता वि॒दथे॑ अक्रमुः ॥
9.032.02a आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.032.02c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.032.03a आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिम् ।
9.032.03c अत्यो॒ न गोभि॑रज्यते ॥
9.032.04a उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।
9.032.04c सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
9.032.05a अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यम् ।
9.032.05c अग॑न्ना॒जिं यथा॑ हि॒तम् ॥
9.032.06a अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।
9.032.06c स॒निं मे॒धामु॒त श्रव॑ः ॥
9.033.01a प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मय॑ः ।
9.033.01c वना॑नि महि॒षा इ॑व ॥
9.033.02a अ॒भि द्रोणा॑नि ब॒भ्रव॑ः शु॒क्रा ऋ॒तस्य॒ धार॑या ।
9.033.02c वाजं॒ गोम॑न्तमक्षरन् ॥
9.033.03a सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
9.033.03c सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥
9.033.04a ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नव॑ः ।
9.033.04c हरि॑रेति॒ कनि॑क्रदत् ॥
9.033.05a अ॒भि ब्रह्मी॑रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तर॑ः ।
9.033.05c म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥
9.033.06a रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वत॑ः ।
9.033.06c आ प॑वस्व सह॒स्रिण॑ः ॥
9.034.01a प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।
9.034.01c रु॒जद्दृ॒ळ्हा व्योज॑सा ॥
9.034.02a सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
9.034.02c सोमो॑ अर्षति॒ विष्ण॑वे ॥
9.034.03a वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।
9.034.03c दु॒हन्ति॒ शक्म॑ना॒ पय॑ः ॥
9.034.04a भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।
9.034.04c सं रू॒पैर॑ज्यते॒ हरि॑ः ॥
9.034.05a अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
9.034.05c चारु॑ प्रि॒यत॑मं ह॒विः ॥
9.034.06a समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुत॑ः ।
9.034.06c धे॒नूर्वा॒श्रो अ॑वीवशत् ॥
9.035.01a आ न॑ः पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् ।
9.035.01c यया॒ ज्योति॑र्वि॒दासि॑ नः ॥
9.035.02a इन्दो॑ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय ।
9.035.02c रा॒यो ध॒र्ता न॒ ओज॑सा ॥
9.035.03a त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।
9.035.03c क्षरा॑ णो अ॒भि वार्य॑म् ॥
9.035.04a प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषि॑ः ।
9.035.04c व्र॒ता वि॑दा॒न आयु॑धा ॥
9.035.05a तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि ।
9.035.05c सोमं॒ जन॑स्य॒ गोप॑तिम् ॥
9.035.06a विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पते॑ः ।
9.035.06c पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥
9.036.01a अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वो॑ः सु॒तः ।
9.036.01c कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥
9.036.02a स वह्नि॑ः सोम॒ जागृ॑वि॒ः पव॑स्व देव॒वीरति॑ ।
9.036.02c अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥
9.036.03a स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।
9.036.03c क्रत्वे॒ दक्षा॑य नो हिनु ॥
9.036.04a शु॒म्भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
9.036.04c पव॑ते॒ वारे॑ अ॒व्यये॑ ॥
9.036.05a स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।
9.036.05c पव॑ता॒मान्तरि॑क्ष्या ॥
9.036.06a आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।
9.036.06c वी॒र॒युः श॑वसस्पते ॥
9.037.01a स सु॒तः पी॒तये॒ वृषा॒ सोम॑ः प॒वित्रे॑ अर्षति ।
9.037.01c वि॒घ्नन्रक्षां॑सि देव॒युः ॥
9.037.02a स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः ।
9.037.02c अ॒भि योनिं॒ कनि॑क्रदत् ॥
9.037.03a स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति ।
9.037.03c र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
9.037.04a स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् ।
9.037.04c जा॒मिभि॒ः सूर्यं॑ स॒ह ॥
9.037.05a स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः ।
9.037.05c सोमो॒ वाज॑मिवासरत् ॥
9.037.06a स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति ।
9.037.06c इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥
9.038.01a ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।
9.038.01c गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥
9.038.02a ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.038.02c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.038.03a ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते॑ अप॒स्युव॑ः ।
9.038.03c याभि॒र्मदा॑य॒ शुम्भ॑ते ॥
9.038.04a ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।
9.038.04c गच्छ॑ञ्जा॒रो न यो॒षित॑म् ॥
9.038.05a ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशु॑ः ।
9.038.05c य इन्दु॒र्वार॒मावि॑शत् ॥
9.038.06a ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।
9.038.06c क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥
9.039.01a आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ ।
9.039.01c यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥
9.039.02a प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निष॑ः ।
9.039.02c वृ॒ष्टिं दि॒वः परि॑ स्रव ॥
9.039.03a सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा ।
9.039.03c वि॒चक्षा॑णो विरो॒चय॑न् ॥
9.039.04a अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ ।
9.039.04c सिन्धो॑रू॒र्मा व्यक्ष॑रत् ॥
9.039.05a आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वत॑ः सु॒तः ।
9.039.05c इन्द्रा॑य सिच्यते॒ मधु॑ ॥
9.039.06a स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.039.06c योना॑वृ॒तस्य॑ सीदत ॥
9.040.01a पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।
9.040.01c शु॒म्भन्ति॒ विप्रं॑ धी॒तिभि॑ः ॥
9.040.02a आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।
9.040.02c ध्रु॒वे सद॑सि सीदति ॥
9.040.03a नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वत॑ः ।
9.040.03c आ प॑वस्व सह॒स्रिण॑म् ॥
9.040.04a विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र ।
9.040.04c वि॒दाः स॑ह॒स्रिणी॒रिष॑ः ॥
9.040.05a स न॑ः पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् ।
9.040.05c ज॒रि॒तुर्व॑र्धया॒ गिर॑ः ॥
9.040.06a पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
9.040.06c वृष॑न्निन्दो न उ॒क्थ्य॑म् ॥
9.041.01a प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।
9.041.01c घ्नन्त॑ः कृ॒ष्णामप॒ त्वच॑म् ॥
9.041.02a सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् ।
9.041.02c सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥
9.041.03a शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिण॑ः ।
9.041.03c चर॑न्ति वि॒द्युतो॑ दि॒वि ॥
9.041.04a आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् ।
9.041.04c अश्वा॑व॒द्वाज॑वत्सु॒तः ॥
9.041.05a स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।
9.041.05c उ॒षाः सूर्यो॒ न र॒श्मिभि॑ः ॥
9.041.06a परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वत॑ः ।
9.041.06c सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥
9.042.01a ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् ।
9.042.01c वसा॑नो॒ गा अ॒पो हरि॑ः ॥
9.042.02a ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।
9.042.02c धार॑या पवते सु॒तः ॥
9.042.03a वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये ।
9.042.03c सोमा॑ः स॒हस्र॑पाजसः ॥
9.042.04a दु॒हा॒नः प्र॒त्नमित्पय॑ः प॒वित्रे॒ परि॑ षिच्यते ।
9.042.04c क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥
9.042.05a अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृध॑ः ।
9.042.05c सोम॑ः पुना॒नो अ॑र्षति ॥
9.042.06a गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।
9.042.06c पव॑स्व बृह॒तीरिष॑ः ॥
9.043.01a यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
9.043.01c तं गी॒र्भिर्वा॑सयामसि ॥
9.043.02a तं नो॒ विश्वा॑ अव॒स्युवो॒ गिर॑ः शुम्भन्ति पू॒र्वथा॑ ।
9.043.02c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.043.03a पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
9.043.03c विप्र॑स्य॒ मेध्या॑तिथेः ॥
9.043.04a पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् ।
9.043.04c इन्दो॑ स॒हस्र॑वर्चसम् ॥
9.043.05a इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ ।
9.043.05c यदक्षा॒रति॑ देव॒युः ॥
9.043.06a पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
9.043.06c सोम॒ रास्व॑ सु॒वीर्य॑म् ॥
9.044.01a प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि ।
9.044.01c अ॒भि दे॒वाँ अ॒यास्य॑ः ॥
9.044.02a म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ ।
9.044.02c विप्र॑स्य॒ धार॑या क॒विः ॥
9.044.03a अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ ।
9.044.03c सोमो॑ याति॒ विच॑र्षणिः ॥
9.044.04a स न॑ः पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् ।
9.044.04c ब॒र्हिष्माँ॒ आ वि॑वासति ॥
9.044.05a स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः ।
9.044.05c सोमो॑ दे॒वेष्वा य॑मत् ॥
9.044.06a स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः ।
9.044.06c वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥
9.045.01a स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
9.045.01c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.045.02a स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा॑य तोशसे ।
9.045.02c दे॒वान्सखि॑भ्य॒ आ वर॑म् ॥
9.045.03a उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् ।
9.045.03c वि नो॑ रा॒ये दुरो॑ वृधि ॥
9.045.04a अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
9.045.04c इन्दु॑र्दे॒वेषु॑ पत्यते ॥
9.045.05a समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
9.045.05c इन्दुं॑ ना॒वा अ॑नूषत ॥
9.045.06a तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
9.045.06c इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥
9.046.01a असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒ः कृत्व्या॑ इव ।
9.046.01c क्षर॑न्तः पर्वता॒वृध॑ः ॥
9.046.02a परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।
9.046.02c वा॒युं सोमा॑ असृक्षत ॥
9.046.03a ए॒ते सोमा॑स॒ इन्द॑व॒ः प्रय॑स्वन्तश्च॒मू सु॒ताः ।
9.046.03c इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥
9.046.04a आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।
9.046.04c गोभि॑ः श्रीणीत मत्स॒रम् ॥
9.046.05a स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः ।
9.046.05c अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
9.046.06a ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिप॑ः ।
9.046.06c इन्द्रा॑य मत्स॒रं मद॑म् ॥
9.047.01a अ॒या सोम॑ः सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।
9.047.01c म॒न्दा॒न उद्वृ॑षायते ॥
9.047.02a कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत॑न्ते दस्यु॒तर्ह॑णा ।
9.047.02c ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥
9.047.03a आत्सोम॑ इन्द्रि॒यो रसो॒ वज्र॑ः सहस्र॒सा भु॑वत् ।
9.047.03c उ॒क्थं यद॑स्य॒ जाय॑ते ॥
9.047.04a स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।
9.047.04c यदी॑ मर्मृ॒ज्यते॒ धिय॑ः ॥
9.047.05a सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।
9.047.05c भरे॑षु जि॒ग्युषा॑मसि ॥
9.048.01a तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः ।
9.048.01c चारुं॑ सुकृ॒त्यये॑महे ॥
9.048.02a संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मद॑म् ।
9.048.02c श॒तं पुरो॑ रुरु॒क्षणि॑म् ॥
9.048.03a अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः ।
9.048.03c सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥
9.048.04a विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् ।
9.048.04c गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥
9.048.05a अधा॑ हिन्वा॒न इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे ।
9.048.05c अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥
9.049.01a पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।
9.049.01c अ॒य॒क्ष्मा बृ॑ह॒तीरिष॑ः ॥
9.049.02a तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।
9.049.02c जन्या॑स॒ उप॑ नो गृ॒हम् ॥
9.049.03a घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।
9.049.03c अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥
9.049.04a स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।
9.049.04c दे॒वास॑ः शृ॒णव॒न्हि क॑म् ॥
9.049.05a पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् ।
9.049.05c प्र॒त्न॒वद्रो॒चय॒न्रुच॑ः ॥
9.050.01a उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः ।
9.050.01c वा॒णस्य॑ चोदया प॒विम् ॥
9.050.02a प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युव॑ः ।
9.050.02c यदव्य॒ एषि॒ सान॑वि ॥
9.050.03a अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.050.03c पव॑मानं मधु॒श्चुत॑म् ॥
9.050.04a आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
9.050.04c अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥
9.050.05a स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभि॑ः ।
9.050.05c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.051.01a अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज ।
9.051.01c पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥
9.051.02a दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
9.051.02c सु॒नोता॒ मधु॑मत्तमम् ॥
9.051.03a तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते ।
9.051.03c पव॑मानस्य म॒रुत॑ः ॥
9.051.04a त्वं हि सो॑म व॒र्धय॑न्सु॒तो मदा॑य॒ भूर्ण॑ये ।
9.051.04c वृष॑न्स्तो॒तार॑मू॒तये॑ ॥
9.051.05a अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः ।
9.051.05c अ॒भि वाज॑मु॒त श्रव॑ः ॥
9.052.01a परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा ।
9.052.01c सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥
9.052.02a तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
9.052.02c स॒हस्र॑धारो या॒त्तना॑ ॥
9.052.03a च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय ।
9.052.03c व॒धैर्व॑धस्नवीङ्खय ॥
9.052.04a नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
9.052.04c यो अ॒स्माँ आ॒दिदे॑शति ॥
9.052.05a श॒तं न॑ इन्द ऊ॒तिभि॑ः स॒हस्रं॑ वा॒ शुची॑नाम् ।
9.052.05c पव॑स्व मंह॒यद्र॑यिः ॥
9.053.01a उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः ।
9.053.01c नु॒दस्व॒ याः प॑रि॒स्पृध॑ः ॥
9.053.02a अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते ।
9.053.02c स्तवा॒ अबि॑भ्युषा हृ॒दा ॥
9.053.03a अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ ।
9.053.03c रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥
9.053.04a तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
9.053.04c इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥
9.054.01a अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।
9.054.01c पय॑ः सहस्र॒सामृषि॑म् ॥
9.054.02a अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति ।
9.054.02c स॒प्त प्र॒वत॒ आ दिव॑म् ॥
9.054.03a अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ ।
9.054.03c सोमो॑ दे॒वो न सूर्य॑ः ॥
9.054.04a परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः ।
9.054.04c पु॒ना॒न इ॑न्दविन्द्र॒युः ॥
9.055.01a यवं॑यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव ।
9.055.01c सोम॒ विश्वा॑ च॒ सौभ॑गा ॥
9.055.02a इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः ।
9.055.02c नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥
9.055.03a उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा ।
9.055.03c म॒क्षूत॑मेभि॒रह॑भिः ॥
9.055.04a यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ ।
9.055.04c स प॑वस्व सहस्रजित् ॥
9.056.01a परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।
9.056.01c वि॒घ्नन्रक्षां॑सि देव॒युः ॥
9.056.02a यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युव॑ः ।
9.056.02c इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥
9.056.03a अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत ।
9.056.03c मृ॒ज्यसे॑ सोम सा॒तये॑ ॥
9.056.04a त्वमिन्द्रा॑य॒ विष्ण॑वे स्वा॒दुरि॑न्दो॒ परि॑ स्रव ।
9.056.04c नॄन्स्तो॒तॄन्पा॒ह्यंह॑सः ॥
9.057.01a प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टय॑ः ।
9.057.01c अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥
9.057.02a अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।
9.057.02c हरि॑स्तुञ्जा॒न आयु॑धा ॥
9.057.03a स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।
9.057.03c श्ये॒नो न वंसु॑ षीदति ॥
9.057.04a स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।
9.057.04c पु॒ना॒न इ॑न्द॒वा भ॑र ॥
9.058.01a तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।
9.058.01c तर॒त्स म॒न्दी धा॑वति ॥
9.058.02a उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।
9.058.02c तर॒त्स म॒न्दी धा॑वति ॥
9.058.03a ध्व॒स्रयो॑ः पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे ।
9.058.03c तर॒त्स म॒न्दी धा॑वति ॥
9.058.04a आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
9.058.04c तर॒त्स म॒न्दी धा॑वति ॥
9.059.01a पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।
9.059.01c प्र॒जाव॒द्रत्न॒मा भ॑र ॥
9.059.02a पव॑स्वा॒द्भ्यो अदा॑भ्य॒ः पव॒स्वौष॑धीभ्यः ।
9.059.02c पव॑स्व धि॒षणा॑भ्यः ॥
9.059.03a त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।
9.059.03c क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥
9.059.04a पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् ।
9.059.04c इन्दो॒ विश्वाँ॑ अ॒भीद॑सि ॥
9.060.01a प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् ।
9.060.01c इन्दुं॑ स॒हस्र॑चक्षसम् ॥
9.060.02a तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् ।
9.060.02c अति॒ वार॑मपाविषुः ॥
9.060.03a अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।
9.060.03c इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥
9.060.04a इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।
9.060.04c प्र॒जाव॒द्रेत॒ आ भ॑र ॥
9.061.01a अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा ।
9.061.01c अ॒वाह॑न्नव॒तीर्नव॑ ॥
9.061.02a पुर॑ः स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् ।
9.061.02c अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥
9.061.03a परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् ।
9.061.03c क्षरा॑ सह॒स्रिणी॒रिष॑ः ॥
9.061.04a पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः ।
9.061.04c स॒खि॒त्वमा वृ॑णीमहे ॥
9.061.05a ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या ।
9.061.05c तेभि॑र्नः सोम मृळय ॥
9.061.06a स न॑ः पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् ।
9.061.06c ईशा॑नः सोम वि॒श्वत॑ः ॥
9.061.07a ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् ।
9.061.07c समा॑दि॒त्येभि॑रख्यत ॥
9.061.08a समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
9.061.08c सं सूर्य॑स्य र॒श्मिभि॑ः ॥
9.061.09a स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
9.061.09c चारु॑र्मि॒त्रे वरु॑णे च ॥
9.061.10a उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे ।
9.061.10c उ॒ग्रं शर्म॒ महि॒ श्रव॑ः ॥
9.061.11a ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् ।
9.061.11c सिषा॑सन्तो वनामहे ॥
9.061.12a स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
9.061.12c व॒रि॒वो॒वित्परि॑ स्रव ॥
9.061.13a उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् ।
9.061.13c इन्दुं॑ दे॒वा अ॑यासिषुः ॥
9.061.14a तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
9.061.14c य इन्द्र॑स्य हृदं॒सनि॑ः ॥
9.061.15a अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
9.061.15c वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥
9.061.16a पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
9.061.16c ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥
9.061.17a पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।
9.061.17c वि वार॒मव्य॑मर्षति ॥
9.061.18a पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
9.061.18c ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
9.061.19a यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा ।
9.061.19c दे॒वा॒वीर॑घशंस॒हा ॥
9.061.20a जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
9.061.20c गो॒षा उ॑ अश्व॒सा अ॑सि ॥
9.061.21a सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभि॑ः ।
9.061.21c सीद॑ञ्छ्ये॒नो न योनि॒मा ॥
9.061.22a स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
9.061.22c व॒व्रि॒वांसं॑ म॒हीर॒पः ॥
9.061.23a सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
9.061.23c पु॒ना॒नो व॑र्ध नो॒ गिर॑ः ॥
9.061.24a त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुर॑ः ।
9.061.24c सोम॑ व्र॒तेषु॑ जागृहि ॥
9.061.25a अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।
9.061.25c गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥
9.061.26a म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृध॑ः ।
9.061.26c रास्वे॑न्दो वी॒रव॒द्यश॑ः ॥
9.061.27a न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् ।
9.061.27c यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥
9.061.28a पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
9.061.28c विश्वा॒ अप॒ द्विषो॑ जहि ॥
9.061.29a अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
9.061.29c सा॒स॒ह्याम॑ पृतन्य॒तः ॥
9.061.30a या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
9.061.30c रक्षा॑ समस्य नो नि॒दः ॥
9.062.01a ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑ः ।
9.062.01c विश्वा॑न्य॒भि सौभ॑गा ॥
9.062.02a वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिन॑ः ।
9.062.02c तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ॥
9.062.03a कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
9.062.03c इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥
9.062.04a असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।
9.062.04c श्ये॒नो न योनि॒मास॑दत् ॥
9.062.05a शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभि॑ः सु॒तः ।
9.062.05c स्वद॑न्ति॒ गाव॒ः पयो॑भिः ॥
9.062.06a आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।
9.062.06c मध्वो॒ रसं॑ सध॒मादे॑ ॥
9.062.07a यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ ।
9.062.07c ताभि॑ः प॒वित्र॒मास॑दः ॥
9.062.08a सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।
9.062.08c सीद॒न्योना॒ वने॒ष्वा ॥
9.062.09a त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
9.062.09c व॒रि॒वो॒विद्घृ॒तं पय॑ः ॥
9.062.10a अ॒यं विच॑र्षणिर्हि॒तः पव॑मान॒ः स चे॑तति ।
9.062.10c हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥
9.062.11a ए॒ष वृषा॒ वृष॑व्रत॒ः पव॑मानो अशस्ति॒हा ।
9.062.11c कर॒द्वसू॑नि दा॒शुषे॑ ॥
9.062.12a आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
9.062.12c पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥
9.062.13a ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभि॑ः ।
9.062.13c उ॒रु॒गा॒यः क॒विक्र॑तुः ॥
9.062.14a स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।
9.062.14c इन्द्रा॑य पवते॒ मद॑ः ॥
9.062.15a गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते ।
9.062.15c विर्योना॑ वस॒तावि॑व ॥
9.062.16a पव॑मानः सु॒तो नृभि॒ः सोमो॒ वाज॑मिवासरत् ।
9.062.16c च॒मूषु॒ शक्म॑ना॒सद॑म् ॥
9.062.17a तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ।
9.062.17c ऋषी॑णां स॒प्त धी॒तिभि॑ः ॥
9.062.18a तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।
9.062.18c हरिं॑ हिनोत वा॒जिन॑म् ॥
9.062.19a आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रिय॑ः ।
9.062.19c शूरो॒ न गोषु॑ तिष्ठति ॥
9.062.20a आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यव॑ः ।
9.062.20c दे॒वा दे॒वेभ्यो॒ मधु॑ ॥
9.062.21a आ न॒ः सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् ।
9.062.21c दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ॥
9.062.22a ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।
9.062.22c म॒दिन्त॑मस्य॒ धार॑या ॥
9.062.23a अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
9.062.23c स॒नद्वा॑ज॒ः परि॑ स्रव ॥
9.062.24a उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभ॑ः ।
9.062.24c गृ॒णा॒नो ज॒मद॑ग्निना ॥
9.062.25a पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभि॑ः ।
9.062.25c अ॒भि विश्वा॑नि॒ काव्या॑ ॥
9.062.26a त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् ।
9.062.26c पव॑स्व विश्वमेजय ॥
9.062.27a तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।
9.062.27c तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥
9.062.28a प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चत॑ः ।
9.062.28c अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ॥
9.062.29a इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ।
9.062.29c ई॒शा॒नं वी॒तिरा॑धसम् ॥
9.062.30a पव॑मान ऋ॒तः क॒विः सोम॑ः प॒वित्र॒मास॑दत् ।
9.062.30c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.063.01a आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्य॑म् ।
9.063.01c अ॒स्मे श्रवां॑सि धारय ॥
9.063.02a इष॒मूर्जं॑ च पिन्वस॒ इन्द्रा॑य मत्स॒रिन्त॑मः ।
9.063.02c च॒मूष्वा नि षी॑दसि ॥
9.063.03a सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोम॑ः क॒लशे॑ अक्षरत् ।
9.063.03c मधु॑माँ अस्तु वा॒यवे॑ ॥
9.063.04a ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रव॑ः ।
9.063.04c सोमा॑ ऋ॒तस्य॒ धार॑या ॥
9.063.05a इन्द्रं॒ वर्ध॑न्तो अ॒प्तुर॑ः कृ॒ण्वन्तो॒ विश्व॒मार्य॑म् ।
9.063.05c अ॒प॒घ्नन्तो॒ अरा॑व्णः ॥
9.063.06a सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रव॑ः ।
9.063.06c इन्द्रं॒ गच्छ॑न्त॒ इन्द॑वः ॥
9.063.07a अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
9.063.07c हि॒न्वा॒नो मानु॑षीर॒पः ॥
9.063.08a अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।
9.063.08c अ॒न्तरि॑क्षेण॒ यात॑वे ॥
9.063.09a उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
9.063.09c इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥
9.063.10a परी॒तो वा॒यवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् ।
9.063.10c अव्यो॒ वारे॑षु सिञ्चत ॥
9.063.11a पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् ।
9.063.11c यो दू॒णाशो॑ वनुष्य॒ता ॥
9.063.12a अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
9.063.12c अ॒भि वाज॑मु॒त श्रव॑ः ॥
9.063.13a सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।
9.063.13c दधा॑नः क॒लशे॒ रस॑म् ॥
9.063.14a ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
9.063.14c वाजं॒ गोम॑न्तमक्षरन् ॥
9.063.15a सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
9.063.15c प॒वित्र॒मत्य॑क्षरन् ॥
9.063.16a प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
9.063.16c मदो॒ यो दे॑व॒वीत॑मः ॥
9.063.17a तमी॑ मृजन्त्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
9.063.17c इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥
9.063.18a आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
9.063.18c वाजं॒ गोम॑न्त॒मा भ॑र ॥
9.063.19a परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिञ्चत ।
9.063.19c इन्द्रा॑य॒ मधु॑मत्तमम् ॥
9.063.20a क॒विं मृ॑जन्ति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यव॑ः ।
9.063.20c वृषा॒ कनि॑क्रदर्षति ॥
9.063.21a वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
9.063.21c म॒ती विप्रा॒ः सम॑स्वरन् ॥
9.063.22a पव॑स्व देवायु॒षगिन्द्रं॑ गच्छतु ते॒ मद॑ः ।
9.063.22c वा॒युमा रो॑ह॒ धर्म॑णा ॥
9.063.23a पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्य॑म् ।
9.063.23c प्रि॒यः स॑मु॒द्रमा वि॑श ॥
9.063.24a अ॒प॒घ्नन्प॑वसे॒ मृध॑ः क्रतु॒वित्सो॑म मत्स॒रः ।
9.063.24c नु॒दस्वादे॑वयुं॒ जन॑म् ॥
9.063.25a पव॑माना असृक्षत॒ सोमा॑ः शु॒क्रास॒ इन्द॑वः ।
9.063.25c अ॒भि विश्वा॑नि॒ काव्या॑ ॥
9.063.26a पव॑मानास आ॒शव॑ः शु॒भ्रा अ॑सृग्र॒मिन्द॑वः ।
9.063.26c घ्नन्तो॒ विश्वा॒ अप॒ द्विष॑ः ॥
9.063.27a पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत ।
9.063.27c पृ॒थि॒व्या अधि॒ सान॑वि ॥
9.063.28a पु॒ना॒नः सो॑म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिध॑ः ।
9.063.28c ज॒हि रक्षां॑सि सुक्रतो ॥
9.063.29a अ॒प॒घ्नन्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
9.063.29c द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
9.063.30a अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
9.063.30c इन्दो॒ विश्वा॑नि॒ वार्या॑ ॥
9.064.01a वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
9.064.01c वृषा॒ धर्मा॑णि दधिषे ॥
9.064.02a वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मद॑ः ।
9.064.02c स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥
9.064.03a अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः ।
9.064.03c वि नो॑ रा॒ये दुरो॑ वृधि ॥
9.064.04a असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।
9.064.04c शु॒क्रासो॑ वीर॒याशव॑ः ॥
9.064.05a शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
9.064.05c पव॑न्ते॒ वारे॑ अ॒व्यये॑ ॥
9.064.06a ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
9.064.06c पव॑न्ता॒मान्तरि॑क्ष्या ॥
9.064.07a पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।
9.064.07c सूर्य॑स्येव॒ न र॒श्मय॑ः ॥
9.064.08a के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।
9.064.08c स॒मु॒द्रः सो॑म पिन्वसे ॥
9.064.09a हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।
9.064.09c अक्रा॑न्दे॒वो न सूर्य॑ः ॥
9.064.10a इन्दु॑ः पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।
9.064.10c सृ॒जदश्वं॑ र॒थीरि॑व ॥
9.064.11a ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।
9.064.11c सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
9.064.12a स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।
9.064.12c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.064.13a इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभि॑ः ।
9.064.13c इन्दो॑ रु॒चाभि गा इ॑हि ॥
9.064.14a पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।
9.064.14c हरे॑ सृजा॒न आ॒शिर॑म् ॥
9.064.15a पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् ।
9.064.15c द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥
9.064.16a प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शव॑ः ।
9.064.16c धि॒या जू॒ता अ॑सृक्षत ॥
9.064.17a म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः ।
9.064.17c अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
9.064.18a परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।
9.064.18c पा॒हि न॒ः शर्म॑ वी॒रव॑त् ॥
9.064.19a मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।
9.064.19c प्र यत्स॑मु॒द्र आहि॑तः ॥
9.064.20a आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति ।
9.064.20c जहा॒त्यप्र॑चेतसः ॥
9.064.21a अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः ।
9.064.21c मज्ज॒न्त्यवि॑चेतसः ॥
9.064.22a इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।
9.064.22c ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
9.064.23a तं त्वा॒ विप्रा॑ वचो॒विद॒ः परि॑ ष्कृण्वन्ति वे॒धस॑ः ।
9.064.23c सं त्वा॑ मृजन्त्या॒यव॑ः ॥
9.064.24a रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे ।
9.064.24c पव॑मानस्य म॒रुत॑ः ॥
9.064.25a त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।
9.064.25c इन्दो॑ स॒हस्र॑भर्णसम् ॥
9.064.26a उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् ।
9.064.26c पु॒ना॒न इ॑न्द॒वा भ॑र ॥
9.064.27a पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
9.064.27c प्रि॒यः स॑मु॒द्रमा वि॑श ॥
9.064.28a दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा ।
9.064.28c सोमा॑ः शु॒क्रा गवा॑शिरः ॥
9.064.29a हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।
9.064.29c सीद॑न्तो व॒नुषो॑ यथा ॥
9.064.30a ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।
9.064.30c पव॑स्व॒ सूर्यो॑ दृ॒शे ॥
9.065.01a हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ः स्वसा॑रो जा॒मय॒स्पति॑म् ।
9.065.01c म॒हामिन्दुं॑ मही॒युव॑ः ॥
9.065.02a पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।
9.065.02c विश्वा॒ वसू॒न्या वि॑श ॥
9.065.03a आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुव॑ः ।
9.065.03c इ॒षे प॑वस्व सं॒यत॑म् ॥
9.065.04a वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे ।
9.065.04c पव॑मान स्वा॒ध्य॑ः ॥
9.065.05a आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध ।
9.065.05c इ॒हो ष्वि॑न्द॒वा ग॑हि ॥
9.065.06a यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
9.065.06c द्रुणा॑ स॒धस्थ॑मश्नुषे ॥
9.065.07a प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।
9.065.07c म॒हे स॒हस्र॑चक्षसे ॥
9.065.08a यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
9.065.08c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.065.09a तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युष॑ः ।
9.065.09c स॒खि॒त्वमा वृ॑णीमहे ॥
9.065.10a वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।
9.065.10c विश्वा॒ दधा॑न॒ ओज॑सा ॥
9.065.11a तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒॑ः पव॑मान स्व॒र्दृश॑म् ।
9.065.11c हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥
9.065.12a अ॒या चि॒त्तो वि॒पानया॒ हरि॑ः पवस्व॒ धार॑या ।
9.065.12c युजं॒ वाजे॑षु चोदय ॥
9.065.13a आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।
9.065.13c अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
9.065.14a आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा ।
9.065.14c एन्द्र॑स्य पी॒तये॑ विश ॥
9.065.15a यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
9.065.15c स प॑वस्वाभिमाति॒हा ॥
9.065.16a राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।
9.065.16c अ॒न्तरि॑क्षेण॒ यात॑वे ॥
9.065.17a आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ।
9.065.17c वहा॒ भग॑त्तिमू॒तये॑ ॥
9.065.18a आ न॑ः सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।
9.065.18c सु॒ष्वा॒णो दे॒ववी॑तये ॥
9.065.19a अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
9.065.19c सीद॑ञ्छ्ये॒नो न योनि॒मा ॥
9.065.20a अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
9.065.20c सोमो॑ अर्षति॒ विष्ण॑वे ॥
9.065.21a इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वत॑ः ।
9.065.21c आ प॑वस्व सह॒स्रिण॑म् ॥
9.065.22a ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
9.065.22c ये वा॒दः श॑र्य॒णाव॑ति ॥
9.065.23a य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् ।
9.065.23c ये वा॒ जने॑षु प॒ञ्चसु॑ ॥
9.065.24a ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् ।
9.065.24c सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥
9.065.25a पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।
9.065.25c हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥
9.065.26a प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।
9.065.26c श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
9.065.27a तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।
9.065.27c स प॑वस्वा॒नया॑ रु॒चा ॥
9.065.28a आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।
9.065.28c पान्त॒मा पु॑रु॒स्पृह॑म् ॥
9.065.29a आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् ।
9.065.29c पान्त॒मा पु॑रु॒स्पृह॑म् ॥
9.065.30a आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।
9.065.30c पान्त॒मा पु॑रु॒स्पृह॑म् ॥
9.066.01a पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ ।
9.066.01c सखा॒ सखि॑भ्य॒ ईड्य॑ः ॥
9.066.02a ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी ।
9.066.02c प्र॒ती॒ची सो॑म त॒स्थतु॑ः ॥
9.066.03a परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वत॑ः ।
9.066.03c पव॑मान ऋ॒तुभि॑ः कवे ॥
9.066.04a पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ ।
9.066.04c सखा॒ सखि॑भ्य ऊ॒तये॑ ॥
9.066.05a तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते ।
9.066.05c प॒वित्रं॑ सोम॒ धाम॑भिः ॥
9.066.06a तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते ।
9.066.06c तुभ्यं॑ धावन्ति धे॒नव॑ः ॥
9.066.07a प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः ।
9.066.07c दधा॑नो॒ अक्षि॑ति॒ श्रव॑ः ॥
9.066.08a समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मय॑ः ।
9.066.08c विप्र॑मा॒जा वि॒वस्व॑तः ॥
9.066.09a मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ ।
9.066.09c रे॒भो यद॒ज्यसे॒ वने॑ ॥
9.066.10a पव॑मानस्य ते कवे॒ वाजि॒न्सर्गा॑ असृक्षत ।
9.066.10c अर्व॑न्तो॒ न श्र॑व॒स्यव॑ः ॥
9.066.11a अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ ।
9.066.11c अवा॑वशन्त धी॒तय॑ः ॥
9.066.12a अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नव॑ः ।
9.066.12c अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
9.066.13a प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः ।
9.066.13c यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
9.066.14a अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः ।
9.066.14c इन्दो॑ सखि॒त्वमु॑श्मसि ॥
9.066.15a आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से ।
9.066.15c एन्द्र॑स्य ज॒ठरे॑ विश ॥
9.066.16a म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः ।
9.066.16c युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥
9.066.17a य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः ।
9.066.17c भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥
9.066.18a त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् ।
9.066.18c वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥
9.066.19a अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
9.066.19c आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥
9.066.20a अ॒ग्निरृषि॒ः पव॑मान॒ः पाञ्च॑जन्यः पु॒रोहि॑तः ।
9.066.20c तमी॑महे महाग॒यम् ॥
9.066.21a अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑ः सु॒वीर्य॑म् ।
9.066.21c दध॑द्र॒यिं मयि॒ पोष॑म् ॥
9.066.22a पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् ।
9.066.22c सूरो॒ न वि॒श्वद॑र्शतः ॥
9.066.23a स म॑र्मृजा॒न आ॒युभि॒ः प्रय॑स्वा॒न्प्रय॑से हि॒तः ।
9.066.23c इन्दु॒रत्यो॑ विचक्ष॒णः ॥
9.066.24a पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् ।
9.066.24c कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥
9.066.25a पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत ।
9.066.25c जी॒रा अ॑जि॒रशो॑चिषः ॥
9.066.26a पव॑मानो र॒थीत॑मः शु॒भ्रेभि॑ः शु॒भ्रश॑स्तमः ।
9.066.26c हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥
9.066.27a पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः ।
9.066.27c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.066.28a प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् ।
9.066.28c पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
9.066.29a ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः ।
9.066.29c इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥
9.066.30a यस्य॑ ते द्यु॒म्नव॒त्पय॒ः पव॑मा॒नाभृ॑तं दि॒वः ।
9.066.30c तेन॑ नो मृळ जी॒वसे॑ ॥
9.067.01a त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।
9.067.01c पव॑स्व मंह॒यद्र॑यिः ॥
9.067.02a त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।
9.067.02c इन्द्रा॑य सू॒रिरन्ध॑सा ॥
9.067.03a त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
9.067.03c द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
9.067.04a इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
9.067.04c हरि॒र्वाज॑मचिक्रदत् ॥
9.067.05a इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
9.067.05c वि वाजा॑न्सोम॒ गोम॑तः ॥
9.067.06a आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
9.067.06c भरा॑ सोम सह॒स्रिण॑म् ॥
9.067.07a पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑ः ।
9.067.07c इन्द्रं॒ यामे॑भिराशत ॥
9.067.08a क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।
9.067.08c आ॒युः प॑वत आ॒यवे॑ ॥
9.067.09a हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ः पव॑मानं मधु॒श्चुत॑म् ।
9.067.09c अ॒भि गि॒रा सम॑स्वरन् ॥
9.067.10a अ॒वि॒ता नो॑ अ॒जाश्व॑ः पू॒षा याम॑नियामनि ।
9.067.10c आ भ॑क्षत्क॒न्या॑सु नः ॥
9.067.11a अ॒यं सोम॑ः कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
9.067.11c आ भ॑क्षत्क॒न्या॑सु नः ॥
9.067.12a अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
9.067.12c आ भ॑क्षत्क॒न्या॑सु नः ॥
9.067.13a वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
9.067.13c दे॒वेषु॑ रत्न॒धा अ॑सि ॥
9.067.14a आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
9.067.14c अ॒भि द्रोणा॒ कनि॑क्रदत् ॥
9.067.15a परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
9.067.15c श्ये॒नो न त॒क्तो अ॑र्षति ॥
9.067.16a पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥
9.067.17a असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥
9.067.18a ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥
9.067.19a ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
9.067.19c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.067.20a ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
9.067.20c र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
9.067.21a यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह ।
9.067.21c पव॑मान॒ वि तज्ज॑हि ॥
9.067.22a पव॑मान॒ः सो अ॒द्य न॑ः प॒वित्रे॑ण॒ विच॑र्षणिः ।
9.067.22c यः पो॒ता स पु॑नातु नः ॥
9.067.23a यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा ।
9.067.23c ब्रह्म॒ तेन॑ पुनीहि नः ॥
9.067.24a यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।
9.067.24c ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥
9.067.25a उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
9.067.25c मां पु॑नीहि वि॒श्वत॑ः ॥
9.067.26a त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।
9.067.26c अग्ने॒ दक्षै॑ः पुनीहि नः ॥
9.067.27a पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या ।
9.067.27c विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥
9.067.28a प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभि॑ः ।
9.067.28c दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥
9.067.29a उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।
9.067.29c अग॑न्म॒ बिभ्र॑तो॒ नम॑ः ॥
9.067.30a अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
9.067.30c आ॒खुं चि॑दे॒व दे॑व सोम ॥
9.067.31a यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒ः सम्भृ॑तं॒ रस॑म् ।
9.067.31c सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥
9.067.32a पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒ः सम्भृ॑तं॒ रस॑म् ।
9.067.32c तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
9.068.01a प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नव॑ः ।
9.068.01c ब॒र्हि॒षदो॑ वच॒नाव॑न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥
9.068.02a स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुह॑ः श्र॒थय॑न्स्वादते॒ हरि॑ः ।
9.068.02c ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वर॑म् ॥
9.068.03a वि यो म॒मे य॒म्या॑ संय॒ती मद॑ः साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता ।
9.068.03c म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥
9.068.04a स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दम् ।
9.068.04c अं॒शुर्यवे॑न पिपिशे य॒तो नृभि॒ः सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिर॑ः ॥
9.068.05a सं दक्षे॑ण॒ मन॑सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।
9.068.05c यूना॑ ह॒ सन्ता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ॥
9.068.06a म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिण॑ः श्ये॒नो यदन्धो॒ अभ॑रत्परा॒वत॑ः ।
9.068.06c तं म॑र्जयन्त सु॒वृधं॑ न॒दीष्वाँ उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय॑म् ॥
9.068.07a त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् ।
9.068.07c अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥
9.068.08a प॒रि॒प्र॒यन्तं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभ॑ः ।
9.068.08c यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥
9.068.09a अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रज॒ः सोम॑ः पुना॒नः क॒लशे॑षु सीदति ।
9.068.09c अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ॥
9.068.10a ए॒वा न॑ः सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व ।
9.068.10c अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥
9.069.01a इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि ।
9.069.01c उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥
9.069.02a उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ ।
9.069.02c पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥
9.069.03a अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते ।
9.069.03c हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥
9.069.04a उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् ।
9.069.04c अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥
9.069.05a अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत ।
9.069.05c दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥
9.069.06a सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रास॑ः प्र॒सुप॑ः सा॒कमी॑रते ।
9.069.06c तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥
9.069.07a सिन्धो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत ।
9.069.07c शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजा॑ः सोम तिष्ठन्तु कृ॒ष्टय॑ः ॥
9.069.08a आ न॑ः पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् ।
9.069.08c यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धान॒ः प्रस्थि॑ता वय॒स्कृत॑ः ॥
9.069.09a ए॒ते सोमा॒ः पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ ।
9.069.09c सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥
9.069.10a इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑ः ।
9.069.10c भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
9.070.01a त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।
9.070.01c च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥
9.070.02a स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।
9.070.02c तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥
9.070.03a ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।
9.070.03c येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥
9.070.04a स मृ॒ज्यमा॑नो द॒शभि॑ः सु॒कर्म॑भि॒ः प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।
9.070.04c व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥
9.070.05a स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः ।
9.070.05c वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुध॑ः ॥
9.070.06a स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।
9.070.06c जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतु॑ः ॥
9.070.07a रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।
9.070.07c आ योनिं॒ सोम॒ः सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥
9.070.08a शुचि॑ः पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।
9.070.08c जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥
9.070.09a पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।
9.070.09c पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥
9.070.10a हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व ।
9.070.10c ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्प॑ः ॥
9.071.01a आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षस॑ः पाति॒ जागृ॑विः ।
9.071.01c हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥
9.071.02a प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तम् ।
9.071.02c जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥
9.071.03a अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती ।
9.071.03c स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥
9.071.04a परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्व॑ः सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि॑म् ।
9.071.04c आ यस्मि॒न्गाव॑ः सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी॑मभिः ॥
9.071.05a समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ ।
9.071.05c जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥
9.071.06a श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति ।
9.071.06c ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञिय॑ः ॥
9.071.07a परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि ।
9.071.07c स॒हस्र॑णीति॒र्यति॑ः परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥
9.071.08a त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः ।
9.071.08c अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥
9.071.09a उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य ।
9.071.09c दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोम॒ः परि॒ क्रतु॑ना पश्यते॒ जाः ॥
9.072.01a हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑ः क॒लशे॒ सोमो॑ अज्यते ।
9.072.01c उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रिय॑ः ॥
9.072.02a सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।
9.072.02c यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नर॒ः सनी॑ळाभिर्द॒शभि॒ः काम्यं॒ मधु॑ ॥
9.072.03a अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् ।
9.072.03c अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभि॒ः स्वसृ॑भिः क्षेति जा॒मिभि॑ः ॥
9.072.04a नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑रृ॒त्विय॑ः ।
9.072.04c पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑न॒ः शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥
9.072.05a नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते ।
9.072.05c आप्रा॒ः क्रतू॒न्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑ः ॥
9.072.06a अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिण॑ः ।
9.072.06c समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुव॑ः ॥
9.072.07a नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः ।
9.072.07c इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒ः सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
9.072.08a स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रज॑ः स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो ।
9.072.08c मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥
9.072.09a आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।
9.072.09c उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥
9.073.01a स्रक्वे॑ द्र॒प्सस्य॒ धम॑त॒ः सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः ।
9.073.01c त्रीन्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नाव॑ः सु॒कृत॑मपीपरन् ॥
9.073.02a स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।
9.073.02c मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥
9.073.03a प॒वित्र॑वन्त॒ः परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् ।
9.073.03c म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥
9.073.04a स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चत॑ः ।
9.073.04c अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिन॑ः सन्ति॒ सेत॑वः ॥
9.073.05a पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् ।
9.073.05c इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥
9.073.06a प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः ।
9.073.06c अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृत॑ः ॥
9.073.07a स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिण॑ः ।
9.073.07c रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुह॒ः स्पश॒ः स्वञ्च॑ः सु॒दृशो॑ नृ॒चक्ष॑सः ॥
9.073.08a ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे ।
9.073.08c वि॒द्वान्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥
9.073.09a ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।
9.073.09c धीरा॑श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
9.074.01a शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति ।
9.074.01c दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथ॑ः ॥
9.074.02a दि॒वो यः स्क॒म्भो ध॒रुण॒ः स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वत॑ः ।
9.074.02c सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिष॑ः क॒विः ॥
9.074.03a महि॒ प्सर॒ः सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेरृ॒तं य॒ते ।
9.074.03c ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिरृ॒ग्मिय॑ः ॥
9.074.04a आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते ।
9.074.04c स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ पेर॑वः ॥
9.074.05a अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् ।
9.074.05c दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
9.074.06a स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः ।
9.074.06c चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुत॑ः ॥
9.074.07a श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः ।
9.074.07c धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव॑न्ध॒मव॑ दर्षदु॒द्रिण॑म् ॥
9.074.08a अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् ।
9.074.08c आ हि॑न्विरे॒ मन॑सा देव॒यन्त॑ः क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥
9.074.09a अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति ।
9.074.09c स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥
9.075.01a अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते ।
9.075.01c आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥
9.075.02a ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः ।
9.075.02c दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
9.075.03a अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ ।
9.075.03c अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥
9.075.04a अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचि॑ः ।
9.075.04c रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥
9.075.05a परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभि॑ः पुना॒नो अ॒भि वा॑सया॒शिर॑म् ।
9.075.05c ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिन्द्रं॑ चोदय॒ दात॑वे म॒घम् ॥
No comments:
Post a Comment