Tuesday, January 24, 2012

ऋग्वेद-संहिता । अष्टमं मण्डलम् । 8-( 1-50 )

8.001.01a मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।
8.001.01c इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥
8.001.02a अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् ।
8.001.02c वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥
8.001.03a यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ ।
8.001.03c अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
8.001.04a वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् ।
8.001.04c उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
8.001.05a म॒हे च॒न त्वाम॑द्रिव॒ः परा॑ शु॒ल्काय॑ देयाम् ।
8.001.05c न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥
8.001.06a वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः ।
8.001.06c मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥
8.001.07a क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मन॑ः ।
8.001.07c अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥
8.001.08a प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।
8.001.08c याभि॑ः का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुर॑ः ॥
8.001.09a ये ते॒ सन्ति॑ दश॒ग्विन॑ः श॒तिनो॒ ये स॑ह॒स्रिण॑ः ।
8.001.09c अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥
8.001.10a आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् ।
8.001.10c इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥
8.001.11a यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ ।
8.001.11c वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तु॒ः त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥
8.001.12a य ऋ॒ते चि॑दभि॒श्रिष॑ः पु॒रा ज॒त्रुभ्य॑ आ॒तृद॑ः ।
8.001.12c संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुन॑ः ॥
8.001.13a मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव ।
8.001.13c वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥
8.001.14a अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।
8.001.14c स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥
8.001.15a यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः ।
8.001.15c ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृध॑ः ॥
8.001.16a आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातु॒ः सख्यु॒रा ग॑हि ।
8.001.16c उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम् ॥
8.001.17a सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।
8.001.17c ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥
8.001.18a अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।
8.001.18c अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥
8.001.19a इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् ।
8.001.19c श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥
8.001.20a मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।
8.001.20c भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥
8.001.21a मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।
8.001.21c विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥
8.001.22a शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।
8.001.22c स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥
8.001.23a एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।
8.001.23c सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥
8.001.24a आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।
8.001.24c ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥
8.001.25a आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।
8.001.25c शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥
8.001.26a पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।
8.001.26c परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥
8.001.27a य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।
8.001.27c गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥
8.001.28a त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।
8.001.28c त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑ः ॥
8.001.29a मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।
8.001.29c मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥
8.001.30a स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् ।
8.001.30c नि॒न्दि॒ताश्व॑ः प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥
8.001.31a आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् ।
8.001.31c उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्व॑ः प॒शुः ॥
8.001.32a य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।
8.001.32c ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥
8.001.33a अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभि॑ः स॒हस्रै॑ः ।
8.001.33c अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥
8.001.34a अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः ।
8.001.34c शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥

8.002.01a इ॒दं व॑सो सु॒तमन्ध॒ः पिबा॒ सुपू॑र्णमु॒दर॑म् ।
8.002.01c अना॑भयिन्ररि॒मा ते॑ ॥
8.002.02a नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारै॒ः परि॑पूतः ।
8.002.02c अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥
8.002.03a तं ते॒ यवं॒ यथा॒ गोभि॑ः स्वा॒दुम॑कर्म श्री॒णन्त॑ः ।
8.002.03c इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे॑ ॥
8.002.04a इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्र॑ः सुत॒पा वि॒श्वायु॑ः ।
8.002.04c अ॒न्तर्दे॒वान्मर्त्याँ॑श्च ॥
8.002.05a न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् ।
8.002.05c अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥
8.002.06a गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते ।
8.002.06c अ॒भि॒त्सर॑न्ति धे॒नुभि॑ः ॥
8.002.07a त्रय॒ इन्द्र॑स्य॒ सोमा॑ः सु॒तास॑ः सन्तु दे॒वस्य॑ ।
8.002.07c स्वे क्षये॑ सुत॒पाव्न॑ः ॥
8.002.08a त्रय॒ः कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१॒॑ः सुपू॑र्णाः ।
8.002.08c स॒मा॒ने अधि॒ भार्म॑न् ॥
8.002.09a शुचि॑रसि पुरुनि॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।
8.002.09c द॒ध्ना मन्दि॑ष्ठ॒ः शूर॑स्य ॥
8.002.10a इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तास॑ः ।
8.002.10c शु॒क्रा आ॒शिरं॑ याचन्ते ॥
8.002.11a ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि ।
8.002.11c रे॒वन्तं॒ हि त्वा॑ शृ॒णोमि॑ ॥
8.002.12a हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम् ।
8.002.12c ऊध॒र्न न॒ग्ना ज॑रन्ते ॥
8.002.13a रे॒वाँ इद्रे॒वत॑ः स्तो॒ता स्यात्त्वाव॑तो म॒घोन॑ः ।
8.002.13c प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥
8.002.14a उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।
8.002.14c न गा॑य॒त्रं गी॒यमा॑नम् ॥
8.002.15a मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।
8.002.15c शिक्षा॑ शचीव॒ः शची॑भिः ॥
8.002.16a व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्त॒ः सखा॑यः ।
8.002.16c कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
8.002.17a न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।
8.002.17c तवेदु॒ स्तोमं॑ चिकेत ॥
8.002.18a इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति ।
8.002.18c यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
8.002.19a ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।
8.002.19c म॒हाँ इ॑व॒ युव॑जानिः ॥
8.002.20a मो ष्व१॒॑द्य दु॒र्हणा॑वान्सा॒यं क॑रदा॒रे अ॒स्मत् ।
8.002.20c अ॒श्री॒र इ॑व॒ जामा॑ता ॥
8.002.21a वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् ।
8.002.21c त्रि॒षु जा॒तस्य॒ मनां॑सि ॥
8.002.22a आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात् ।
8.002.22c य॒शस्त॑रं श॒तमू॑तेः ॥
8.002.23a ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।
8.002.23c भरा॒ पिब॒न्नर्या॑य ॥
8.002.24a यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्य॑ः ।
8.002.24c वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम् ॥
8.002.25a पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।
8.002.25c सोमं॑ वी॒राय॒ शूरा॑य ॥
8.002.26a पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।
8.002.26c नि य॑मते श॒तमू॑तिः ॥
8.002.27a एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒ः सखा॑यम् ।
8.002.27c गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥
8.002.28a स्वा॒दव॒ः सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।
8.002.28c शिप्रि॒न्नृषी॑व॒ः शची॑वो॒ नायमच्छा॑ सध॒माद॑म् ॥
8.002.29a स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑ ।
8.002.29c इन्द्र॑ का॒रिणं॑ वृ॒धन्त॑ः ॥
8.002.30a गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।
8.002.30c स॒त्रा द॑धि॒रे शवां॑सि ॥
8.002.31a ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः ।
8.002.31c स॒नादमृ॑क्तो दयते ॥
8.002.32a हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ः पु॒रू पु॑रुहू॒तः ।
8.002.32c म॒हान्म॒हीभि॒ः शची॑भिः ॥
8.002.33a यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।
8.002.33c अनु॒ घेन्म॒न्दी म॒घोन॑ः ॥
8.002.34a ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे ।
8.002.34c वा॒ज॒दावा॑ म॒घोना॑म् ॥
8.002.35a प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति ।
8.002.35c इ॒नो वसु॒ स हि वोळ्हा॑ ॥
8.002.36a सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभि॒ः शूर॑ः ।
8.002.36c स॒त्यो॑ऽवि॒ता वि॒धन्त॑म् ॥
8.002.37a यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा ।
8.002.37c यो भूत्सोमै॑ः स॒त्यम॑द्वा ॥
8.002.38a गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म् ।
8.002.38c कण्वा॑सो गा॒त वा॒जिन॑म् ॥
8.002.39a य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒ः शची॑वान् ।
8.002.39c ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥
8.002.40a इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् ।
8.002.40c मे॒षो भू॒तो॒३॒॑ऽभि यन्नय॑ः ॥
8.002.41a शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।
8.002.41c अ॒ष्टा प॒रः स॒हस्रा॑ ॥
8.002.42a उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।
8.002.42c ज॒नि॒त्व॒नाय॑ मामहे ॥

8.003.01a पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।
8.003.01c आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑ः ॥
8.003.02a भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑ः स्तर॒भिमा॑तये ।
8.003.02c अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑ः सु॒म्नेषु॑ यामय ॥
8.003.03a इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
8.003.03c पा॒व॒कव॑र्णा॒ः शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥
8.003.04a अ॒यं स॒हस्र॒मृषि॑भि॒ः सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
8.003.04c स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
8.003.05a इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
8.003.05c इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
8.003.06a इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒ः सूर्य॑मरोचयत् ।
8.003.06c इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥
8.003.07a अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यव॑ः ।
8.003.07c स॒मी॒ची॒नास॑ ऋ॒भव॒ः सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥
8.003.08a अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
8.003.08c अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
8.003.09a तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।
8.003.09c येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
8.003.10a येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑ः ।
8.003.10c स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
8.003.11a श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् ।
8.003.11c श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥
8.003.12a श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः ।
8.003.12c श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्राव॒ः स्व॑र्णरम् ॥
8.003.13a कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्य॑ः ।
8.003.13c न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥
8.003.14a कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषि॒ः को विप्र॑ ओहते ।
8.003.14c क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥
8.003.15a उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ः स्तोमा॑स ईरते ।
8.003.15c स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥
8.003.16a कण्वा॑ इव॒ भृग॑व॒ः सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।
8.003.16c इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑ः प्रि॒यमे॑धासो अस्वरन् ॥
8.003.17a यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वत॑ः ।
8.003.17c अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥
8.003.18a इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।
8.003.18c स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥
8.003.19a निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।
8.003.19c निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥
8.003.20a निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रस॑ः ।
8.003.20c निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
8.003.21a यं मे॒ दुरिन्द्रो॑ म॒रुत॒ः पाक॑स्थामा॒ कौर॑याणः ।
8.003.21c विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥
8.003.22a रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।
8.003.22c अदा॑द्रा॒यो वि॒बोध॑नम् ॥
8.003.23a यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः ।
8.003.23c अस्तं॒ वयो॒ न तुग्र्य॑म् ॥
8.003.24a आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् ।
8.003.24c तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥

8.004.01a यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑ः ।
8.004.01c सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥
8.004.02a यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।
8.004.02c कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒ः स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥
8.004.03a यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।
8.004.03c आ॒पि॒त्वे न॑ः प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥
8.004.04a मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते ।
8.004.04c आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सह॑ः ॥
8.004.05a प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा ।
8.004.05c विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥
8.004.06a स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् ।
8.004.06c पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥
8.004.07a मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।
8.004.07c म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म् ॥
8.004.08a स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।
8.004.08c मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥
8.004.09a अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑ ।
8.004.09c श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥
8.004.10a ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।
8.004.10c नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सह॑ः ॥
8.004.11a अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र॑ः पिपासति ।
8.004.11c उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥
8.004.12a स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ।
8.004.12c इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
8.004.13a र॒थे॒ष्ठाया॑ध्वर्यव॒ः सोम॒मिन्द्रा॑य सोतन ।
8.004.13c अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥
8.004.14a उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः ।
8.004.14c अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥
8.004.15a प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् ।
8.004.15c स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥
8.004.16a सं न॑ः शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।
8.004.16c त्वे तन्न॑ः सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म् ॥
8.004.17a वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे ।
8.004.17c न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥
8.004.18a परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।
8.004.18c अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥
8.004.19a स्थू॒रं राध॑ः श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।
8.004.19c राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥
8.004.20a धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिन॑ः प्रि॒यमे॑धैर॒भिद्यु॑भिः ।
8.004.20c ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषि॑ः ॥
8.004.21a वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।
8.004.21c गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥

8.005.01a दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।
8.005.01c वि भा॒नुं वि॒श्वधा॑तनत् ॥
8.005.02a नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।
8.005.02c सचे॑थे अश्विनो॒षस॑म् ॥
8.005.03a यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।
8.005.03c वाचं॑ दू॒तो यथो॑हिषे ॥
8.005.04a पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑ ।
8.005.04c स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥
8.005.05a मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑ ।
8.005.05c गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
8.005.06a ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम् ।
8.005.06c घृ॒तैर्गव्यू॑तिमुक्षतम् ॥
8.005.07a आ न॒ः स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभि॑ः ।
8.005.07c या॒तमश्वे॑भिरश्विना ॥
8.005.08a येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।
8.005.08c त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥
8.005.09a उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।
8.005.09c वि प॒थः सा॒तये॑ सितम् ॥
8.005.10a आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम् ।
8.005.10c वो॒ळ्हमश्वा॑वती॒रिष॑ः ॥
8.005.11a वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।
8.005.11c पिब॑तं सो॒म्यं मधु॑ ॥
8.005.12a अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथ॑ः ।
8.005.12c छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥
8.005.13a नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् ।
8.005.13c मो ष्व१॒॑न्याँ उपा॑रतम् ॥
8.005.14a अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।
8.005.14c मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥
8.005.15a अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् ।
8.005.15c पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥
8.005.16a पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिण॑ः ।
8.005.16c वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥
8.005.17a जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृत॑ः ।
8.005.17c यु॒वां ह॑वन्ते अश्विना ॥
8.005.18a अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
8.005.18c यु॒वाभ्यां॑ भूत्वश्विना ॥
8.005.19a यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।
8.005.19c तत॑ः पिबतमश्विना ॥
8.005.20a तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।
8.005.20c वह॑तं॒ पीव॑री॒रिष॑ः ॥
8.005.21a उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा ।
8.005.21c अप॒ द्वारे॑व वर्षथः ॥
8.005.22a क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।
8.005.22c यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
8.005.23a यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।
8.005.23c शश्व॑दू॒तीर्द॑शस्यथः ॥
8.005.24a ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभि॑ः ।
8.005.24c यद्वां॑ वृषण्वसू हु॒वे ॥
8.005.25a यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम् ।
8.005.25c अत्रिं॑ शि॒ञ्जार॑मश्विना ॥
8.005.26a यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य॑म् ।
8.005.26c यथा॒ वाजे॑षु॒ सोभ॑रिम् ॥
8.005.27a ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।
8.005.27c गृ॒णन्त॑ः सु॒म्नमी॑महे ॥
8.005.28a रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।
8.005.28c आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥
8.005.29a हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्यय॑ः ।
8.005.29c उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥
8.005.30a तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् ।
8.005.30c उपे॒मां सु॑ष्टु॒तिं मम॑ ॥
8.005.31a आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना ।
8.005.31c इषो॒ दासी॑रमर्त्या ॥
8.005.32a आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।
8.005.32c पुरु॑श्चन्द्रा॒ नास॑त्या ॥
8.005.33a एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिन॑ः ।
8.005.33c अच्छा॑ स्वध्व॒रं जन॑म् ॥
8.005.34a रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।
8.005.34c न च॒क्रम॒भि बा॑धते ॥
8.005.35a हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वै॑ः ।
8.005.35c धीज॑वना॒ नास॑त्या ॥
8.005.36a यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।
8.005.36c ता न॑ः पृङ्क्तमि॒षा र॒यिम् ॥
8.005.37a ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम् ।
8.005.37c यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म् ॥
8.005.38a यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।
8.005.38c अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जना॑ः ॥
8.005.39a माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दय॑ः ।
8.005.39c अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जन॑ः ॥

8.006.01a म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
8.006.01c स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
8.006.02a प्र॒जामृ॒तस्य॒ पिप्र॑त॒ः प्र यद्भर॑न्त॒ वह्न॑यः ।
8.006.02c विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
8.006.03a कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।
8.006.03c जा॒मि ब्रु॑वत॒ आयु॑धम् ॥
8.006.04a सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टय॑ः ।
8.006.04c स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥
8.006.05a ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।
8.006.05c इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥
8.006.06a वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।
8.006.06c शिरो॑ बिभेद वृ॒ष्णिना॑ ॥
8.006.07a इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तय॑ः ।
8.006.07c अ॒ग्नेः शो॒चिर्न दि॒द्युत॑ः ॥
8.006.08a गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तय॑ः ।
8.006.08c कण्वा॑ ऋ॒तस्य॒ धार॑या ॥
8.006.09a प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।
8.006.09c प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥
8.006.10a अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।
8.006.10c अ॒हं सूर्य॑ इवाजनि ॥
8.006.11a अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिर॑ः शुम्भामि कण्व॒वत् ।
8.006.11c येनेन्द्र॒ः शुष्म॒मिद्द॒धे ॥
8.006.12a ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः ।
8.006.12c ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥
8.006.13a यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।
8.006.13c अ॒पः स॑मु॒द्रमैर॑यत् ॥
8.006.14a नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि ।
8.006.14c वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥
8.006.15a न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
8.006.15c न वि॑व्यचन्त॒ भूम॑यः ॥
8.006.16a यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।
8.006.16c नि तं पद्या॑सु शिश्नथः ॥
8.006.17a य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।
8.006.17c तमो॑भिरिन्द्र॒ तं गु॑हः ॥
8.006.18a य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।
8.006.18c ममेदु॑ग्र श्रुधी॒ हव॑म् ॥
8.006.19a इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।
8.006.19c ए॒नामृ॒तस्य॑ पि॒प्युषी॑ः ॥
8.006.20a या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।
8.006.20c परि॒ धर्मे॑व॒ सूर्य॑म् ॥
8.006.21a त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।
8.006.21c त्वां सु॒तास॒ इन्द॑वः ॥
8.006.22a तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।
8.006.22c य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥
8.006.23a आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।
8.006.23c उ॒त प्र॒जां सु॒वीर्य॑म् ॥
8.006.24a उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
8.006.24c अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥
8.006.25a अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् ।
8.006.25c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.006.26a यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।
8.006.26c म॒हाँ अ॑पा॒र ओज॑सा ॥
8.006.27a तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।
8.006.27c उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥
8.006.28a उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।
8.006.28c धि॒या विप्रो॑ अजायत ॥
8.006.29a अत॑ः समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।
8.006.29c यतो॑ विपा॒न एज॑ति ॥
8.006.30a आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।
8.006.30c प॒रो यदि॒ध्यते॑ दि॒वा ॥
8.006.31a कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।
8.006.31c उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥
8.006.32a इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।
8.006.32c उ॒त प्र व॑र्धया म॒तिम् ॥
8.006.33a उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।
8.006.33c विप्रा॑ अतक्ष्म जी॒वसे॑ ॥
8.006.34a अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।
8.006.34c इन्द्रं॒ वन॑न्वती म॒तिः ॥
8.006.35a इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।
8.006.35c अनु॑त्तमन्युम॒जर॑म् ॥
8.006.36a आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।
8.006.36c इ॒ममि॑न्द्र सु॒तं पि॑ब ॥
8.006.37a त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
8.006.37c हव॑न्ते॒ वाज॑सातये ॥
8.006.38a अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।
8.006.38c अनु॑ सुवा॒नास॒ इन्द॑वः ॥
8.006.39a मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।
8.006.39c मत्स्वा॒ विव॑स्वतो म॒ती ॥
8.006.40a वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।
8.006.40c वृ॒त्र॒हा सो॑म॒पात॑मः ॥
8.006.41a ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।
8.006.41c इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥
8.006.42a अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रय॑ः ।
8.006.42c श॒तं व॑हन्तु॒ हर॑यः ॥
8.006.43a इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् ।
8.006.43c कण्वा॑ उ॒क्थेन॑ वावृधुः ॥
8.006.44a इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्य॑ः ।
8.006.44c इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥
8.006.45a अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
8.006.45c सो॒म॒पेया॑य वक्षतः ॥
8.006.46a श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।
8.006.46c राधां॑सि॒ याद्वा॑नाम् ॥
8.006.47a त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।
8.006.47c द॒दुष्प॒ज्राय॒ साम्ने॑ ॥
8.006.48a उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् ।
8.006.48c श्रव॑सा॒ याद्वं॒ जन॑म् ॥

8.007.01a प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।
8.007.01c वि पर्व॑तेषु राजथ ॥
8.007.02a यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् ।
8.007.02c नि पर्व॑ता अहासत ॥
8.007.03a उदी॑रयन्त वा॒युभि॑र्वा॒श्रास॒ः पृश्नि॑मातरः ।
8.007.03c धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥
8.007.04a वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् ।
8.007.04c यद्यामं॒ यान्ति॑ वा॒युभि॑ः ॥
8.007.05a नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे ।
8.007.05c म॒हे शुष्मा॑य येमि॒रे ॥
8.007.06a यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे ।
8.007.06c यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥
8.007.07a उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।
8.007.07c वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥
8.007.08a सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे ।
8.007.08c ते भा॒नुभि॒र्वि त॑स्थिरे ॥
8.007.09a इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।
8.007.09c इ॒मं मे॑ वनता॒ हव॑म् ॥
8.007.10a त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
8.007.10c उत्सं॒ कव॑न्धमु॒द्रिण॑म् ॥
8.007.11a मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे ।
8.007.11c आ तू न॒ उप॑ गन्तन ॥
8.007.12a यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।
8.007.12c उ॒त प्रचे॑तसो॒ मदे॑ ॥
8.007.13a आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् ।
8.007.13c इय॑र्ता मरुतो दि॒वः ॥
8.007.14a अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् ।
8.007.14c सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥
8.007.15a ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑ः ।
8.007.15c अदा॑भ्यस्य॒ मन्म॑भिः ॥
8.007.16a ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभि॑ः ।
8.007.16c उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥
8.007.17a उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभि॑ः ।
8.007.17c उत्स्तोमै॒ः पृश्नि॑मातरः ॥
8.007.18a येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म् ।
8.007.18c रा॒ये सु तस्य॑ धीमहि ॥
8.007.19a इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिष॑ः ।
8.007.19c वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥
8.007.20a क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः ।
8.007.20c ब्र॒ह्मा को व॑ः सपर्यति ॥
8.007.21a न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः ।
8.007.21c शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ ॥
8.007.22a समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् ।
8.007.22c सं वज्रं॑ पर्व॒शो द॑धुः ॥
8.007.23a वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिन॑ः ।
8.007.23c च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥
8.007.24a अनु॑ त्रि॒तस्य॒ युध्य॑त॒ः शुष्म॑मावन्नु॒त क्रतु॑म् ।
8.007.24c अन्विन्द्रं॑ वृत्र॒तूर्ये॑ ॥
8.007.25a वि॒द्युद्ध॑स्ता अ॒भिद्य॑व॒ः शिप्रा॑ः शी॒र्षन्हि॑र॒ण्ययी॑ः ।
8.007.25c शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥
8.007.26a उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन ।
8.007.26c द्यौर्न च॑क्रदद्भि॒या ॥
8.007.27a आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।
8.007.27c देवा॑स॒ उप॑ गन्तन ॥
8.007.28a यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।
8.007.28c यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥
8.007.29a सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।
8.007.29c य॒युर्निच॑क्रया॒ नर॑ः ॥
8.007.30a क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् ।
8.007.30c मा॒र्डी॒केभि॒र्नाध॑मानम् ॥
8.007.31a कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन ।
8.007.31c को व॑ः सखि॒त्व ओ॑हते ॥
8.007.32a स॒हो षु णो॒ वज्र॑हस्तै॒ः कण्वा॑सो अ॒ग्निं म॒रुद्भि॑ः ।
8.007.32c स्तु॒षे हिर॑ण्यवाशीभिः ॥
8.007.33a ओ षु वृष्ण॒ः प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।
8.007.33c व॒वृ॒त्यां चि॒त्रवा॑जान् ॥
8.007.34a गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।
8.007.34c पर्व॑ताश्चि॒न्नि ये॑मिरे ॥
8.007.35a आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः ।
8.007.35c धाता॑रः स्तुव॒ते वय॑ः ॥
8.007.36a अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑ ।
8.007.36c ते भा॒नुभि॒र्वि त॑स्थिरे ॥

8.008.01a आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
8.008.01c दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥
8.008.02a आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।
8.008.02c भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा ॥
8.008.03a आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभि॑ः ।
8.008.03c पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥
8.008.04a आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया ।
8.008.04c पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥
8.008.05a आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।
8.008.05c स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥
8.008.06a यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।
8.008.06c आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥
8.008.07a दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा ।
8.008.07c धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥
8.008.08a किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।
8.008.08c पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥
8.008.09a आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।
8.008.09c अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥
8.008.10a आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
8.008.10c विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥
8.008.11a अत॑ः स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।
8.008.11c व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥
8.008.12a पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् ।
8.008.12c स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥
8.008.13a आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।
8.008.13c कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥
8.008.14a यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे ।
8.008.14c अत॑ः स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥
8.008.15a यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।
8.008.15c तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥
8.008.16a प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् ।
8.008.16c यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥
8.008.17a आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
8.008.17c कृ॒तं न॑ः सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥
8.008.18a आ वां॒ विश्वा॑भिरू॒तिभि॑ः प्रि॒यमे॑धा अहूषत ।
8.008.18c राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥
8.008.19a आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् ।
8.008.19c यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥
8.008.20a याभि॒ः कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् ।
8.008.20c याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥
8.008.21a याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।
8.008.21c ताभि॒ः ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥
8.008.22a प्र वां॒ स्तोमा॑ः सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना ।
8.008.22c पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥
8.008.23a त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः ।
8.008.23c क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥

8.009.01a आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से ।
8.009.01c प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥
8.009.02a यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ ।
8.009.02c नृ॒म्णं तद्ध॑त्तमश्विना ॥
8.009.03a ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।
8.009.03c ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
8.009.04a अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।
8.009.04c अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥
8.009.05a यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् ।
8.009.05c तेन॑ माविष्टमश्विना ॥
8.009.06a यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथ॑ः ।
8.009.06c अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥
8.009.07a आ नू॒नम॒श्विनो॒रृषि॒ः स्तोमं॑ चिकेत वा॒मया॑ ।
8.009.07c आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥
8.009.08a आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।
8.009.08c आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥
8.009.09a यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।
8.009.09c यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥
8.009.10a यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।
8.009.10c पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥
8.009.11a या॒तं छ॑र्दि॒ष्पा उ॒त न॑ः पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।
8.009.11c व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥
8.009.12a यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थ॒ः समो॑कसा ।
8.009.12c यदा॑दि॒त्येभि॑रृ॒भुभि॑ः स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥
8.009.13a यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।
8.009.13c यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रव॑ः ॥
8.009.14a आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।
8.009.14c इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
8.009.15a यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् ।
8.009.15c तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥
8.009.16a अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनो॑ः ।
8.009.16c व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥
8.009.17a प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि ।
8.009.17c प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥
8.009.18a यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।
8.009.18c आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥
8.009.19a यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।
8.009.19c यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥
8.009.20a प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।
8.009.20c प्र दक्षा॑य प्रचेतसा ॥
8.009.21a यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।
8.009.21c यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥

8.010.01a यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।
8.010.01c यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥
8.010.02a यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् ।
8.010.02c बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥
8.010.03a त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।
8.010.03c ययो॒रस्ति॒ प्र ण॑ः स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥
8.010.04a ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रय॑ः ।
8.010.04c ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥
8.010.05a यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।
8.010.05c यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥
8.010.06a यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।
8.010.06c यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥

8.011.01a त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।
8.011.01c त्वं य॒ज्ञेष्वीड्य॑ः ॥
8.011.02a त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य ।
8.011.02c अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥
8.011.03a स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।
8.011.03c अदे॑वीरग्ने॒ अरा॑तीः ॥
8.011.04a अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।
8.011.04c नोप॑ वेषि जातवेदः ॥
8.011.05a मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।
8.011.05c विप्रा॑सो जा॒तवे॑दसः ॥
8.011.06a विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।
8.011.06c अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥
8.011.07a आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।
8.011.07c अग्ने॒ त्वांका॑मया गि॒रा ॥
8.011.08a पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
8.011.08c स॒मत्सु॑ त्वा हवामहे ॥
8.011.09a स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।
8.011.09c वाजे॑षु चि॒त्ररा॑धसम् ॥
8.011.10a प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
8.011.10c स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥

8.012.01a य इ॑न्द्र सोम॒पात॑मो॒ मद॑ः शविष्ठ॒ चेत॑ति ।
8.012.01c येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥
8.012.02a येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् ।
8.012.02c येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥
8.012.03a येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दय॑ः ।
8.012.03c पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥
8.012.04a इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।
8.012.04c येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥
8.012.05a इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।
8.012.05c इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥
8.012.06a यो नो॑ दे॒वः प॑रा॒वत॑ः सखित्व॒नाय॑ माम॒हे ।
8.012.06c दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥
8.012.07a व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।
8.012.07c यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥
8.012.08a यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघ॑ः ।
8.012.08c आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥
8.012.09a इन्द्र॒ः सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।
8.012.09c अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥
8.012.10a इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।
8.012.10c स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥
8.012.11a गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।
8.012.11c स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥
8.012.12a स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्र॒ः सोम॑स्य पी॒तये॑ ।
8.012.12c प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥
8.012.13a यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑ः ।
8.012.13c घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥
8.012.14a उ॒त स्व॒राजे॒ अदि॑ति॒ः स्तोम॒मिन्द्रा॑य जीजनत् ।
8.012.14c पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥
8.012.15a अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।
8.012.15c न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥
8.012.16a यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।
8.012.16c यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥
8.012.17a यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।
8.012.17c अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥
8.012.18a यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।
8.012.18c उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥
8.012.19a दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ ।
8.012.19c अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥
8.012.20a य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् ।
8.012.20c होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥
8.012.21a म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
8.012.21c विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥
8.012.22a इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः ।
8.012.22c इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥
8.012.23a म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् ।
8.012.23c अ॒र्कैर॒भि प्र णो॑नुम॒ः समोज॑से ॥
8.012.24a न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
8.012.24c अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥
8.012.25a यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।
8.012.25c आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
8.012.26a य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।
8.012.26c आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
8.012.27a य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।
8.012.27c आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
8.012.28a य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।
8.012.28c आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
8.012.29a य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे ।
8.012.29c आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
8.012.30a य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।
8.012.30c आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
8.012.31a इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभि॑ः ।
8.012.31c जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥
8.012.32a यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।
8.012.32c नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥
8.012.33a सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः ।
8.012.33c होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥

8.013.01a इन्द्र॑ः सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् ।
8.013.01c वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥
8.013.02a स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।
8.013.02c सु॒पा॒रः सु॒श्रव॑स्तम॒ः सम॑प्सु॒जित् ॥
8.013.03a तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म् ।
8.013.03c भवा॑ नः सु॒म्ने अन्त॑म॒ः सखा॑ वृ॒धे ॥
8.013.04a इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।
8.013.04c म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
8.013.05a नू॒नं तदि॑न्द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वन्त॒ ईम॑हे ।
8.013.05c र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद॑म् ॥
8.013.06a स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिर॑ः ।
8.013.06c व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ॥
8.013.07a प्र॒त्न॒वज्ज॑नया॒ गिर॑ः शृणु॒धी ज॑रि॒तुर्हव॑म् ।
8.013.07c मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥
8.013.08a क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।
8.013.08c अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥
8.013.09a उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।
8.013.09c न॒मो॒वृ॒धैर॑व॒स्युभि॑ः सु॒ते र॑ण ॥
8.013.10a स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।
8.013.10c गन्ता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विन॑ः ॥
8.013.11a तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
8.013.11c आ या॑हि य॒ज्ञमा॒शुभि॒ः शमिद्धि ते॑ ॥
8.013.12a इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।
8.013.12c श्रव॑ः सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नम् ॥
8.013.13a हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।
8.013.13c जु॒षा॒ण इ॑न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥
8.013.14a आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।
8.013.14c तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥
8.013.15a यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
8.013.15c यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ॥
8.013.16a इन्द्रं॑ वर्धन्तु नो॒ गिर॒ इन्द्रं॑ सु॒तास॒ इन्द॑वः ।
8.013.16c इन्द्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥
8.013.17a तमिद्विप्रा॑ अव॒स्यव॑ः प्र॒वत्व॑तीभिरू॒तिभि॑ः ।
8.013.17c इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥
8.013.18a त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
8.013.18c तमिद्व॑र्धन्तु नो॒ गिर॑ः स॒दावृ॑धम् ॥
8.013.19a स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।
8.013.19c शुचि॑ः पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥
8.013.20a तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।
8.013.20c मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥
8.013.21a यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः ।
8.013.21c येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥
8.013.22a क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।
8.013.22c क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥
8.013.23a उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् ।
8.013.23c अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥
8.013.24a तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभि॑ः ।
8.013.24c नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥
8.013.25a वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभि॑ः ।
8.013.25c धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥
8.013.26a इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।
8.013.26c ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युज॑म् ॥
8.013.27a इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।
8.013.27c हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥
8.013.28a अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रास॑ः सक्षत॒ श्रिय॑म् ।
8.013.28c उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रय॑ः ॥
8.013.29a इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि ।
8.013.29c नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥
8.013.30a अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।
8.013.30c मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥
8.013.31a वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।
8.013.31c वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हव॑ः ॥
8.013.32a वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
8.013.32c वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हव॑ः ॥
8.013.33a वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ।
8.013.33c वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हव॑ः ॥

8.014.01a यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
8.014.01c स्तो॒ता मे॒ गोष॑खा स्यात् ॥
8.014.02a शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।
8.014.02c यद॒हं गोप॑ति॒ः स्याम् ॥
8.014.03a धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।
8.014.03c गामश्वं॑ पि॒प्युषी॑ दुहे ॥
8.014.04a न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्य॑ः ।
8.014.04c यद्दित्स॑सि स्तु॒तो म॒घम् ॥
8.014.05a य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।
8.014.05c च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥
8.014.06a वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युष॑ः ।
8.014.06c ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥
8.014.07a व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।
8.014.07c इन्द्रो॒ यदभि॑नद्व॒लम् ॥
8.014.08a उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।
8.014.08c अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥
8.014.09a इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।
8.014.09c स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥
8.014.10a अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।
8.014.10c वि ते॒ मदा॑ अराजिषुः ॥
8.014.11a त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।
8.014.11c स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥
8.014.12a इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।
8.014.12c उप॑ य॒ज्ञं सु॒राध॑सम् ॥
8.014.13a अ॒पां फेने॑न॒ नमु॑चे॒ः शिर॑ इ॒न्द्रोद॑वर्तयः ।
8.014.13c विश्वा॒ यदज॑य॒ः स्पृध॑ः ॥
8.014.14a मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।
8.014.14c अव॒ दस्यूँ॑रधूनुथाः ॥
8.014.15a अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।
8.014.15c सो॒म॒पा उत्त॑रो॒ भव॑न् ॥

8.015.01a तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
8.015.01c इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
8.015.02a यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।
8.015.02c गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥
8.015.03a स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।
8.015.03c इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥
8.015.04a तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
8.015.04c उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
8.015.05a येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
8.015.05c म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
8.015.06a तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
8.015.06c वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
8.015.07a तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् ।
8.015.07c वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
8.015.08a तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रव॑ः ।
8.015.08c त्वामाप॒ः पर्व॑तासश्च हिन्विरे ॥
8.015.09a त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।
8.015.09c त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥
8.015.10a त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे ।
8.015.10c स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥
8.015.11a स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।
8.015.11c नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥
8.015.12a यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ ।
8.015.12c अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥
8.015.13a अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।
8.015.13c इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥

8.016.01a प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
8.016.01c नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥
8.016.02a यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ ।
8.016.02c अ॒पामवो॒ न स॑मु॒द्रे ॥
8.016.03a तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।
8.016.03c म॒हो वा॒जिनं॑ स॒निभ्य॑ः ॥
8.016.04a यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।
8.016.04c ह॒र्षु॒मन्त॒ः शूर॑सातौ ॥
8.016.05a तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते ।
8.016.05c येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥
8.016.06a तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णय॑ः ।
8.016.06c ए॒ष इन्द्रो॑ वरिव॒स्कृत् ॥
8.016.07a इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑ः पु॒रू पु॑रुहू॒तः ।
8.016.07c म॒हान्म॒हीभि॒ः शची॑भिः ॥
8.016.08a स स्तोम्य॒ः स हव्य॑ः स॒त्यः सत्वा॑ तुविकू॒र्मिः ।
8.016.08c एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥
8.016.09a तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णय॑ः ।
8.016.09c इन्द्रं॑ वर्धन्ति क्षि॒तय॑ः ॥
8.016.10a प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑ः स॒मत्सु॑ ।
8.016.10c सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥
8.016.11a स न॒ः पप्रि॑ः पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।
8.016.11c इन्द्रो॒ विश्वा॒ अति॒ द्विष॑ः ॥
8.016.12a स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।
8.016.12c अच्छा॑ च नः सु॒म्नं ने॑षि ॥

8.017.01a आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
8.017.01c एदं ब॒र्हिः स॑दो॒ मम॑ ॥
8.017.02a आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।
8.017.02c उप॒ ब्रह्मा॑णि नः शृणु ॥
8.017.03a ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑ः ।
8.017.03c सु॒ताव॑न्तो हवामहे ॥
8.017.04a आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।
8.017.04c पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥
8.017.05a आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।
8.017.05c गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥
8.017.06a स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॒॑ तव॑ ।
8.017.06c सोम॒ः शम॑स्तु ते हृ॒दे ॥
8.017.07a अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।
8.017.07c प्र सोम॑ इन्द्र सर्पतु ॥
8.017.08a तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ ।
8.017.08c इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
8.017.09a इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।
8.017.09c वृ॒त्राणि॑ वृत्रहञ्जहि ॥
8.017.10a दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।
8.017.10c यज॑मानाय सुन्व॒ते ॥
8.017.11a अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।
8.017.11c एही॑म॒स्य द्रवा॒ पिब॑ ॥
8.017.12a शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।
8.017.12c आख॑ण्डल॒ प्र हू॑यसे ॥
8.017.13a यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्य॑ः ।
8.017.13c न्य॑स्मिन्दध्र॒ आ मन॑ः ॥
8.017.14a वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म् ।
8.017.14c द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥
8.017.15a पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒ः सन्न॒भि भूय॑सः ।
8.017.15c भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥

8.018.01a इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑ः ।
8.018.01c आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥
8.018.02a अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् ।
8.018.02c अद॑ब्धा॒ः सन्ति॑ पा॒यव॑ः सुगे॒वृध॑ः ॥
8.018.03a तत्सु न॑ः सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
8.018.03c शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥
8.018.04a दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।
8.018.04c स्मत्सू॒रिभि॑ः पुरुप्रिये सु॒शर्म॑भिः ॥
8.018.05a ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।
8.018.05c अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑ः ॥
8.018.06a अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।
8.018.06c अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥
8.018.07a उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।
8.018.07c सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑ः ॥
8.018.08a उ॒त त्या दैव्या॑ भि॒षजा॒ शं न॑ः करतो अ॒श्विना॑ ।
8.018.08c यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिध॑ः ॥
8.018.09a शम॒ग्निर॒ग्निभि॑ः कर॒च्छं न॑स्तपतु॒ सूर्य॑ः ।
8.018.09c शं वातो॑ वात्वर॒पा अप॒ स्रिध॑ः ॥
8.018.10a अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् ।
8.018.10c आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥
8.018.11a यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् ।
8.018.11c ऋध॒ग्द्वेष॑ः कृणुत विश्ववेदसः ॥
8.018.12a तत्सु न॒ः शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।
8.018.12c एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥
8.018.13a यो न॒ः कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्य॑ः ।
8.018.13c स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जन॑ः ॥
8.018.14a समित्तम॒घम॑श्नवद्दु॒ःशंसं॒ मर्त्यं॑ रि॒पुम् ।
8.018.14c यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥
8.018.15a पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् ।
8.018.15c उप॑ द्व॒युं चाद्व॑युं च वसवः ॥
8.018.16a आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।
8.018.16c द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥
8.018.17a ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।
8.018.17c अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥
8.018.18a तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।
8.018.18c आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥
8.018.19a य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।
8.018.19c यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥
8.018.20a बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।
8.018.20c मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥
8.018.21a अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् ।
8.018.21c त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥
8.018.22a ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑व॒ः स्मसि॑ ।
8.018.22c प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥

8.019.01a तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।
8.019.01c दे॒व॒त्रा ह॒व्यमोहि॑रे ॥
8.019.02a विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् ।
8.019.02c अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥
8.019.03a यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् ।
8.019.03c अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
8.019.04a ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् ।
8.019.04c स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥
8.019.05a यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।
8.019.05c यो नम॑सा स्वध्व॒रः ॥
8.019.06a तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यश॑ः ।
8.019.06c न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥
8.019.07a स्व॒ग्नयो॑ वो अ॒ग्निभि॒ः स्याम॑ सूनो सहस ऊर्जां पते ।
8.019.07c सु॒वीर॒स्त्वम॑स्म॒युः ॥
8.019.08a प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्य॑ः ।
8.019.08c त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥
8.019.09a सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्त॑ः सुभग॒ स प्र॒शंस्य॑ः ।
8.019.09c स धी॒भिर॑स्तु॒ सनि॑ता ॥
8.019.10a यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑र॒ः स सा॑धते ।
8.019.10c सो अर्व॑द्भि॒ः सनि॑ता॒ स वि॑प॒न्युभि॒ः स शूरै॒ः सनि॑ता कृ॒तम् ॥
8.019.11a यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।
8.019.11c ह॒व्या वा॒ वेवि॑ष॒द्विष॑ः ॥
8.019.12a विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।
8.019.12c अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वच॑ः ॥
8.019.13a यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।
8.019.13c गि॒रा वा॑जि॒रशो॑चिषम् ॥
8.019.14a स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्य॑ः ।
8.019.14c विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥
8.019.15a तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् ।
8.019.15c म॒न्युं जन॑स्य दू॒ढ्य॑ः ॥
8.019.16a येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भग॑ः ।
8.019.16c व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥
8.019.17a ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् ।
8.019.17c विप्रा॑सो देव सु॒क्रतु॑म् ॥
8.019.18a त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।
8.019.18c त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥
8.019.19a भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।
8.019.19c भ॒द्रा उ॒त प्रश॑स्तयः ॥
8.019.20a भ॒द्रं मन॑ः कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सह॑ः ।
8.019.20c अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥
8.019.21a ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।
8.019.21c यजि॑ष्ठं हव्य॒वाह॑नम् ॥
8.019.22a ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।
8.019.22c यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥
8.019.23a यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।
8.019.23c असु॑र इव नि॒र्णिज॑म् ॥
8.019.24a यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑ ।
8.019.24c विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥
8.019.25a यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।
8.019.25c सह॑सः सूनवाहुत ॥
8.019.26a न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य ।
8.019.26c न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑त॒ः स्याद॑ग्ने॒ न पा॒पया॑ ॥
8.019.27a पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥
8.019.28a तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।
8.019.28c सदा॑ दे॒वस्य॒ मर्त्य॑ः ॥
8.019.29a तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।
8.019.29c त्वामिदा॑हु॒ः प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥
8.019.30a प्र सो अ॑ग्ने॒ तवो॒तिभि॑ः सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।
8.019.30c यस्य॒ त्वं स॒ख्यमा॒वर॑ः ॥
8.019.31a तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे ।
8.019.31c त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥
8.019.32a तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।
8.019.32c स॒म्राजं॒ त्रास॑दस्यवम् ॥
8.019.33a यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।
8.019.33c विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
8.019.34a यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् ।
8.019.34c म॒घोनां॒ विश्वे॑षां सुदानवः ॥
8.019.35a यू॒यं रा॑जान॒ः कं चि॑च्चर्षणीसह॒ः क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ ।
8.019.35c व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्स्यामेदृ॒तस्य॑ र॒थ्य॑ः ॥
8.019.36a अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् ।
8.019.36c मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥
8.019.37a उ॒त मे॑ प्र॒यियो॑र्व॒यियो॑ः सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।
8.019.37c ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पति॑ः ॥

8.020.01a आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।
8.020.01c स्थि॒रा चि॑न्नमयिष्णवः ॥
8.020.02a वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभि॑ः ।
8.020.02c इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यव॑ः ॥
8.020.03a वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् ।
8.020.03c विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥
8.020.04a वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी ।
8.020.04c प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥
8.020.05a अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पति॑ः ।
8.020.05c भूमि॒र्यामे॑षु रेजते ॥
8.020.06a अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।
8.020.06c यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥
8.020.07a स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः ।
8.020.07c वह॑न्ते॒ अह्रु॑तप्सवः ॥
8.020.08a गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।
8.020.08c गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ न॒ः स्पर॑से॒ नु ॥
8.020.09a प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् ।
8.020.09c ह॒व्या वृष॑प्रयाव्णे ॥
8.020.10a वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।
8.020.10c आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥
8.020.11a स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।
8.020.11c दवि॑द्युतत्यृ॒ष्टय॑ः ॥
8.020.12a त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।
8.020.12c स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रिय॑ः ॥
8.020.13a येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।
8.020.13c वयो॒ न पित्र्यं॒ सह॑ः ॥
8.020.14a तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् ।
8.020.14c अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥
8.020.15a सु॒भग॒ः स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।
8.020.15c यो वा॑ नू॒नमु॒तास॑ति ॥
8.020.16a यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।
8.020.16c अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥
8.020.17a यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धस॑ः ।
8.020.17c युवा॑न॒स्तथेद॑सत् ॥
8.020.18a ये चार्ह॑न्ति म॒रुत॑ः सु॒दान॑व॒ः स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये ।
8.020.18c अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥
8.020.19a यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑ः पाव॒काँ अ॒भि सो॑भरे गि॒रा ।
8.020.19c गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥
8.020.20a सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।
8.020.20c वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥
8.020.21a गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुत॒ः सब॑न्धवः ।
8.020.21c रि॒ह॒ते क॒कुभो॑ मि॒थः ॥
8.020.22a मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।
8.020.22c अधि॑ नो गात मरुत॒ः सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥
8.020.23a मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।
8.020.23c यू॒यं स॑खायः सप्तयः ॥
8.020.24a याभि॒ः सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् ।
8.020.24c मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥
8.020.25a यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।
8.020.25c यत्पर्व॑तेषु भेष॒जम् ॥
8.020.26a विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।
8.020.26c क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुन॑ः ॥

8.021.01a व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑ः ।
8.021.01c वाजे॑ चि॒त्रं ह॑वामहे ॥
8.021.02a उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।
8.021.02c त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥
8.021.03a आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।
8.021.03c सोमं॑ सोमपते पिब ॥
8.021.04a व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म ।
8.021.04c या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भि॒ः सोम॑पीतये ॥
8.021.05a सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।
8.021.05c अ॒भि त्वामि॑न्द्र नोनुमः ॥
8.021.06a अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः ।
8.021.06c सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धिय॑ः ॥
8.021.07a नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।
8.021.07c वि॒द्मा पु॒रा परी॑णसः ॥
8.021.08a वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।
8.021.08c उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥
8.021.09a यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।
8.021.09c सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
8.021.10a हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।
8.021.10c आ तु न॒ः स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥
8.021.11a त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि ।
8.021.11c सं॒स्थे जन॑स्य॒ गोम॑तः ॥
8.021.12a जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्य॑ः ।
8.021.12c नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धिय॑ः ॥
8.021.13a अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि ।
8.021.13c यु॒धेदा॑पि॒त्वमि॑च्छसे ॥
8.021.14a नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्व॑ः ।
8.021.14c य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥
8.021.15a मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः ।
8.021.15c नि ष॑दाम॒ सचा॑ सु॒ते ॥
8.021.16a मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते॑ गृहामहि ।
8.021.16c दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥
8.021.17a इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।
8.021.17c त्वं वा॑ चित्र दा॒शुषे॑ ॥
8.021.18a चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ ।
8.021.18c प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥

8.022.01a ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।
8.022.01c यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथु॑ः ॥
8.022.02a पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ।
8.022.02c स॒च॒नाव॑न्तं सुम॒तिभि॑ः सोभरे॒ विद्वे॑षसमने॒हस॑म् ॥
8.022.03a इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ ।
8.022.03c अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
8.022.04a यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।
8.022.04c अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥
8.022.05a रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना ।
8.022.05c परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥
8.022.06a द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।
8.022.06c ता वा॑म॒द्य सु॑म॒तिभि॑ः शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥
8.022.07a उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभि॑ः ।
8.022.07c येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥
8.022.08a अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।
8.022.08c आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥
8.022.09a आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू ।
8.022.09c यु॒ञ्जाथां॒ पीव॑री॒रिष॑ः ॥
8.022.10a याभि॑ः प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् ।
8.022.10c ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥
8.022.11a यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे ।
8.022.11c व॒यं गी॒र्भिर्वि॑प॒न्यव॑ः ॥
8.022.12a ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् ।
8.022.12c इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभि॒ः क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥
8.022.13a तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे ।
8.022.13c ता उ॒ नमो॑भिरीमहे ॥
8.022.14a ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी ।
8.022.14c मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥
8.022.15a आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ ।
8.022.15c हु॒वे पि॒तेव॒ सोभ॑री ॥
8.022.16a मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभि॑ः ।
8.022.16c आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभि॑ः पुरुभोजसा ॥
8.022.17a आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा ।
8.022.17c गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
8.022.18a सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ ।
8.022.18c अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

8.023.01a ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् ।
8.023.01c च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥
8.023.02a दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।
8.023.02c उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥
8.023.03a येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।
8.023.03c उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥
8.023.04a उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् ।
8.023.04c तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रिय॑ः ॥
8.023.05a उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।
8.023.05c अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॑ः ॥
8.023.06a अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।
8.023.06c यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥
8.023.07a अ॒ग्निं व॑ः पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् ।
8.023.07c तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥
8.023.08a य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत् ।
8.023.08c मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥
8.023.09a ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।
8.023.09c उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥
8.023.10a अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यत॑ः ।
8.023.10c होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥
8.023.11a अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः ।
8.023.11c अश्वा॑ इव॒ वृष॑णस्तविषी॒यव॑ः ॥
8.023.12a स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म् ।
8.023.12c प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥
8.023.13a यद्वा उ॑ वि॒श्पति॑ः शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।
8.023.13c विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥
8.023.14a श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।
8.023.14c नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥
8.023.15a न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑ः ।
8.023.15c यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥
8.023.16a व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषि॑ः ।
8.023.16c म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥
8.023.17a उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।
8.023.17c आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम् ॥
8.023.18a विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।
8.023.18c श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥
8.023.19a इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्य॑ः ।
8.023.19c पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम् ॥
8.023.20a तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम् ।
8.023.20c वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म् ॥
8.023.21a यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।
8.023.21c भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यश॑ः ॥
8.023.22a प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ।
8.023.22c प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥
8.023.23a आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।
8.023.23c मंहि॑ष्ठाभिर्म॒तिभि॑ः शु॒क्रशो॑चिषे ॥
8.023.24a नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।
8.023.24c ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥
8.023.25a अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् ।
8.023.25c विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥
8.023.26a म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।
8.023.26c अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥
8.023.27a वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृह॑ः ।
8.023.27c सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥
8.023.28a त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।
8.023.28c सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥
8.023.29a त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑ः ।
8.023.29c म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥
8.023.30a अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।
8.023.30c ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥

8.024.01a सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
8.024.01c स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥
8.024.02a शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।
8.024.02c म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥
8.024.03a स न॒ः स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् ।
8.024.03c नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
8.024.04a आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् ।
8.024.04c धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥
8.024.05a न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुर॑ः ।
8.024.05c न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥
8.024.06a आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः ।
8.024.06c आ स्मा॒ कामं॑ जरि॒तुरा मन॑ः पृण ॥
8.024.07a विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम ।
8.024.07c उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥
8.024.08a व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।
8.024.08c वसो॑ः स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥
8.024.09a इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शव॑ः ।
8.024.09c अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥
8.024.10a आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।
8.024.10c दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥
8.024.11a नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शस॑ः ।
8.024.11c मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॑ः ॥
8.024.12a न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से ।
8.024.12c रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥
8.024.13a एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ ।
8.024.13c प्र राध॑सा चोदयाते महित्व॒ना ॥
8.024.14a उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् ।
8.024.14c नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥
8.024.15a न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।
8.024.15c नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥
8.024.16a एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।
8.024.16c ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥
8.024.17a इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।
8.024.17c उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥
8.024.18a तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यव॑ः ।
8.024.18c अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥
8.024.19a एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒ः स्तोम्यं॒ नर॑म् ।
8.024.19c कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥
8.024.20a अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वच॑ः ।
8.024.20c घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
8.024.21a यस्यामि॑तानि वी॒र्या॒३॒॑ न राध॒ः पर्ये॑तवे ।
8.024.21c ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥
8.024.22a स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् ।
8.024.22c अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥
8.024.23a ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।
8.024.23c सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥
8.024.24a वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् ।
8.024.24c अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥
8.024.25a तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।
8.024.25c द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥
8.024.26a तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।
8.024.26c स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणि॑ः ॥
8.024.27a य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु ।
8.024.27c वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥
8.024.28a यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् ।
8.024.28c व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥
8.024.29a आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिन॑ः ।
8.024.29c स्थू॒रं च॒ राध॑ः श॒तव॑त्स॒हस्र॑वत् ॥
8.024.30a यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।
8.024.30c ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥

8.025.01a ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।
8.025.01c ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥
8.025.02a मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतु॑ः ।
8.025.02c स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥
8.025.03a ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।
8.025.03c म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री ॥
8.025.04a म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।
8.025.04c ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥
8.025.05a नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।
8.025.05c सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥
8.025.06a सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिष॑ः ।
8.025.06c नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टय॑ः ॥
8.025.07a अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।
8.025.07c ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥
8.025.08a ऋ॒तावा॑ना॒ नि षे॑दतु॒ः साम्रा॑ज्याय सु॒क्रतू॑ ।
8.025.08c धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥
8.025.09a अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।
8.025.09c नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः ॥
8.025.10a उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।
8.025.10c उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥
8.025.11a ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।
8.025.11c अरि॑ष्यन्तो॒ नि पा॒युभि॑ः सचेमहि ॥
8.025.12a अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे ।
8.025.12c श्रु॒धि स्व॑यावन्सिन्धो पू॒र्वचि॑त्तये ॥
8.025.13a तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् ।
8.025.13c मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥
8.025.14a उ॒त न॒ः सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।
8.025.14c इन्द्रो॒ विष्णु॑र्मी॒ढ्वांस॑ः स॒जोष॑सः ॥
8.025.15a ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।
8.025.15c ति॒ग्मं न क्षोद॑ः प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥
8.025.16a अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पति॑ः ।
8.025.16c तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥
8.025.17a अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।
8.025.17c मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥
8.025.18a परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः ।
8.025.18c उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥
8.025.19a उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्य॑ः ।
8.025.19c अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥
8.025.20a वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।
8.025.20c ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥
8.025.21a तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।
8.025.21c भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥
8.025.22a ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।
8.025.22c रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥
8.025.23a ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।
8.025.23c उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥
8.025.24a स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।
8.025.24c म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥

8.026.01a यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ ।
8.026.01c अतू॑र्तदक्षा वृषणा वृषण्वसू ॥
8.026.02a यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।
8.026.02c अवो॑भिर्याथो वृषणा वृषण्वसू ॥
8.026.03a ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।
8.026.03c पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥
8.026.04a आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।
8.026.04c उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥
8.026.05a जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।
8.026.05c यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विष॑ः ॥
8.026.06a द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभि॑ः परि॒दीय॑थः ।
8.026.06c धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥
8.026.07a उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।
8.026.07c म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥
8.026.08a आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् ।
8.026.08c दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥
8.026.09a व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् ।
8.026.09c सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥
8.026.10a अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् ।
8.026.10c नेदी॑यसः कूळयातः प॒णीँरु॒त ॥
8.026.11a वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।
8.026.11c स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
8.026.12a यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभि॑ः ।
8.026.12c अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥
8.026.13a यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।
8.026.13c स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥
8.026.14a यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् ।
8.026.14c व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥
8.026.15a अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य॑म् ।
8.026.15c वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥
8.026.16a वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।
8.026.16c यु॒वाभ्यां॑ भूत्वश्विना ॥
8.026.17a यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।
8.026.17c श्रु॒तमिन्मे॑ अमर्त्या ॥
8.026.18a उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् ।
8.026.18c सिन्धु॒र्हिर॑ण्यवर्तनिः ॥
8.026.19a स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।
8.026.19c वहे॑थे शुभ्रयावाना ॥
8.026.20a यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।
8.026.20c आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥
8.026.21a तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
8.026.21c अवां॒स्या वृ॑णीमहे ॥
8.026.22a त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।
8.026.22c सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥
8.026.23a वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् ।
8.026.23c वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥
8.026.24a त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।
8.026.24c ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥
8.026.25a स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः ।
8.026.25c कृ॒धि वाजाँ॑ अ॒पो धिय॑ः ॥

8.027.01a अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।
8.027.01c ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥
8.027.02a आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।
8.027.02c विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑ः ॥
8.027.03a प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।
8.027.03c आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥
8.027.04a विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।
8.027.04c अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥
8.027.05a आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः ।
8.027.05c ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥
8.027.06a अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।
8.027.06c आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यास॑ः सदन्तु नः ॥
8.027.07a व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।
8.027.07c सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥
8.027.08a आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।
8.027.08c इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥
8.027.09a वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।
8.027.09c न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥
8.027.10a अस्ति॒ हि व॑ः सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।
8.027.10c प्र ण॒ः पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥
8.027.11a इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।
8.027.11c उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥
8.027.12a उदु॒ ष्य व॑ः सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।
8.027.12c नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णव॑ः ॥
8.027.13a दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।
8.027.13c दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥
8.027.14a दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।
8.027.14c ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विद॑ः ॥
8.027.15a प्र व॑ः शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् ।
8.027.15c न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥
8.027.16a प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।
8.027.16c प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्ट॒ः सर्व॑ एधते ॥
8.027.17a ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।
8.027.17c अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥
8.027.18a अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् ।
8.027.18c ए॒षा चि॑दस्माद॒शनि॑ः प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥
8.027.19a यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।
8.027.19c यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥
8.027.20a यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।
8.027.20c व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥
8.027.21a यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।
8.027.21c वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥
8.027.22a व॒यं तद्व॑ः सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् ।
8.027.22c अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥

8.028.01a ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।
8.028.01c वि॒दन्नह॑ द्वि॒तास॑नन् ॥
8.028.02a वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नय॑ः ।
8.028.02c पत्नी॑वन्तो॒ वष॑ट्कृताः ॥
8.028.03a ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।
8.028.03c पु॒रस्ता॒त्सर्व॑या वि॒शा ॥
8.028.04a यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।
8.028.04c अरा॑वा च॒न मर्त्य॑ः ॥
8.028.05a स॒प्ता॒नां स॒प्त ऋ॒ष्टय॑ः स॒प्त द्यु॒म्नान्ये॑षाम् ।
8.028.05c स॒प्तो अधि॒ श्रियो॑ धिरे ॥

8.029.01a ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥
8.029.02a योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥
8.029.03a वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥
8.029.04a वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥
8.029.05a ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥
8.029.06a प॒थ एक॑ः पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम् ॥
8.029.07a त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥
8.029.08a विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥
8.029.09a सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥
8.029.10a अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥

8.030.01a न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
8.030.01c विश्वे॑ स॒तोम॑हान्त॒ इत् ॥
8.030.02a इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
8.030.02c मनो॑र्देवा यज्ञियासः ॥
8.030.03a ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
8.030.03c मा न॑ः प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वत॑ः ॥
8.030.04a ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
8.030.04c अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥

8.031.01a यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।
8.031.01c ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥
8.031.02a पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् ।
8.031.02c पादित्तं श॒क्रो अंह॑सः ॥
8.031.03a तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑त॒ः स शू॑शुवत् ।
8.031.03c विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥
8.031.04a अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे ।
8.031.04c इळा॑ धेनु॒मती॑ दुहे ॥
8.031.05a या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।
8.031.05c देवा॑सो॒ नित्य॑या॒शिरा॑ ॥
8.031.06a प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते ।
8.031.06c न ता वाजे॑षु वायतः ॥
8.031.07a न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।
8.031.07c श्रवो॑ बृ॒हद्वि॑वासतः ॥
8.031.08a पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।
8.031.08c उ॒भा हिर॑ण्यपेशसा ॥
8.031.09a वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् ।
8.031.09c समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुव॑ः ॥
8.031.10a आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् ।
8.031.10c आ विष्णो॑ः सचा॒भुव॑ः ॥
8.031.11a ऐतु॑ पू॒षा र॒यिर्भग॑ः स्व॒स्ति स॑र्व॒धात॑मः ।
8.031.11c उ॒रुरध्वा॑ स्व॒स्तये॑ ॥
8.031.12a अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।
8.031.12c आ॒दि॒त्याना॑मने॒ह इत् ॥
8.031.13a यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑ण॒ः सन्ति॑ गो॒पाः ।
8.031.13c सु॒गा ऋ॒तस्य॒ पन्था॑ः ॥
8.031.14a अ॒ग्निं व॑ः पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् ।
8.031.14c स॒प॒र्यन्त॑ः पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥
8.031.15a म॒क्षू दे॒वव॑तो॒ रथ॒ः शूरो॑ वा पृ॒त्सु कासु॑ चित् ।
8.031.15c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.16a न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।
8.031.16c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.17a नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।
8.031.17c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.18a अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् ।
8.031.18c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

8.032.01a प्र कृ॒तान्यृ॑जी॒षिण॒ः कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।
8.032.01c मदे॒ सोम॑स्य वोचत ॥
8.032.02a यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् ।
8.032.02c वधी॑दु॒ग्रो रि॒णन्न॒पः ॥
8.032.03a न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।
8.032.03c कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
8.032.04a प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।
8.032.04c हु॒वे सु॑शि॒प्रमू॒तये॑ ॥
8.032.05a स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्य॑ः ।
8.032.05c पुरं॒ न शू॑र दर्षसि ॥
8.032.06a यदि॑ मे रा॒रण॑ः सु॒त उ॒क्थे वा॒ दध॑से॒ चन॑ः ।
8.032.06c आ॒रादुप॑ स्व॒धा ग॑हि ॥
8.032.07a व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः ।
8.032.07c त्वं नो॑ जिन्व सोमपाः ॥
8.032.08a उ॒त न॑ः पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् ।
8.032.08c मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥
8.032.09a उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विन॑ः ।
8.032.09c इळा॑भि॒ः सं र॑भेमहि ॥
8.032.10a बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।
8.032.10c साधु॑ कृ॒ण्वन्त॒मव॑से ॥
8.032.11a यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।
8.032.11c ज॒रि॒तृभ्य॑ः पुरू॒वसु॑ः ॥
8.032.12a स न॑ः श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः ।
8.032.12c इन्द्रो॒ विश्वा॑भिरू॒तिभि॑ः ॥
8.032.13a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
8.032.13c तमिन्द्र॑म॒भि गा॑यत ॥
8.032.14a आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् ।
8.032.14c भूरे॒रीशा॑न॒मोज॑सा ॥
8.032.15a नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् ।
8.032.15c नकि॑र्व॒क्ता न दा॒दिति॑ ॥
8.032.16a न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् ।
8.032.16c न सोमो॑ अप्र॒ता प॑पे ॥
8.032.17a पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।
8.032.17c ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥
8.032.18a पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।
8.032.18c इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥
8.032.19a वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुव॑ः ।
8.032.19c इन्द्र॒ पिब॑ सु॒ताना॑म् ॥
8.032.20a पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।
8.032.20c उ॒तायमि॑न्द्र॒ यस्तव॑ ॥
8.032.21a अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।
8.032.21c इ॒मं रा॒तं सु॒तं पि॑ब ॥
8.032.22a इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑ ।
8.032.22c धेना॑ इन्द्राव॒चाक॑शत् ॥
8.032.23a सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑ः ।
8.032.23c नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
8.032.24a अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।
8.032.24c भरा॑ सु॒तस्य॑ पी॒तये॑ ॥
8.032.25a य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धूँ॑र॒वासृ॑जत् ।
8.032.25c यो गोषु॑ प॒क्वं धा॒रय॑त् ॥
8.032.26a अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् ।
8.032.26c हि॒मेना॑विध्य॒दर्बु॑दम् ॥
8.032.27a प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।
8.032.27c दे॒वत्तं॒ ब्रह्म॑ गायत ॥
8.032.28a यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः ।
8.032.28c इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥
8.032.29a इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
8.032.29c वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥
8.032.30a अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
8.032.30c सो॒म॒पेया॑य वक्षतः ॥

8.033.01a व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।
8.033.01c प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
8.033.02a स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिन॑ः ।
8.033.02c क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
8.033.03a कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् ।
8.033.03c पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
8.033.04a पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे ।
8.033.04c यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्यय॑ः ॥
8.033.05a यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।
8.033.05c य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥
8.033.06a यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।
8.033.06c विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥
8.033.07a क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे ।
8.033.07c अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥
8.033.08a दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।
8.033.08c नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥
8.033.09a य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
8.033.09c यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥
8.033.10a स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।
8.033.10c वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
8.033.11a वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।
8.033.11c वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥
8.033.12a वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।
8.033.12c वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥
8.033.13a एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् ।
8.033.13c नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतु॑ः ॥
8.033.14a वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युज॑ः ।
8.033.14c ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥
8.033.15a अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह ।
8.033.15c अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥
8.033.16a न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।
8.033.16c यो अ॒स्मान्वी॒र आन॑यत् ॥
8.033.17a इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मन॑ः ।
8.033.17c उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥
8.033.18a सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् ।
8.033.18c ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥
8.033.19a अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र ।
8.033.19c मा ते॑ कशप्ल॒कौ दृ॑श॒न्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥

8.034.01a एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् ।
8.034.01c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.02a आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु ।
8.034.02c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.03a अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृक॑ः ।
8.034.03c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.04a आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये ।
8.034.04c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.05a दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् ।
8.034.05c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.06a स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ ।
8.034.06c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.07a आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ ।
8.034.07c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.08a आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्य॑ः ।
8.034.08c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.09a आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः ।
8.034.09c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.10a आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ ।
8.034.10c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.11a आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह ।
8.034.11c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.12a सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तै॒ः सम्भृ॑ताश्वः ।
8.034.12c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.13a आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टप॑ः ।
8.034.13c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.14a आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि ।
8.034.14c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.15a आ न॑ः सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च ।
8.034.15c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.16a आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः ।
8.034.16c ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥
8.034.17a य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यद॑ः ।
8.034.17c भ्राज॑न्ते॒ सूर्या॑ इव ॥
8.034.18a पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ ।
8.034.18c तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥

8.035.01a अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
8.035.01c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
8.035.02a विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ ।
8.035.02c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
8.035.03a विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ ।
8.035.03c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
8.035.04a जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
8.035.04c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
8.035.05a स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
8.035.05c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
8.035.06a गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
8.035.06c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
8.035.07a हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
8.035.07c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
8.035.08a हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
8.035.08c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
8.035.09a श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
8.035.09c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
8.035.10a पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
8.035.10c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
8.035.11a जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
8.035.11c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
8.035.12a ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑ः प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
8.035.12c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
8.035.13a मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
8.035.13c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
8.035.14a अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
8.035.14c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
8.035.15a ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
8.035.15c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
8.035.16a ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
8.035.16c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
8.035.17a क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
8.035.17c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
8.035.18a धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
8.035.18c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
8.035.19a अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
8.035.19c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
8.035.20a सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
8.035.20c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
8.035.21a र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
8.035.21c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
8.035.22a अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।
8.035.22c आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
8.035.23a न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ ।
8.035.23c आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
8.035.24a स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः ।
8.035.24c आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

8.036.01a अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒ः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.01c यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.02a प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.02c यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.03a ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.03c यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.04a ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.04c यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.05a ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.05c यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.06a अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.06c यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.07a श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒ः कर्मा॑णि कृण्व॒तः ।
8.036.07c प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥

8.037.01a प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.037.01d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.02a से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुह॑ः शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.037.02d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.03a ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.037.03d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.04a स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.037.04d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.05a क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.037.05d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.06a क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
8.037.06d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.07a श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒ः कर्मा॑णि कृण्व॒तः ।
8.037.07c प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

8.038.01a य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।
8.038.01c इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
8.038.02a तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।
8.038.02c इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
8.038.03a इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नर॑ः ।
8.038.03c इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
8.038.04a जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।
8.038.04c इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
8.038.05a इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथु॑ः ।
8.038.05c इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
8.038.06a इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।
8.038.06c इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
8.038.07a प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।
8.038.07c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
8.038.08a श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् ।
8.038.08c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
8.038.09a ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।
8.038.09c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
8.038.10a आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे ।
8.038.10c याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥

8.039.01a अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।
8.039.01c अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥
8.039.02a न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् ।
8.039.02c न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.03a अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ ।
8.039.03c स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.04a तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।
8.039.04c ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.05a स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।
8.039.05c स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥
8.039.06a अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् ।
8.039.06c अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.07a अ॒ग्निर्दे॒वेषु॒ संव॑सु॒ः स वि॒क्षु य॒ज्ञिया॒स्वा ।
8.039.07c स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.08a यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु ।
8.039.08c तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥
8.039.09a अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।
8.039.09c स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.10a त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि ।
8.039.10d त्वामाप॑ः परि॒स्रुत॒ः परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥

8.040.01a इन्द्रा॑ग्नी यु॒वं सु न॒ः सह॑न्ता॒ दास॑थो र॒यिम् ।
8.040.01c येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥
8.040.02a न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् ।
8.040.02d स न॑ः क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.03a ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः ।
8.040.03c ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.04a अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा ।
8.040.04c ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.05a प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत ।
8.040.05c या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.06a अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय ।
8.040.06d व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.07a यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा ।
8.040.07c अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥
8.040.08a या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभि॑ः ।
8.040.08c इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.09a पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒ः सूनो॑ हि॒न्वस्य॑ हरिवः ।
8.040.09d वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.10a तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् ।
8.040.10c उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥
8.040.11a तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् ।
8.040.11c उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒ः स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥
8.040.12a ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि ।
8.040.12c त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

8.041.01a अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः ।
8.041.01d यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.02a तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।
8.041.02c ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥
8.041.03a स क्षप॒ः परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।
8.041.03d तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥
8.041.04a यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।
8.041.04c स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.05a यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।
8.041.05d स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.06a यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।
8.041.06c त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.07a य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् ।
8.041.07c परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥
8.041.08a स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।
8.041.08d स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥
8.041.09a यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः ।
8.041.09c त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒ः स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.10a यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।
8.041.10c स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥

8.042.01a अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
8.042.01c आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥
8.042.02a ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् ।
8.042.02c स न॒ः शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥
8.042.03a इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।
8.042.03c ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥
8.042.04a आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।
8.042.04c नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.042.05a यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।
8.042.05c नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.042.06a ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।
8.042.06c नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥

8.043.01a इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।
8.043.01c गिर॒ः स्तोमा॑स ईरते ॥
8.043.02a अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
8.043.02c अग्ने॒ जना॑मि सुष्टु॒तिम् ॥
8.043.03a आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विष॑ः ।
8.043.03c द॒द्भिर्वना॑नि बप्सति ॥
8.043.04a हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।
8.043.04c यत॑न्ते॒ वृथ॑ग॒ग्नय॑ः ॥
8.043.05a ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धास॒ः सम॑दृक्षत ।
8.043.05c उ॒षसा॑मिव के॒तव॑ः ॥
8.043.06a कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।
8.043.06c अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥
8.043.07a धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।
8.043.07c पुन॒र्यन्तरु॑णी॒रपि॑ ॥
8.043.08a जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् ।
8.043.08c अ॒ग्निर्वने॑षु रोचते ॥
8.043.09a अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
8.043.09c गर्भे॒ सञ्जा॑यसे॒ पुन॑ः ॥
8.043.10a उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् ।
8.043.10c निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥
8.043.11a उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।
8.043.11c स्तोमै॑र्विधेमा॒ग्नये॑ ॥
8.043.12a उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।
8.043.12c अग्ने॑ स॒मिद्भि॑रीमहे ॥
8.043.13a उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।
8.043.13c अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥
8.043.14a त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्स॒ता ।
8.043.14c सखा॒ सख्या॑ समि॒ध्यसे॑ ॥
8.043.15a स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् ।
8.043.15c अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥
8.043.16a अग्ने॒ भ्रात॒ः सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।
8.043.16c इ॒मं स्तोमं॑ जुषस्व मे ॥
8.043.17a उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।
8.043.17c गो॒ष्ठं गाव॑ इवाशत ॥
8.043.18a तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑ः सुक्षि॒तय॒ः पृथ॑क् ।
8.043.18c अग्ने॒ कामा॑य येमिरे ॥
8.043.19a अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चित॑ः ।
8.043.19c अ॒द्म॒सद्या॑य हिन्विरे ॥
8.043.20a तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् ।
8.043.20c वह्निं॒ होता॑रमीळते ॥
8.043.21a पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
8.043.21c स॒मत्सु॑ त्वा हवामहे ॥
8.043.22a तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।
8.043.22c इ॒मं न॑ः शृणव॒द्धव॑म् ॥
8.043.23a तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् ।
8.043.23c अग्ने॒ घ्नन्त॒मप॒ द्विष॑ः ॥
8.043.24a वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् ।
8.043.24c अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
8.043.25a अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् ।
8.043.25c सप्तिं॒ न वा॑जयामसि ॥
8.043.26a घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।
8.043.26c अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥
8.043.27a यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम ।
8.043.27c अग्ने॒ स बो॑धि मे॒ वच॑ः ॥
8.043.28a यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।
8.043.28c तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥
8.043.29a तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वा॑ः सुक्षि॒तय॒ः पृथ॑क् ।
8.043.29c धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥
8.043.30a ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।
8.043.30c तर॑न्तः स्याम दु॒र्गहा॑ ॥
8.043.31a अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् ।
8.043.31c हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥
8.043.32a स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्सूर्यो॒ न र॒श्मिभि॑ः ।
8.043.32c शर्ध॒न्तमां॑सि जिघ्नसे ॥
8.043.33a तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।
8.043.33c त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥

8.044.01a स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् ।
8.044.01c आस्मि॑न्ह॒व्या जु॑होतन ॥
8.044.02a अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।
8.044.02c प्रति॑ सू॒क्तानि॑ हर्य नः ॥
8.044.03a अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।
8.044.03c दे॒वाँ आ सा॑दयादि॒ह ॥
8.044.04a उत्ते॑ बृ॒हन्तो॑ अ॒र्चय॑ः समिधा॒नस्य॑ दीदिवः ।
8.044.04c अग्ने॑ शु॒क्रास॑ ईरते ॥
8.044.05a उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत ।
8.044.05c अग्ने॑ ह॒व्या जु॑षस्व नः ॥
8.044.06a म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् ।
8.044.06c अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
8.044.07a प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् ।
8.044.07c अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥
8.044.08a जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।
8.044.08c अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥
8.044.09a स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह ।
8.044.09c चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥
8.044.10a विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् ।
8.044.10c य॒ज्ञानां॑ के॒तुमी॑महे ॥
8.044.11a अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।
8.044.11c भि॒न्धि द्वेष॑ः सहस्कृत ॥
8.044.12a अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् ।
8.044.12c क॒विर्विप्रे॑ण वावृधे ॥
8.044.13a ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् ।
8.044.13c अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥
8.044.14a स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।
8.044.14c दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
8.044.15a यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्त॑ः सप॒र्यति॑ ।
8.044.15c तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥
8.044.16a अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑ः पृथि॒व्या अ॒यम् ।
8.044.16c अ॒पां रेतां॑सि जिन्वति ॥
8.044.17a उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।
8.044.17c तव॒ ज्योतीं॑ष्य॒र्चय॑ः ॥
8.044.18a ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।
8.044.18c स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥
8.044.19a त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः ।
8.044.19c त्वां व॑र्धन्तु नो॒ गिर॑ः ॥
8.044.20a अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑त॒ः सदा॑ ।
8.044.20c अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥
8.044.21a अ॒ग्निः शुचि॑व्रततम॒ः शुचि॒र्विप्र॒ः शुचि॑ः क॒विः ।
8.044.21c शुची॑ रोचत॒ आहु॑तः ॥
8.044.22a उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ ।
8.044.22c अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥
8.044.23a यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् ।
8.044.23c स्युष्टे॑ स॒त्या इ॒हाशिष॑ः ॥
8.044.24a वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।
8.044.24c स्याम॑ ते सुम॒तावपि॑ ॥
8.044.25a अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः ।
8.044.25c गिरो॑ वा॒श्रास॑ ईरते ॥
8.044.26a युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् ।
8.044.26c अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः ॥
8.044.27a य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ ।
8.044.27c स्तोमै॑रिषेमा॒ग्नये॑ ॥
8.044.28a अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य ।
8.044.28c तस्मै॑ पावक मृळय ॥
8.044.29a धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑वि॒ः सदा॑ ।
8.044.29c अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥
8.044.30a पु॒राग्ने॑ दुरि॒तेभ्य॑ः पु॒रा मृ॒ध्रेभ्य॑ः कवे ।
8.044.30c प्र ण॒ आयु॑र्वसो तिर ॥

8.045.01a आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
8.045.01c येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
8.045.02a बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑ः ।
8.045.02c येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
8.045.03a अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।
8.045.03c येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
8.045.04a आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् ।
8.045.04c क उ॒ग्राः के ह॑ शृण्विरे ॥
8.045.05a प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।
8.045.05c यस्ते॑ शत्रु॒त्वमा॑च॒के ॥
8.045.06a उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।
8.045.06c यद्वी॒ळया॑सि वी॒ळु तत् ॥
8.045.07a यदा॒जिं यात्या॑जि॒कृदिन्द्र॑ः स्वश्व॒युरुप॑ ।
8.045.07c र॒थीत॑मो र॒थीना॑म् ॥
8.045.08a वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।
8.045.08c भवा॑ नः सु॒श्रव॑स्तमः ॥
8.045.09a अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्र॑ः कृणोतु सा॒तये॑ ।
8.045.09c न यं धूर्व॑न्ति धू॒र्तय॑ः ॥
8.045.10a वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।
8.045.10c ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥
8.045.11a शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विन॑ः ।
8.045.11c वि॒वक्ष॑णा अने॒हस॑ः ॥
8.045.12a ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।
8.045.12c ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥
8.045.13a वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् ।
8.045.13c आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥
8.045.14a क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः ।
8.045.14c आ त्वा॑ प॒णिं यदीम॑हे ॥
8.045.15a यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।
8.045.15c तस्य॑ नो॒ वेद॒ आ भ॑र ॥
8.045.16a इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिन॑ः ।
8.045.16c पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥
8.045.17a उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ ।
8.045.17c दू॒रादि॒ह ह॑वामहे ॥
8.045.18a यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।
8.045.18c भवे॑रा॒पिर्नो॒ अन्त॑मः ॥
8.045.19a यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।
8.045.19c गो॒दा इदि॑न्द्र बोधि नः ॥
8.045.20a आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।
8.045.20c उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥
8.045.21a स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।
8.045.21c नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥
8.045.22a अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।
8.045.22c तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥
8.045.23a मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।
8.045.23c माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥
8.045.24a इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से ।
8.045.24c सरो॑ गौ॒रो यथा॑ पिब ॥
8.045.25a या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।
8.045.25c ता सं॒सत्सु॒ प्र वो॑चत ॥
8.045.26a अपि॑बत्क॒द्रुव॑ः सु॒तमिन्द्र॑ः स॒हस्र॑बाह्वे ।
8.045.26c अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥
8.045.27a स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् ।
8.045.27c व्या॑नट् तु॒र्वणे॒ शमि॑ ॥
8.045.28a त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।
8.045.28c स॒मा॒नमु॒ प्र शं॑सिषम् ॥
8.045.29a ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् ।
8.045.29c इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
8.045.30a यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् ।
8.045.30c गोभ्यो॑ गा॒तुं निरे॑तवे ॥
8.045.31a यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि ।
8.045.31c मा तत्क॑रिन्द्र मृ॒ळय॑ ॥
8.045.32a द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।
8.045.32c जिगा॑त्विन्द्र ते॒ मन॑ः ॥
8.045.33a तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।
8.045.33c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.045.34a मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।
8.045.34c वधी॒र्मा शू॑र॒ भूरि॑षु ॥
8.045.35a बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिण॑ः ।
8.045.35c द॒स्माद॒हमृ॑ती॒षह॑ः ॥
8.045.36a मा सख्यु॒ः शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।
8.045.36c आ॒वृत्व॑द्भूतु ते॒ मन॑ः ॥
8.045.37a को नु म॑र्या॒ अमि॑थित॒ः सखा॒ सखा॑यमब्रवीत् ।
8.045.37c ज॒हा को अ॒स्मदी॑षते ॥
8.045.38a ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।
8.045.38c श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥
8.045.39a आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।
8.045.39c यदीं॑ ब्र॒ह्मभ्य॒ इद्दद॑ः ॥
8.045.40a भि॒न्धि विश्वा॒ अप॒ द्विष॒ः परि॒ बाधो॑ ज॒ही मृध॑ः ।
8.045.40c वसु॑ स्पा॒र्हं तदा भ॑र ॥
8.045.41a यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् ।
8.045.41c वसु॑ स्पा॒र्हं तदा भ॑र ॥
8.045.42a यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।
8.045.42c वसु॑ स्पा॒र्हं तदा भ॑र ॥

8.046.01a त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः ।
8.046.01c स्मसि॑ स्थातर्हरीणाम् ॥
8.046.02a त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् ।
8.046.02c वि॒द्म दा॒तारं॑ रयी॒णाम् ॥
8.046.03a आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।
8.046.03c गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑ः ॥
8.046.04a सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।
8.046.04c मि॒त्रः पान्त्य॒द्रुह॑ः ॥
8.046.05a दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।
8.046.05c सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥
8.046.06a तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् ।
8.046.06c ईशा॑नं रा॒य ई॑महे ॥
8.046.07a तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रव॒ः सचा॑ ।
8.046.07c तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥
8.046.08a यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
8.046.08c य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टर॑ः ॥
8.046.09a यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।
8.046.09c स न॑ः शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥
8.046.10a ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या ।
8.046.10c व॒रि॒व॒स्य म॑हामह ॥
8.046.11a न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा ।
8.046.11c द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥
8.046.12a य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।
8.046.12c तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥
8.046.13a स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसु॑ः पुरस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥
8.046.14a अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् ।
8.046.14c इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥
8.046.15a द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् ।
8.046.15c नू॒नमथ॑ ॥
8.046.16a विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।
8.046.16c कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥
8.046.17a म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।
8.046.17c य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥
8.046.18a ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् ।
8.046.18c य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥
8.046.19a प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र ।
8.046.19c र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥
8.046.20a सनि॑त॒ः सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।
8.046.20c प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥
8.046.21a आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।
8.046.21c यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥
8.046.22a ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।
8.046.22c दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥
8.046.23a दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शव॑ः ।
8.046.23c म॒थ्रा ने॒मिं नि वा॑वृतुः ॥
8.046.24a दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।
8.046.24c रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रव॑ः ॥
8.046.25a आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।
8.046.25c व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥
8.046.26a यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् ।
8.046.26c ए॒भिः सोमे॑भिः सोम॒सुद्भि॑ः सोमपा दा॒नाय॑ शुक्रपूतपाः ॥
8.046.27a यो म॑ इ॒मं चि॑दु॒ त्मनाम॑न्दच्चि॒त्रं दा॒वने॑ ।
8.046.27c अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतु॑ः ॥
8.046.28a उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।
8.046.28c अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥
8.046.29a अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् ।
8.046.29c अश्वा॑ना॒मिन्न वृष्णा॑म् ॥
8.046.30a गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥
8.046.31a अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् ।
8.046.31c अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥
8.046.32a श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।
8.046.32c ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥
8.046.33a अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् ।
8.046.33c अधि॑रुक्मा॒ वि नी॑यते ॥

8.047.01a महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।
8.047.01c यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.02a वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् ।
8.047.02c प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.03a व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन ।
8.047.03c विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.04a यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।
8.047.04c मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.05a परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।
8.047.05c स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.06a प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।
8.047.06c देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.07a न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।
8.047.07c यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.08a यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु ।
8.047.08c यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.09a अदि॑तिर्न उरुष्य॒त्वदि॑ति॒ः शर्म॑ यच्छतु ।
8.047.09c मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.10a यद्दे॑वा॒ः शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् ।
8.047.10c त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.11a आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पश॑ः ।
8.047.11c सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.12a नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
8.047.12c गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.13a यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् ।
8.047.13c त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.14a यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।
8.047.14c त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.15a नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।
8.047.15c त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.16a तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।
8.047.16c त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.17a यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।
8.047.17c ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥
8.047.18a अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
8.047.18c उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तय॑ः सु॒तयो॑ व ऊ॒तय॑ः ॥

8.048.01a स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।
8.048.01c विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥
8.048.02a अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।
8.048.02c इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥
8.048.03a अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
8.048.03c किं नू॒नम॒स्मान्कृ॑णव॒दरा॑ति॒ः किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥
8.048.04a शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेव॑ः ।
8.048.04c सखे॑व॒ सख्य॑ उरुशंस॒ धीर॒ः प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥
8.048.05a इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गाव॒ः सम॑नाह॒ पर्व॑सु ।
8.048.05c ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥
8.048.06a अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीप॒ः प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
8.048.06c अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥
8.048.07a इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।
8.048.07c सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥
8.048.08a सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।
8.048.08c अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥
8.048.09a त्वं हि न॑स्त॒न्व॑ः सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षा॑ः ।
8.048.09c यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्य॑ः ॥
8.048.10a ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।
8.048.10c अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायु॑ः ॥
8.048.11a अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।
8.048.11c आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑ः ॥
8.048.12a यो न॒ इन्दु॑ः पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
8.048.12c तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥
8.048.13a त्वं सो॑म पि॒तृभि॑ः संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
8.048.13c तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
8.048.14a त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पि॑ः ।
8.048.14c व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यास॑ः सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
8.048.15a त्वं न॑ः सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षा॑ः ।
8.048.15c त्वं न॑ इन्द ऊ॒तिभि॑ः स॒जोषा॑ः पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

8.049.01a अ॒भि प्र व॑ः सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे ।
8.049.01c यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसु॑ः स॒हस्रे॑णेव॒ शिक्ष॑ति ॥
8.049.02a श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ ।
8.049.02c गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥
8.049.03a आ त्वा॑ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ॑न्द्र गिर्वणः ।
8.049.03c आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सर॑ः पृ॒णन्ति॑ शूर॒ राध॑से ॥
8.049.04a अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्व॒ः स्वादि॑ष्ठमीं पिब ।
8.049.04c आ यथा॑ मन्दसा॒नः कि॒रासि॑ न॒ः प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥
8.049.05a आ न॒ः स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः ।
8.049.05c यं ते॑ स्वधावन्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तय॑ः ॥
8.049.06a उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् ।
8.049.06c उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तय॑ः ॥
8.049.07a यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ ।
8.049.07c अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥
8.049.08a अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिण॑ः ।
8.049.08c येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
8.049.09a ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः ।
8.049.09c यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥
8.049.10a यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे ।
8.049.10c यथा॒ गोश॑र्ये॒ अस॑नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥

8.050.01a प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।
8.050.01c यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
8.050.02a श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः ।
8.050.02c गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥
8.050.03a यदीं॑ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम॑न्दिषुः ।
8.050.03c आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥
8.050.04a अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्व॑ः क्षरन्ति धी॒तय॑ः ।
8.050.04c आ त्वा॑ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥
8.050.05a आ न॒ः सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते ।
8.050.05c यं ते॑ स्वदाव॒न्स्वद॑न्ति गू॒र्तय॑ः पौ॒रे छ॑न्दयसे॒ हव॑म् ॥
8.050.06a प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः ।
8.050.06c उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥
8.050.07a यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि ।
8.050.07c यु॒जा॒न इ॑न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥
8.050.08a र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति ।
8.050.08c येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभि॒ः स्व॑ः प॒रीय॑से ॥
8.050.09a ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः ।
8.050.09c यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥
8.050.10a यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि ।
8.050.10c यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥

No comments:

Post a Comment