8.051.01a यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् ।
8.051.01c नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥
8.051.02a पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् ।
8.051.02c स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृक॑ः ॥
8.051.03a य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।
8.051.03c इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥
8.051.04a यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।
8.051.04c स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥
8.051.05a यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् ।
8.051.05c वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥
8.051.06a यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।
8.051.06c तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥
8.051.07a क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
8.051.07c उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥
8.051.08a प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।
8.051.08c य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥
8.051.09a यस्या॒यं विश्व॒ आर्यो॒ दास॑ः शेवधि॒पा अ॒रिः ।
8.051.09c ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥
8.051.10a तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।
8.051.10c अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
8.052.01a यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तम् ।
8.052.01c यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥
8.052.02a पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम॑न्दथाः ।
8.052.02c यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥
8.052.03a य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।
8.052.03c यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥
8.052.04a यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो ।
8.052.04c तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यव॑ः ॥
8.052.05a यो नो॑ दा॒ता स न॑ः पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
8.052.05c अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥
8.052.06a यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।
8.052.06c व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥
8.052.07a क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
8.052.07c तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥
8.052.08a यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वण॒ः शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।
8.052.08c अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव॑म् ॥
8.052.09a अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत ।
8.052.09c पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
8.052.10a समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् ।
8.052.10c सं शु॒क्रास॒ः शुच॑य॒ः सं गवा॑शिर॒ः सोमा॒ इन्द्र॑ममन्दिषुः ॥
8.053.01a उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् ।
8.053.01c पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥
8.053.02a य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।
8.053.02c तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥
8.053.03a आ नो॒ विश्वे॑षां॒ रसं॒ मध्व॑ः सिञ्च॒न्त्वद्र॑यः ।
8.053.03c ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः ॥
8.053.04a विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ ।
8.053.04c शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥
8.053.05a इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभि॑ः ।
8.053.05c आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभि॑ः ॥
8.053.06a आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् ।
8.053.06c प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिन॒ः क्रतुं॑ पुन॒त आ॑नु॒षक् ॥
8.053.07a यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते ।
8.053.07c व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥
8.053.08a अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभि॑ः ।
8.053.08c त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नाम् ॥
8.054.01a ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑ः ।
8.054.01c ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑ः ॥
8.054.02a नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से ।
8.054.02c यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥
8.054.03a आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गन्त॒नोप॑ नः ।
8.054.03c वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव॑म् ॥
8.054.04a पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः ।
8.054.04c आपो॒ वात॒ः पर्व॑तासो॒ वन॒स्पति॑ः शृ॒णोतु॑ पृथि॒वी हव॑म् ॥
8.054.05a यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।
8.054.05c तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥
8.054.06a आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो ।
8.054.06c वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥
8.054.07a सन्ति॒ ह्य१॒॑र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना॑नाम् ।
8.054.07c अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ॥
8.054.08a व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो ।
8.054.08c महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥
8.055.01a भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति ।
8.055.01c राध॑स्ते दस्यवे वृक ॥
8.055.02a श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते ।
8.055.02c म॒ह्ना दिवं॒ न त॑स्तभुः ॥
8.055.03a श॒तं वे॒णूञ्छ॒तं शुन॑ः श॒तं चर्मा॑णि म्ला॒तानि॑ ।
8.055.03c श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतु॑ःशतम् ॥
8.055.04a सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्त॑ः ।
8.055.04c अश्वा॑सो॒ न च॑ङ्क्रमत ॥
8.055.05a आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रव॑ः ।
8.055.05c श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥
8.056.01a प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् ।
8.056.01c द्यौर्न प्र॑थि॒ना शव॑ः ॥
8.056.02a दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृक॑ः ।
8.056.02c नित्या॑द्रा॒यो अ॑मंहत ॥
8.056.03a श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् ।
8.056.03c श॒तं दा॒साँ अति॒ स्रज॑ः ॥
8.056.04a तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता ।
8.056.04c अश्वा॑ना॒मिन्न यू॒थ्या॑म् ॥
8.056.05a अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।
8.056.05c अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥
8.057.01a यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।
8.057.01c आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥
8.057.02a यु॒वां दे॒वास्त्रय॑ एकाद॒शास॑ः स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।
8.057.02c अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥
8.057.03a प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।
8.057.03c स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥
8.057.04a अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातम् ।
8.057.04c पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥
8.058.01a यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒ः सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति ।
8.058.01c यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥
8.058.02a एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒ः सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।
8.058.02c एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥
8.058.03a ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम् ।
8.058.03c चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥
8.059.01a इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् ।
8.059.01c य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥
8.059.02a नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त ।
8.059.02c या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययो॒ः शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥
8.059.03a स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणी॑ः ।
8.059.03c ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥
8.059.04a घृ॒त॒प्रुष॒ः सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑र॒ः सद॑न ऋ॒तस्य॑ ।
8.059.04c या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥
8.059.05a अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् ।
8.059.05c अ॒स्मान्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑ः सा॒प्तेभि॑रवतं शुभस्पती ॥
8.059.06a इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।
8.059.06c यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥
8.059.07a इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् ।
8.059.07c प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयु॑ः ॥
8.060.01a अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे ।
8.060.01c आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥
8.060.02a अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒ः स्रुच॒श्चर॑न्त्यध्व॒रे ।
8.060.02c ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
8.060.03a अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्य॑ः ।
8.060.03c म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥
8.060.04a अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ ।
8.060.04c अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ॥
8.060.05a त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातरृ॒तस्क॒विः ।
8.060.05c त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धस॑ः ॥
8.060.06a शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि ।
8.060.06c दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रय॑ः शत्रू॒षाह॑ः स्व॒ग्नय॑ः ॥
8.060.07a यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ ।
8.060.07c ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥
8.060.08a मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः ।
8.060.08c अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑ः पाहि पा॒युभि॑ः ॥
8.060.09a पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या ।
8.060.09c पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥
8.060.10a पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्ण॒ः प्र स्म॒ वाजे॑षु नोऽव ।
8.060.10c त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥
8.060.11a आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्य॑म् ।
8.060.11c रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरम् ॥
8.060.12a येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिश॑ः ।
8.060.12c स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विद॑ः ॥
8.060.13a शिशा॑नो वृष॒भो य॑था॒ग्निः शृङ्गे॒ दवि॑ध्वत् ।
8.060.13c ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जम्भ॒ः सह॑सो य॒हुः ॥
8.060.14a न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से ।
8.060.14c स त्वं नो॑ होत॒ः सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥
8.060.15a शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते ।
8.060.15c अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥
8.060.16a स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यम् ।
8.060.16c भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जनाँ॒ अति॑ ॥
8.060.17a अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः ।
8.060.17c अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नाम् ॥
8.060.18a केते॑न॒ शर्म॑न्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ ।
8.060.18c इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
8.060.19a अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षस॑ः ।
8.060.19c अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥
8.060.20a मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑ताम् ।
8.060.20c प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विन॑ः ॥
8.061.01a उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑ः ।
8.061.01c स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥
8.061.02a तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑ः ।
8.061.02c उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑ः ॥
8.061.03a आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः ।
8.061.03c वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥
8.061.04a अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वश॑ः ।
8.061.04c स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥
8.061.05a श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.061.05c भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
8.061.06a पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्यय॑ः ।
8.061.06c नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
8.061.07a त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।
8.061.07c उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥
8.061.08a त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।
8.061.08c आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥
8.061.09a अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वच॑ः ।
8.061.09c स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥
8.061.10a उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धव॑म् ।
8.061.10c व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥
8.061.11a न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।
8.061.11c यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥
8.061.12a उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् ।
8.061.12c वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥
8.061.13a यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
8.061.13c मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥
8.061.14a त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।
8.061.14c तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥
8.061.15a इन्द्र॒ः स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।
8.061.15c स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥
8.061.16a त्वं न॑ः प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वत॑ः ।
8.061.16c आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
8.061.17a अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः ।
8.061.17c विश्वा॑ च नो जरि॒तॄन्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥
8.061.18a प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒ः सम्मि॑श्लो वि॒र्या॑य॒ कम् ।
8.061.18c उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑ः ॥
8.062.01a प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति ।
8.062.01c उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.02a अ॒यु॒जो अस॑मो॒ नृभि॒रेक॑ः कृ॒ष्टीर॒यास्य॑ः ।
8.062.02c पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.03a अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति ।
8.062.03c प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.04a आ या॑हि कृ॒णवा॑म त॒ इन्द्र॒ ब्रह्मा॑णि॒ वर्ध॑ना ।
8.062.04c येभि॑ः शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.05a धृ॒ष॒तश्चि॑द्धृ॒षन्मन॑ः कृ॒णोषी॑न्द्र॒ यत्त्वम् ।
8.062.05c ती॒व्रैः सोमै॑ः सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.06a अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः ।
8.062.06c जु॒ष्ट्वी दक्ष॑स्य सो॒मिन॒ः सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.07a विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः ।
8.062.07c भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.08a गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये ।
8.062.08c यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.09a सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा ।
8.062.09c वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.10a उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् ।
8.062.10c भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.11a अ॒हं च॒ त्वं च॑ वृत्रह॒न्सं यु॑ज्याव स॒निभ्य॒ आ ।
8.062.11c अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.062.12a स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् ।
8.062.12c म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥
8.063.01a स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।
8.063.01c यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
8.063.02a दि॒वो मानं॒ नोत्स॑द॒न्सोम॑पृष्ठासो॒ अद्र॑यः ।
8.063.02c उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥
8.063.03a स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ ।
8.063.03c स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥
8.063.04a स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणि॑ः ।
8.063.04c शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥
8.063.05a आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।
8.063.05c श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥
8.063.06a इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।
8.063.06c यम॒र्का अ॑ध्व॒रं वि॒दुः ॥
8.063.07a यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत ।
8.063.07c अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षय॑ः ॥
8.063.08a इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।
8.063.08c प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥
8.063.09a अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।
8.063.09c यवं॒ न प॒श्व आ द॑दे ॥
8.063.10a तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।
8.063.10c स्याम॑ म॒रुत्व॑तो वृ॒धे ॥
8.063.11a बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।
8.063.11c जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥
8.063.12a अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑ः ।
8.063.12c यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
8.064.01a उत्त्वा॑ मन्दन्तु॒ स्तोमा॑ः कृणु॒ष्व राधो॑ अद्रिवः ।
8.064.01c अव॑ ब्रह्म॒द्विषो॑ जहि ॥
8.064.02a प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।
8.064.02c न॒हि त्वा॒ कश्च॒न प्रति॑ ॥
8.064.03a त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् ।
8.064.03c त्वं राजा॒ जना॑नाम् ॥
8.064.04a एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोष॑ञ्चर्षणी॒नाम् ।
8.064.04c ओभे पृ॑णासि॒ रोद॑सी ॥
8.064.05a त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म् ।
8.064.05c वि स्तो॒तृभ्यो॑ रुरोजिथ ॥
8.064.06a व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।
8.064.06c अ॒स्माकं॒ काम॒मा पृ॑ण ॥
8.064.07a क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।
8.064.07c ब्र॒ह्मा कस्तं स॑पर्यति ॥
8.064.08a कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।
8.064.08c इन्द्रं॒ क उ॑ स्वि॒दा च॑के ॥
8.064.09a कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।
8.064.09c उ॒क्थे क उ॑ स्वि॒दन्त॑मः ॥
8.064.10a अ॒यं ते॒ मानु॑षे॒ जने॒ सोम॑ः पू॒रुषु॑ सूयते ।
8.064.10c तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
8.064.11a अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।
8.064.11c आ॒र्जी॒कीये॑ म॒दिन्त॑मः ॥
8.064.12a तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।
8.064.12c एही॑मिन्द्र॒ द्रवा॒ पिब॑ ॥
8.065.01a यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑ः ।
8.065.01c आ या॑हि॒ तूय॑मा॒शुभि॑ः ॥
8.065.02a यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।
8.065.02c यद्वा॑ समु॒द्रे अन्ध॑सः ॥
8.065.03a आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।
8.065.03c इन्द्र॒ सोम॑स्य पी॒तये॑ ॥
8.065.04a आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ मह॑ः ।
8.065.04c रथे॑ वहन्तु॒ बिभ्र॑तः ॥
8.065.05a इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
8.065.05c एहि॑ नः सु॒तं पिब॑ ॥
8.065.06a सु॒ताव॑न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे ।
8.065.06c इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
8.065.07a यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।
8.065.07c तं त्वा॑ व॒यं ह॑वामहे ॥
8.065.08a इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नर॑ः ।
8.065.08c जु॒षा॒ण इ॑न्द्र॒ तत्पि॑ब ॥
8.065.09a विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।
8.065.09c अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
8.065.10a दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीना॑म् ।
8.065.10c मा दे॑वा म॒घवा॑ रिषत् ॥
8.065.11a स॒हस्रे॒ पृष॑तीना॒मधि॑ श्च॒न्द्रं बृ॒हत्पृ॒थु ।
8.065.11c शु॒क्रं हिर॑ण्य॒मा द॑दे ॥
8.065.12a नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।
8.065.12c श्रवो॑ दे॒वेष्व॑क्रत ॥
8.066.01a तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ ।
8.066.01c बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥
8.066.02a न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः ।
8.066.02c य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥
8.066.03a यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्यय॑ः ।
8.066.03c स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥
8.066.04a निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।
8.066.04c व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्र॒ः क्रत्वा॒ यथा॒ वश॑त् ॥
8.066.05a यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् ।
8.066.05c व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वच॑ः ॥
8.066.06a सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।
8.066.06c त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठ॑ः सुन्व॒ते भुव॑ः ॥
8.066.07a व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् ।
8.066.07c तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥
8.066.08a वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।
8.066.08c सेमं न॒ः स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥
8.066.09a कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।
8.066.09c केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुष॒ः परि॑ वृत्र॒हा ॥
8.066.10a कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षी॒ः कदु॑ वृत्र॒घ्नो अस्तृ॑तम् ।
8.066.10c इन्द्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥
8.066.11a व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् ।
8.066.11c पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥
8.066.12a पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तय॑ः ।
8.066.12c ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥
8.066.13a व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि ।
8.066.13c न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥
8.066.14a त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।
8.066.14c त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥
8.066.15a सोम॒ इद्व॑ः सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।
8.066.15c अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥
8.067.01a त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।
8.067.01c सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥
8.067.02a मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।
8.067.02c आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥
8.067.03a तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।
8.067.03c आ॒दि॒त्याना॑मरं॒कृते॑ ॥
8.067.04a महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।
8.067.04c अवां॒स्या वृ॑णीमहे ॥
8.067.05a जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।
8.067.05c कद्ध॑ स्थ हवनश्रुतः ॥
8.067.06a यद्व॑ः श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।
8.067.06c तेना॑ नो॒ अधि॑ वोचत ॥
8.067.07a अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।
8.067.07c आदि॑त्या॒ अद्भु॑तैनसः ॥
8.067.08a मा न॒ः सेतु॑ः सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।
8.067.08c इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥
8.067.09a मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।
8.067.09c देवा॑ अ॒भि प्र मृ॑क्षत ॥
8.067.10a उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।
8.067.10c सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥
8.067.11a पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।
8.067.11c माकि॑स्तो॒कस्य॑ नो रिषत् ॥
8.067.12a अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।
8.067.12c कृ॒धि तो॒काय॑ जी॒वसे॑ ॥
8.067.13a ये मू॒र्धान॑ः क्षिती॒नामद॑ब्धास॒ः स्वय॑शसः ।
8.067.13c व्र॒ता रक्ष॑न्ते अ॒द्रुह॑ः ॥
8.067.14a ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।
8.067.14c स्ते॒नं ब॒द्धमि॑वादिते ॥
8.067.15a अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।
8.067.15c अ॒स्मदे॒त्वज॑घ्नुषी ॥
8.067.16a शश्व॒द्धि व॑ः सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् ।
8.067.16c पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥
8.067.17a शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः ।
8.067.17c देवा॑ः कृणु॒थ जी॒वसे॑ ॥
8.067.18a तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।
8.067.18c ब॒न्धाद्ब॒द्धमि॑वादिते ॥
8.067.19a नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।
8.067.19c यू॒यम॒स्मभ्यं॑ मृळत ॥
8.067.20a मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरु॑ः ।
8.067.20c पु॒रा नु ज॒रसो॑ वधीत् ॥
8.067.21a वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् ।
8.067.21c विष्व॒ग्वि वृ॑हता॒ रप॑ः ॥
8.068.01a आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।
8.068.01c तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥
8.068.02a तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।
8.068.02c आ प॑प्राथ महित्व॒ना ॥
8.068.03a यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑ः ।
8.068.03c हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥
8.068.04a वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।
8.068.04c एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥
8.068.05a अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नर॑ः ।
8.068.05c नाना॒ हव॑न्त ऊ॒तये॑ ॥
8.068.06a प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् ।
8.068.06c ईशा॑नं चि॒द्वसू॑नाम् ॥
8.068.07a तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ ।
8.068.07c यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥
8.068.08a न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्य॑ः ।
8.068.08c नकि॒ः शवां॑सि ते नशत् ॥
8.068.09a त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म् ।
8.068.09c जये॑म पृ॒त्सु व॑ज्रिवः ॥
8.068.10a तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।
8.068.10c इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥
8.068.11a यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।
8.068.11c य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥
8.068.12a उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।
8.068.12c उ॒रु णो॑ यन्धि जी॒वसे॑ ॥
8.068.13a उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् ।
8.068.13c दे॒ववी॑तिं मनामहे ॥
8.068.14a उप॑ मा॒ षड्द्वाद्वा॒ नर॒ः सोम॑स्य॒ हर्ष्या॑ ।
8.068.14c तिष्ठ॑न्ति स्वादुरा॒तय॑ः ॥
8.068.15a ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ ।
8.068.15c आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥
8.068.16a सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।
8.068.16c आ॒श्व॒मे॒धे सु॒पेश॑सः ॥
8.068.17a षळश्वाँ॑ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः ।
8.068.17c सचा॑ पू॒तक्र॑तौ सनम् ॥
8.068.18a ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी ।
8.068.18c स्व॒भी॒शुः कशा॑वती ॥
8.068.19a न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑ः ।
8.068.19c अ॒व॒द्यमधि॑ दीधरत् ॥
8.069.01a प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे ।
8.069.01c धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥
8.069.02a न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् ।
8.069.02c पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥
8.069.03a ता अ॑स्य॒ सूद॑दोहस॒ः सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
8.069.03c जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
8.069.04a अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।
8.069.04c सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥
8.069.05a आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।
8.069.05c यत्रा॒भि सं॒नवा॑महे ॥
8.069.06a इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
8.069.06c यत्सी॑मुपह्व॒रे वि॒दत् ॥
8.069.07a उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि ।
8.069.07c मध्व॑ः पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्यु॑ः प॒दे ॥
8.069.08a अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।
8.069.08c अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥
8.069.09a अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।
8.069.09c पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥
8.069.10a आ यत्पत॑न्त्ये॒न्य॑ः सु॒दुघा॒ अन॑पस्फुरः ।
8.069.10c अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥
8.069.11a अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।
8.069.11c वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥
8.069.12a सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः ।
8.069.12c अ॒नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥
8.069.13a यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ ।
8.069.13c त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥
8.069.14a अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विष॑ः ।
8.069.14c भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥
8.069.15a अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् ।
8.069.15c स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥
8.069.16a आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् ।
8.069.16c अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥
8.069.17a तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
8.069.17c अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥
8.069.18a अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् ।
8.069.18c पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥
8.070.01a यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
8.070.01c विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
8.070.02a इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।
8.070.02c हस्ता॑य॒ वज्र॒ः प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑ः ॥
8.070.03a नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् ।
8.070.03c इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥
8.070.04a अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रय॑ः ।
8.070.04c सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒ः क्षामो॑ अनोनवुः ॥
8.070.05a यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
8.070.05c न त्वा॑ वज्रिन्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
8.070.06a आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।
8.070.06c अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ॥
8.070.07a न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्य॑ः ।
8.070.07c एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥
8.070.08a तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् ।
8.070.08c यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्य॑ः ॥
8.070.09a उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।
8.070.09c उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥
8.070.10a त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि ।
8.070.10c मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथै॑ः ॥
8.070.11a अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् ।
8.070.11c अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥
8.070.12a त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।
8.070.12c धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥
8.070.13a सखा॑य॒ः क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।
8.070.13c उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥
8.070.14a भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।
8.070.14c यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒दद॑ः ॥
8.070.15a क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।
8.070.15c अ॒जां सू॒रिर्न धात॑वे ॥
8.071.01a त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।
8.071.01c उ॒त द्वि॒षो मर्त्य॑स्य ॥
8.071.02a न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि व॑ः प्रियजात ।
8.071.02c त्वमिद॑सि॒ क्षपा॑वान् ॥
8.071.03a स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।
8.071.03c र॒यिं दे॑हि वि॒श्ववा॑रम् ॥
8.071.04a न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवन्त रा॒यः ।
8.071.04c यं त्राय॑से दा॒श्वांस॑म् ॥
8.071.05a यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।
8.071.05c स तवो॒ती गोषु॒ गन्ता॑ ॥
8.071.06a त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।
8.071.06c प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥
8.071.07a उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।
8.071.07c दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥
8.071.08a अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।
8.071.08c त्वमी॑शिषे॒ वसू॑नाम् ॥
8.071.09a स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।
8.071.09c सखे॑ वसो जरि॒तृभ्य॑ः ॥
8.071.10a अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यन्तु दर्श॒तम् ।
8.071.10c अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥
8.071.11a अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् ।
8.071.11c द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥
8.071.12a अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
8.071.12c अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥
8.071.13a अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् ।
8.071.13c अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥
8.071.14a अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।
8.071.14c अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥
8.071.15a अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।
8.071.15c विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑रृषू॒णाम् ॥
8.072.01a ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुन॑ः ।
8.072.01c वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥
8.072.02a नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।
8.072.02c जु॒षा॒णो अ॑स्य स॒ख्यम् ॥
8.072.03a अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।
8.072.03c गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥
8.072.04a जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् ।
8.072.04c दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥
8.072.05a चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते ।
8.072.05c वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥
8.072.06a उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।
8.072.06c दा॒मा रथ॑स्य॒ ददृ॑शे ॥
8.072.07a दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ।
8.072.07c ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥
8.072.08a आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्र॒ः कोश॑मचुच्यवीत् ।
8.072.08c खेद॑या त्रि॒वृता॑ दि॒वः ॥
8.072.09a परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।
8.072.09c मध्वा॒ होता॑रो अञ्जते ॥
8.072.10a सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् ।
8.072.10c नी॒चीन॑बार॒मक्षि॑तम् ॥
8.072.11a अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।
8.072.11c अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥
8.072.12a गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।
8.072.12c उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥
8.072.13a आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् ।
8.072.13c र॒सा द॑धीत वृष॒भम् ॥
8.072.14a ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभि॑ः ।
8.072.14c मि॒थो न॑सन्त जा॒मिभि॑ः ॥
8.072.15a उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।
8.072.15c इन्द्रे॑ अ॒ग्ना नम॒ः स्व॑ः ॥
8.072.16a अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।
8.072.16c सूर्य॑स्य स॒प्त र॒श्मिभि॑ः ॥
8.072.17a सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।
8.072.17c तदातु॑रस्य भेष॒जम् ॥
8.072.18a उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् ।
8.072.18c परि॒ द्यां जि॒ह्वया॑तनत् ॥
8.073.01a उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ।
8.073.01c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.02a नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।
8.073.02c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.03a उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।
8.073.03c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.04a कुह॑ स्थ॒ः कुह॑ जग्मथु॒ः कुह॑ श्ये॒नेव॑ पेतथुः ।
8.073.04c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.05a यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् ।
8.073.05c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.06a अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य॑म् ।
8.073.06c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.07a अव॑न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।
8.073.07c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.08a वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये ।
8.073.08c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.09a प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।
8.073.09c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.10a इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव॑म् ।
8.073.10c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.11a किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।
8.073.11c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.12a स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना ।
8.073.12c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.13a यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।
8.073.13c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.14a आ नो॒ गव्ये॑भि॒रश्व्यै॑ः स॒हस्रै॒रुप॑ गच्छतम् ।
8.073.14c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.15a मा नो॒ गव्ये॑भि॒रश्व्यै॑ः स॒हस्रे॑भि॒रति॑ ख्यतम् ।
8.073.15c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.16a अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑रृ॒ताव॑री ।
8.073.16c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.17a अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।
8.073.17c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.073.18a पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।
8.073.18c अन्ति॒ षद्भू॑तु वा॒मव॑ः ॥
8.074.01a वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑ः पुरुप्रि॒यम् ।
8.074.01c अ॒ग्निं वो॒ दुर्यं॒ वच॑ः स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥
8.074.02a यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् ।
8.074.02c प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥
8.074.03a पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।
8.074.03c ह॒व्यान्यैर॑यद्दि॒वि ॥
8.074.04a आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् ।
8.074.04c यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥
8.074.05a अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् ।
8.074.05c घृ॒ताह॑वन॒मीड्य॑म् ॥
8.074.06a स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।
8.074.06c जुह्वा॑नासो य॒तस्रु॑चः ॥
8.074.07a इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।
8.074.07c मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥
8.074.08a सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।
8.074.08c तया॑ वर्धस्व॒ सुष्टु॑तः ॥
8.074.09a सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रव॑ः ।
8.074.09c दधी॑त वृत्र॒तूर्ये॑ ॥
8.074.10a अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् ।
8.074.10c यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टय॑ः ॥
8.074.11a यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः ।
8.074.11c स पा॑वक श्रुधी॒ हव॑म् ॥
8.074.12a यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।
8.074.12c स बो॑धि वृत्र॒तूर्ये॑ ॥
8.074.13a अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।
8.074.13c शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥
8.074.14a मां च॒त्वार॑ आ॒शव॒ः शवि॑ष्ठस्य द्रवि॒त्नव॑ः ।
8.074.14c सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥
8.074.15a स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् ।
8.074.15c नेमा॑पो अश्व॒दात॑र॒ः शवि॑ष्ठादस्ति॒ मर्त्य॑ः ॥
8.075.01a यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
8.075.01c नि होता॑ पू॒र्व्यः स॑दः ॥
8.075.02a उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
8.075.02c श्रद्विश्वा॒ वार्या॑ कृधि ॥
8.075.03a त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।
8.075.03c ऋ॒तावा॑ य॒ज्ञियो॒ भुव॑ः ॥
8.075.04a अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पति॑ः ।
8.075.04c मू॒र्धा क॒वी र॑यी॒णाम् ॥
8.075.05a तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
8.075.05c नेदी॑यो य॒ज्ञम॑ङ्गिरः ॥
8.075.06a तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
8.075.06c वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥
8.075.07a कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
8.075.07c प॒णिं गोषु॑ स्तरामहे ॥
8.075.08a मा नो॑ दे॒वानां॒ विश॑ः प्रस्ना॒तीरि॑वो॒स्राः ।
8.075.08c कृ॒शं न हा॑सु॒रघ्न्या॑ः ॥
8.075.09a मा न॑ः समस्य दू॒ढ्य१॒॑ः परि॑द्वेषसो अंह॒तिः ।
8.075.09c ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥
8.075.10a नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टय॑ः ।
8.075.10c अमै॑र॒मित्र॑मर्दय ॥
8.075.11a कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् ।
8.075.11c उरु॑कृदु॒रु ण॑स्कृधि ॥
8.075.12a मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
8.075.12c सं॒वर्गं॒ सं र॒यिं ज॑य ॥
8.075.13a अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
8.075.13c वर्धा॑ नो॒ अम॑व॒च्छव॑ः ॥
8.075.14a यस्याजु॑षन्नम॒स्विन॒ः शमी॒मदु॑र्मखस्य वा ।
8.075.14c तं घेद॒ग्निर्वृ॒धाव॑ति ॥
8.075.15a पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।
8.075.15c यत्रा॒हमस्मि॒ ताँ अ॑व ॥
8.075.16a वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
8.075.16c अधा॑ ते सु॒म्नमी॑महे ॥
8.076.01a इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।
8.076.01c म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥
8.076.02a अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑ः ।
8.076.02c वज्रे॑ण श॒तप॑र्वणा ॥
8.076.03a वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् ।
8.076.03c सृ॒जन्स॑मु॒द्रिया॑ अ॒पः ॥
8.076.04a अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।
8.076.04c इन्द्रे॑ण॒ सोम॑पीतये ॥
8.076.05a म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् ।
8.076.05c इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥
8.076.06a इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे ।
8.076.06c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.076.07a म॒रुत्वाँ॑ इन्द्र मीढ्व॒ः पिबा॒ सोमं॑ शतक्रतो ।
8.076.07c अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥
8.076.08a तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।
8.076.08c हृ॒दा हू॑यन्त उ॒क्थिन॑ः ॥
8.076.09a पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।
8.076.09c वज्रं॒ शिशा॑न॒ ओज॑सा ॥
8.076.10a उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
8.076.10c सोम॑मिन्द्र च॒मू सु॒तम् ॥
8.076.11a अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।
8.076.11c इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥
8.076.12a वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् ।
8.076.12c इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥
8.077.01a ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर॑म् ।
8.077.01c क उ॒ग्राः के ह॑ शृण्विरे ॥
8.077.02a आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव॑म् ।
8.077.02c ते पु॑त्र सन्तु नि॒ष्टुर॑ः ॥
8.077.03a समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।
8.077.03c प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥
8.077.04a एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शत॑म् ।
8.077.04c इन्द्र॒ः सोम॑स्य काणु॒का ॥
8.077.05a अ॒भि ग॑न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।
8.077.05c इन्द्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥
8.077.06a निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नम् ।
8.077.06c इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥
8.077.07a श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।
8.077.07c यमि॑न्द्र चकृ॒षे युज॑म् ॥
8.077.08a तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।
8.077.08c स॒द्यो जा॒त ऋ॑भुष्ठिर ॥
8.077.09a ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।
8.077.09c हृ॒दा वी॒ड्व॑धारयः ॥
8.077.10a विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।
8.077.10c श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ॥
8.077.11a तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑ः सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑ः ।
8.077.11c उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥
8.078.01a पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र ।
8.078.01c श॒ता च॑ शूर॒ गोना॑म् ॥
8.078.02a आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् ।
8.078.02c सचा॑ म॒ना हि॑र॒ण्यया॑ ॥
8.078.03a उ॒त न॑ः कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।
8.078.03c त्वं हि शृ॑ण्वि॒षे व॑सो ॥
8.078.04a नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।
8.078.04c नान्यस्त्वच्छू॑र वा॒घत॑ः ॥
8.078.05a नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।
8.078.05c विश्वं॑ शृणोति॒ पश्य॑ति ॥
8.078.06a स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।
8.078.06c पु॒रा नि॒दश्चि॑कीषते ॥
8.078.07a क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।
8.078.07c वृ॒त्र॒घ्नः सो॑म॒पाव्न॑ः ॥
8.078.08a त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।
8.078.08c सु॒दात्वप॑रिह्वृता ॥
8.078.09a त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।
8.078.09c त्वाम॑श्व॒युरेष॑ते ॥
8.078.10a तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
8.078.10c दि॒नस्य॑ वा मघव॒न्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
8.079.01a अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोम॑ः ।
8.079.01c ऋषि॒र्विप्र॒ः काव्ये॑न ॥
8.079.02a अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।
8.079.02c प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥
8.079.03a त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।
8.079.03c उ॒रु य॒न्तासि॒ वरू॑थम् ॥
8.079.04a त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।
8.079.04c यावी॑र॒घस्य॑ चि॒द्द्वेष॑ः ॥
8.079.05a अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् ।
8.079.05c व॒वृ॒ज्युस्तृष्य॑त॒ः काम॑म् ॥
8.079.06a वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।
8.079.06c प्रेमायु॑स्तारी॒दती॑र्णम् ॥
8.079.07a सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।
8.079.07c भवा॑ नः सोम॒ शं हृ॒दे ॥
8.079.08a मा न॑ः सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।
8.079.08c मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥
8.079.09a अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।
8.079.09c राज॒न्नप॒ द्विष॑ः सेध॒ मीढ्वो॒ अप॒ स्रिध॑ः सेध ॥
8.080.01a न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो ।
8.080.01c त्वं न॑ इन्द्र मृळय ॥
8.080.02a यो न॒ः शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये ।
8.080.02c स त्वं न॑ इन्द्र मृळय ॥
8.080.03a किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि ।
8.080.03c कु॒वित्स्वि॑न्द्र ण॒ः शक॑ः ॥
8.080.04a इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः ।
8.080.04c पु॒रस्ता॑देनं मे कृधि ॥
8.080.05a हन्तो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि ।
8.080.05c उ॒प॒मं वा॑ज॒यु श्रव॑ः ॥
8.080.06a अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।
8.080.06c अ॒स्मान्सु जि॒ग्युष॑स्कृधि ॥
8.080.07a इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् ।
8.080.07c इ॒यं धीरृ॒त्विया॑वती ॥
8.080.08a मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धन॑म् ।
8.080.08c अ॒पावृ॑क्ता अर॒त्नय॑ः ॥
8.080.09a तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि ।
8.080.09c आदित्पति॑र्न ओहसे ॥
8.080.10a अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।
8.080.10c तस्मा॑ उ॒ राध॑ः कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
8.081.01a आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
8.081.01c म॒हा॒ह॒स्ती दक्षि॑णेन ॥
8.081.02a वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् ।
8.081.02c तु॒वि॒मा॒त्रमवो॑भिः ॥
8.081.03a न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् ।
8.081.03c भी॒मं न गां वा॒रय॑न्ते ॥
8.081.04a एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्व॑ः स्व॒राज॑म् ।
8.081.04c न राध॑सा मर्धिषन्नः ॥
8.081.05a प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् ।
8.081.05c अ॒भि राध॑सा जुगुरत् ॥
8.081.06a आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
8.081.06c इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥
8.081.07a उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् ।
8.081.07c अदा॑शूष्टरस्य॒ वेद॑ः ॥
8.081.08a इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒ः सनि॑त्वः ।
8.081.08c अ॒स्माभि॒ः सु तं स॑नुहि ॥
8.081.09a स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः ।
8.081.09c वशै॑श्च म॒क्षू ज॑रन्ते ॥
8.082.01a आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
8.082.01c मध्व॒ः प्रति॒ प्रभ॑र्मणि ॥
8.082.02a ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑ः ।
8.082.02c पिबा॑ द॒धृग्यथो॑चि॒षे ॥
8.082.03a इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
8.082.03c भुव॑त्त इन्द्र॒ शं हृ॒दे ॥
8.082.04a आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
8.082.04c उ॒प॒मे रो॑च॒ने दि॒वः ॥
8.082.05a तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑ः श्री॒तो मदा॑य॒ कम् ।
8.082.05c प्र सोम॑ इन्द्र हूयते ॥
8.082.06a इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
8.082.06c वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥
8.082.07a य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
8.082.07c पिबेद॑स्य॒ त्वमी॑शिषे ॥
8.082.08a यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
8.082.08c पिबेद॑स्य॒ त्वमी॑शिषे ॥
8.082.09a यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
8.082.09c पिबेद॑स्य॒ त्वमी॑शिषे ॥
8.083.01a दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।
8.083.01c वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
8.083.02a ते न॑ः सन्तु॒ युज॒ः सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
8.083.02c वृ॒धास॑श्च॒ प्रचे॑तसः ॥
8.083.03a अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ ।
8.083.03c यू॒यमृ॒तस्य॑ रथ्यः ॥
8.083.04a वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् ।
8.083.04c वा॒मं ह्या॑वृणी॒महे॑ ॥
8.083.05a वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः ।
8.083.05c नेमा॑दित्या अ॒घस्य॒ यत् ॥
8.083.06a व॒यमिद्व॑ः सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना ।
8.083.06c देवा॑ वृ॒धाय॑ हूमहे ॥
8.083.07a अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् ।
8.083.07c इ॒ता मरु॑तो॒ अश्वि॑ना ॥
8.083.08a प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या ।
8.083.08c मा॒तुर्गर्भे॑ भरामहे ॥
8.083.09a यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।
8.083.09c अधा॑ चिद्व उ॒त ब्रु॑वे ॥
8.084.01a प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् ।
8.084.01c अ॒ग्निं रथं॒ न वेद्य॑म् ॥
8.084.02a क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।
8.084.02c नि मर्त्ये॑ष्वाद॒धुः ॥
8.084.03a त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिर॑ः ।
8.084.03c रक्षा॑ तो॒कमु॒त त्मना॑ ॥
8.084.04a कया॑ ते अग्ने अङ्गिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिम् ।
8.084.04c वरा॑य देव म॒न्यवे॑ ॥
8.084.05a दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।
8.084.05c कदु॑ वोच इ॒दं नम॑ः ॥
8.084.06a अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।
8.084.06c वाज॑द्रविणसो॒ गिर॑ः ॥
8.084.07a कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते ।
8.084.07c गोषा॑ता॒ यस्य॑ ते॒ गिर॑ः ॥
8.084.08a तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
8.084.08c स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥
8.084.09a क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः ।
8.084.09c अग्ने॑ सु॒वीर॑ एधते ॥
8.085.01a आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
8.085.01c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.02a इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् ।
8.085.02c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.03a अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।
8.085.03c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.04a शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।
8.085.04c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.05a छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।
8.085.05c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.06a गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।
8.085.06c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.07a यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू ।
8.085.07c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.08a त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।
8.085.08c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.085.09a नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् ।
8.085.09c मध्व॒ः सोम॑स्य पी॒तये॑ ॥
8.086.01a उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथु॑ः ।
8.086.01c ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.02a क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये ।
8.086.02c ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.03a यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये ।
8.086.03c ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.04a उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्सन्त॒मव॑से हवामहे ।
8.086.04c यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.05a ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे ।
8.086.05c ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.087.01a द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् ।
8.087.01c मध्व॑ः सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥
8.087.02a पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।
8.087.02c ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वय॑ः ॥
8.087.03a आ वां॒ विश्वा॑भिरू॒तिभि॑ः प्रि॒यमे॑धा अहूषत ।
8.087.03c ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥
8.087.04a पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।
8.087.04c ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥
8.087.05a आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
8.087.05c दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥
8.087.06a व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।
8.087.06c ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥
8.088.01a तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।
8.088.01c अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
8.088.02a द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।
8.088.02c क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
8.088.03a न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळव॑ः ।
8.088.03c यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥
8.088.04a योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।
8.088.04c आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥
8.088.05a प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।
8.088.05c न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥
8.088.06a नकि॒ः परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।
8.088.06c अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥
8.089.01a बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।
8.089.01c येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥
8.089.02a अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
8.089.02c दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥
8.089.03a प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
8.089.03c वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥
8.089.04a अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मन॒ः श्रव॑श्चित्ते असद्बृ॒हत् ।
8.089.04c अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्व॑ः ॥
8.089.05a यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।
8.089.05c तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥
8.089.06a तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
8.089.06c तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥
8.089.07a आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।
8.089.07c घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥
8.090.01a आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्र॑ः स॒मत्सु॑ भूषतु ।
8.090.01c उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥
8.090.02a त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।
8.090.02c तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥
8.090.03a ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता ।
8.090.03c इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥
8.090.04a त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ ।
8.090.04c स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥
8.090.05a त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।
8.090.05c त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥
8.090.06a तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे ।
8.090.06c म॒हीव॒ कृत्ति॑ः शर॒णा त॑ इन्द्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥
8.091.01a क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।
8.091.01c अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥
8.091.02a अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।
8.091.02c इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥
8.091.03a आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।
8.091.03c शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव ॥
8.091.04a कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।
8.091.04c कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥
8.091.05a इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय ।
8.091.05c शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥
8.091.06a अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।
8.091.06c अथो॑ त॒तस्य॒ यच्छिर॒ः सर्वा॒ ता रो॑म॒शा कृ॑धि ॥
8.091.07a खे रथ॑स्य॒ खेऽन॑स॒ः खे यु॒गस्य॑ शतक्रतो ।
8.091.07c अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒ः सूर्य॑त्वचम् ॥
8.092.01a पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।
8.092.01c वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥
8.092.02a पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
8.092.02c इन्द्र॒ इति॑ ब्रवीतन ॥
8.092.03a इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।
8.092.03c म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥
8.092.04a अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिण॑ः ।
8.092.04c इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥
8.092.05a तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।
8.092.05c तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥
8.092.06a अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।
8.092.06c विश्वा॒भि भुव॑ना भुवत् ॥
8.092.07a त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।
8.092.07c आ च्या॑वयस्यू॒तये॑ ॥
8.092.08a यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।
8.092.08c नर॑मवा॒र्यक्र॑तुम् ॥
8.092.09a शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।
8.092.09c अवा॑ न॒ः पार्ये॒ धने॑ ॥
8.092.10a अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।
8.092.10c इ॒षा स॒हस्र॑वाजया ॥
8.092.11a अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।
8.092.11c जये॑म पृ॒त्सु व॑ज्रिवः ॥
8.092.12a व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।
8.092.12c उ॒क्थेषु॑ रणयामसि ॥
8.092.13a विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।
8.092.13c अग॑न्म वज्रिन्ना॒शस॑ः ॥
8.092.14a त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।
8.092.14c न त्वामि॒न्द्राति॑ रिच्यते ॥
8.092.15a स नो॑ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।
8.092.15c धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥
8.092.16a यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मद॑ः ।
8.092.16c तेन॑ नू॒नं मदे॑ मदेः ॥
8.092.17a यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
8.092.17c य ओ॑जो॒दात॑मो॒ मद॑ः ॥
8.092.18a वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।
8.092.18c विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥
8.092.19a इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिर॑ः ।
8.092.19c अ॒र्कम॑र्चन्तु का॒रव॑ः ॥
8.092.20a यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सद॑ः ।
8.092.20c इन्द्रं॑ सु॒ते ह॑वामहे ॥
8.092.21a त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
8.092.21c तमिद्व॑र्धन्तु नो॒ गिर॑ः ॥
8.092.22a आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।
8.092.22c न त्वामि॒न्द्राति॑ रिच्यते ॥
8.092.23a वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
8.092.23c य इ॑न्द्र ज॒ठरे॑षु ते ॥
8.092.24a अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
8.092.24c अरं॒ धाम॑भ्य॒ इन्द॑वः ॥
8.092.25a अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।
8.092.25c अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥
8.092.26a अरं॒ हि ष्म॑ सु॒तेषु॑ ण॒ः सोमे॑ष्विन्द्र॒ भूष॑सि ।
8.092.26c अरं॑ ते शक्र दा॒वने॑ ॥
8.092.27a प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिर॑ः ।
8.092.27c अरं॑ गमाम ते व॒यम् ॥
8.092.28a ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
8.092.28c ए॒वा ते॒ राध्यं॒ मन॑ः ॥
8.092.29a ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभि॑ः ।
8.092.29c अधा॑ चिदिन्द्र मे॒ सचा॑ ॥
8.092.30a मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
8.092.30c मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥
8.092.31a मा न॑ इन्द्रा॒भ्या॒३॒॑दिश॒ः सूरो॑ अ॒क्तुष्वा य॑मन् ।
8.092.31c त्वा यु॒जा व॑नेम॒ तत् ॥
8.092.32a त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृध॑ः ।
8.092.32c त्वम॒स्माकं॒ तव॑ स्मसि ॥
8.092.33a त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
8.092.33c सखा॑य इन्द्र का॒रव॑ः ॥
8.093.01a उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
8.093.01c अस्ता॑रमेषि सूर्य ॥
8.093.02a नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।
8.093.02c अहिं॑ च वृत्र॒हाव॑धीत् ॥
8.093.03a स न॒ इन्द्र॑ः शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।
8.093.03c उ॒रुधा॑रेव दोहते ॥
8.093.04a यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
8.093.04c सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥
8.093.05a यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।
8.093.05c उ॒तो तत्स॒त्यमित्तव॑ ॥
8.093.06a ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
8.093.06c सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि ॥
8.093.07a तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
8.093.07c स वृषा॑ वृष॒भो भु॑वत् ॥
8.093.08a इन्द्र॒ः स दाम॑ने कृ॒त ओजि॑ष्ठ॒ः स मदे॑ हि॒तः ।
8.093.08c द्यु॒म्नी श्लो॒की स सो॒म्यः ॥
8.093.09a गि॒रा वज्रो॒ न सम्भृ॑त॒ः सब॑लो॒ अन॑पच्युतः ।
8.093.09c व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥
8.093.10a दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।
8.093.10c त्वं च॑ मघव॒न्वश॑ः ॥
8.093.11a यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।
8.093.11c न दे॒वो नाध्रि॑गु॒र्जन॑ः ॥
8.093.12a अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।
8.093.12c उ॒भे सु॑शिप्र॒ रोद॑सी ॥
8.093.13a त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।
8.093.13c परु॑ष्णीषु॒ रुश॒त्पय॑ः ॥
8.093.14a वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।
8.093.14c वि॒दन्मृ॒गस्य॒ ताँ अम॑ः ॥
8.093.15a आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।
8.093.15c अजा॑तशत्रु॒रस्तृ॑तः ॥
8.093.16a श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।
8.093.16c आ शु॑षे॒ राध॑से म॒हे ॥
8.093.17a अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।
8.093.17c यत्सोमे॑सोम॒ आभ॑वः ॥
8.093.18a बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।
8.093.18c शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥
8.093.19a कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् ।
8.093.19c कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥
8.093.20a कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।
8.093.20c वृ॒त्र॒हा सोम॑पीतये ॥
8.093.21a अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।
8.093.21c प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥
8.093.22a पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।
8.093.22c अ॒पां जग्मि॑र्निचुम्पु॒णः ॥
8.093.23a इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।
8.093.23c अच्छा॑वभृ॒थमोज॑सा ॥
8.093.24a इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
8.093.24c वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥
8.093.25a तुभ्यं॒ सोमा॑ः सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।
8.093.25c स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥
8.093.26a आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।
8.093.26c स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥
8.093.27a आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।
8.093.27c स्तो॒तृभ्य॑ इन्द्र मृळय ॥
8.093.28a भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।
8.093.28c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.093.29a स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।
8.093.29c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.093.30a त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।
8.093.30c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.093.31a उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।
8.093.31c उप॑ नो॒ हरि॑भिः सु॒तम् ॥
8.093.32a द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्र॑ः श॒तक्र॑तुः ।
8.093.32c उप॑ नो॒ हरि॑भिः सु॒तम् ॥
8.093.33a त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।
8.093.33c उप॑ नो॒ हरि॑भिः सु॒तम् ॥
8.093.34a इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।
8.093.34c वा॒जी द॑दातु वा॒जिन॑म् ॥
8.094.01a गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् ।
8.094.01c यु॒क्ता वह्नी॒ रथा॑नाम् ॥
8.094.02a यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते ।
8.094.02c सूर्या॒मासा॑ दृ॒शे कम् ॥
8.094.03a तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑ः ।
8.094.03c म॒रुत॒ः सोम॑पीतये ॥
8.094.04a अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुत॑ः ।
8.094.04c उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥
8.094.05a पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।
8.094.05c त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥
8.094.06a उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑ः सु॒तस्य॒ गोम॑तः ।
8.094.06c प्रा॒तर्होते॑व मत्सति ॥
8.094.07a कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिध॑ः ।
8.094.07c अर्ष॑न्ति पू॒तद॑क्षसः ॥
8.094.08a कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।
8.094.08c त्मना॑ च द॒स्मव॑र्चसाम् ॥
8.094.09a आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।
8.094.09c म॒रुत॒ः सोम॑पीतये ॥
8.094.10a त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।
8.094.10c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.094.11a त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।
8.094.11c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.094.12a त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।
8.094.12c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.095.01a आ त्वा॒ गिरो॑ र॒थीरि॒वास्थु॑ः सु॒तेषु॑ गिर्वणः ।
8.095.01c अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तर॑ः ॥
8.095.02a आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।
8.095.02c पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥
8.095.03a पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।
8.095.03c त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥
8.095.04a श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।
8.095.04c सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥
8.095.05a इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।
8.095.05c चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥
8.095.06a तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।
8.095.06c पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥
8.095.07a एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
8.095.07c शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥
8.095.08a इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभि॑ः ।
8.095.08c शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥
8.095.09a इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
8.095.09c शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥
8.096.01a अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑ः सु॒वाच॑ः ।
8.096.01c अ॒स्मा आपो॑ मा॒तर॑ः स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥
8.096.02a अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् ।
8.096.02c न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥
8.096.03a इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोज॑ः ।
8.096.03c शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥
8.096.04a मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् ।
8.096.04c मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥
8.096.05a आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ ।
8.096.05c प्र पर्व॑ता॒ अन॑वन्त॒ प्र गाव॒ः प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥
8.096.06a तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।
8.096.06c इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥
8.096.07a वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
8.096.07c म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒ः पृत॑ना जयासि ॥
8.096.08a त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।
8.096.08c उप॒ त्वेम॑ः कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥
8.096.09a ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष ।
8.096.09c अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥
8.096.10a म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।
8.096.10c गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥
8.096.11a उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् ।
8.096.11c नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥
8.096.12a तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।
8.096.12c उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥
8.096.13a अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रै॑ः ।
8.096.13c आव॒त्तमिन्द्र॒ः शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥
8.096.14a द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑ः ।
8.096.14c नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥
8.096.15a अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।
8.096.15c विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑ः ससाहे ॥
8.096.16a त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒ः शत्रु॑रिन्द्र ।
8.096.16c गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥
8.096.17a त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।
8.096.17c त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥
8.096.18a त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।
8.096.18c त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥
8.096.19a स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।
8.096.19c य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥
8.096.20a स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।
8.096.20c स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥
8.096.21a स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।
8.096.21c कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒ः सखि॑भ्यः ॥
8.097.01a या इ॑न्द्र॒ भुज॒ आभ॑र॒ः स्व॑र्वाँ॒ असु॑रेभ्यः ।
8.097.01c स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
8.097.02a यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।
8.097.02c यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
8.097.03a य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।
8.097.03c स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं तत॑ः ॥
8.097.04a यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
8.097.04c अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभि॑ः सु॒तावाँ॒ आ वि॑वासति ॥
8.097.05a यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
8.097.05c यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥
8.097.06a स न॒ः सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।
8.097.06c मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥
8.097.07a मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्य॑ः ।
8.097.07c त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥
8.097.08a अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।
8.097.08c कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥
8.097.09a न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।
8.097.09c विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥
8.097.10a विश्वा॒ः पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
8.097.10c क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
8.097.11a समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।
8.097.11c स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभि॑ः ॥
8.097.12a ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
8.097.12c सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒ः समृक्व॑भिः ॥
8.097.13a तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
8.097.13c मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
8.097.14a त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
8.097.14c त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
8.097.15a तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।
8.097.15c क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥
8.098.01a इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।
8.098.01c ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥
8.098.02a त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
8.098.02c वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥
8.098.03a वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
8.098.03c दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥
8.098.04a एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
8.098.04c गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥
8.098.05a अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
8.098.05c इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
8.098.06a त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।
8.098.06c ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥
8.098.07a अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।
8.098.07c उ॒देव॒ यन्त॑ उ॒दभि॑ः ॥
8.098.08a वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।
8.098.08c वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥
8.098.09a यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
8.098.09c इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥
8.098.10a त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।
8.098.10c आ वी॒रं पृ॑तना॒षह॑म् ॥
8.098.11a त्वं हि न॑ः पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
8.098.11c अधा॑ ते सु॒म्नमी॑महे ॥
8.098.12a त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।
8.098.12c स नो॑ रास्व सु॒वीर्य॑म् ॥
8.099.01a त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।
8.099.01c स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥
8.099.02a मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धस॑ः ।
8.099.02c तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥
8.099.03a श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
8.099.03c वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥
8.099.04a अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ।
8.099.04c सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥
8.099.05a त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑ः ।
8.099.05c अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥
8.099.06a अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
8.099.06c विश्वा॑स्ते॒ स्पृध॑ः श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥
8.099.07a इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् ।
8.099.07c आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥
8.099.08a इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुम् ।
8.099.08c स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव॑म् ॥
8.100.01a अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् ।
8.100.01c य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥
8.100.02a दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑ः ।
8.100.02c अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥
8.100.03a प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।
8.100.03c नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥
8.100.04a अ॒यम॑स्मि जरित॒ः पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।
8.100.04c ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ॥
8.100.05a आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।
8.100.05c मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्त॒ः सखा॑यः ॥
8.100.06a विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते ।
8.100.06c पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥
8.100.07a प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।
8.100.07c नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥
8.100.08a मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् ।
8.100.08c दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥
8.100.09a स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।
8.100.09c भर॑न्त्यस्मै सं॒यत॑ः पु॒रःप्र॑स्रवणा ब॒लिम् ॥
8.100.10a यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा ।
8.100.10c चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥
8.100.11a दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
8.100.11c सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥
8.100.12a सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।
8.100.12c हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥
8.101.01a ऋध॑गि॒त्था स मर्त्य॑ः शश॒मे दे॒वता॑तये ।
8.101.01c यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥
8.101.02a वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
8.101.02c ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ॥
8.101.03a प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।
8.101.03c अय॑ःशीर्षा॒ मदे॑रघुः ॥
8.101.04a न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।
8.101.04c तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥
8.101.05a प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।
8.101.05c व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वच॑ः स्तो॒त्रं राज॑सु गायत ॥
8.101.06a ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् ।
8.101.06c ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥
8.101.07a आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।
8.101.07c उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥
8.101.08a रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।
8.101.08c प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥
8.101.09a आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।
8.101.09c अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥
8.101.10a वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठै॒ः प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।
8.101.10c अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥
8.101.11a बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।
8.101.11c म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥
8.101.12a बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
8.101.12c म॒ह्ना दे॒वाना॑मसु॒र्य॑ः पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥
8.101.13a इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।
8.101.13c चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥
8.101.14a प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।
8.101.14c बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥
8.101.15a मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभि॑ः ।
8.101.15c प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥
8.101.16a व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् ।
8.101.16c दे॒वीं दे॒वेभ्य॒ः पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥
8.102.01a त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।
8.102.01c क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥
8.102.02a स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।
8.102.02c चि॒किद्वि॑भान॒वा व॑ह ॥
8.102.03a त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।
8.102.03c अ॒भि ष्मो॒ वाज॑सातये ॥
8.102.04a औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।
8.102.04c अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥
8.102.05a हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सह॑ः ।
8.102.05c अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥
8.102.06a आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।
8.102.06c अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥
8.102.07a अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् ।
8.102.07c अच्छा॒ नप्त्रे॒ सह॑स्वते ॥
8.102.08a अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।
8.102.08c अ॒स्य क्रत्वा॒ यश॑स्वतः ॥
8.102.09a अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।
8.102.09c आ वाजै॒रुप॑ नो गमत् ॥
8.102.10a विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् ।
8.102.10c अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
8.102.11a शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।
8.102.11c दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥
8.102.12a तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् ।
8.102.12c मि॒त्रं न या॑त॒यज्ज॑नम् ॥
8.102.13a उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृत॑ः ।
8.102.13c वा॒योरनी॑के अस्थिरन् ॥
8.102.14a यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् ।
8.102.14c आप॑श्चि॒न्नि द॑धा प॒दम् ॥
8.102.15a प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभि॑ः ।
8.102.15c भ॒द्रा सूर्य॑ इवोप॒दृक् ॥
8.102.16a अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।
8.102.16c आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
8.102.17a तं त्वा॑जनन्त मा॒तर॑ः क॒विं दे॒वासो॑ अङ्गिरः ।
8.102.17c ह॒व्य॒वाह॒मम॑र्त्यम् ॥
8.102.18a प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् ।
8.102.18c ह॒व्य॒वाहं॒ नि षे॑दिरे ॥
8.102.19a न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।
8.102.19c अथै॑ता॒दृग्भ॑रामि ते ॥
8.102.20a यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
8.102.20c ता जु॑षस्व यविष्ठ्य ॥
8.102.21a यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
8.102.21c सर्वं॒ तद॑स्तु ते घृ॒तम् ॥
8.102.22a अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्य॑ः ।
8.102.22c अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥
8.103.01a अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।
8.103.01c उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिर॑ः ॥
8.103.02a प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।
8.103.02c अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥
8.103.03a यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।
8.103.03c स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥
8.103.04a प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।
8.103.04c स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥
8.103.05a स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑ः ।
8.103.05c त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥
8.103.06a यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् ।
8.103.06c मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥
8.103.07a अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यव॑ः ।
8.103.07c उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥
8.103.08a प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।
8.103.08c उप॑स्तुतासो अ॒ग्नये॑ ॥
8.103.09a आ वं॑सते म॒घवा॑ वी॒रव॒द्यश॒ः समि॑द्धो द्यु॒म्न्याहु॑तः ।
8.103.09c कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥
8.103.10a प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् ।
8.103.10c अ॒ग्निं रथा॑नां॒ यम॑म् ॥
8.103.11a उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।
8.103.11c दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥
8.103.12a मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।
8.103.12c यः सु॒होता॑ स्वध्व॒रः ॥
8.103.13a मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवै॑ः ।
8.103.13c की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥
8.103.14a आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभि॒ः सोम॑पीतये ।
8.103.14c सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥
No comments:
Post a Comment