1.001.01a अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
1.001.01c होता॑रं रत्न॒धात॑मम् ॥
1.001.02a अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
1.001.02c स दे॒वाँ एह व॑क्षति ॥
1.001.03a अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥
1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
1.001.04c स इद्दे॒वेषु॑ गच्छति ॥
1.001.05a अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
1.001.05c दे॒वो दे॒वेभि॒रा ग॑मत् ॥
1.001.06a यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
1.001.06c तवेत्तत्स॒त्यम॑ङ्गिरः ॥
1.001.07a उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
1.001.07c नमो॒ भर॑न्त॒ एम॑सि ॥
1.001.08a राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥
1.001.09a स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
1.001.09c सच॑स्वा नः स्व॒स्तये॑ ॥
1.002.01a वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
1.002.01c तेषां॑ पाहि श्रु॒धी हव॑म् ॥
1.002.02a वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑ः ।
1.002.02c सु॒तसो॑मा अह॒र्विद॑ः ॥
1.002.03a वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
1.002.03c उ॒रू॒ची सोम॑पीतये ॥
1.002.04a इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।
1.002.04c इन्द॑वो वामु॒शन्ति॒ हि ॥
1.002.05a वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
1.002.05c तावा या॑त॒मुप॑ द्र॒वत् ॥
1.002.06a वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
1.002.06c म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
1.002.07a मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
1.002.07c धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
1.002.08a ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
1.002.08c क्रतुं॑ बृ॒हन्त॑माशाथे ॥
1.002.09a क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
1.002.09c दक्षं॑ दधाते अ॒पस॑म् ॥
1.003.01a अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती ।
1.003.01c पुरु॑भुजा चन॒स्यत॑म् ॥
1.003.02a अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या ।
1.003.02c धिष्ण्या॒ वन॑तं॒ गिर॑ः ॥
1.003.03a दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः ।
1.003.03c आ या॑तं रुद्रवर्तनी ॥
1.003.04a इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑ः ।
1.003.04c अण्वी॑भि॒स्तना॑ पू॒तास॑ः ॥
1.003.05a इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
1.003.05c उप॒ ब्रह्मा॑णि वा॒घत॑ः ॥
1.003.06a इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
1.003.06c सु॒ते द॑धिष्व न॒श्चन॑ः ॥
1.003.07a ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।
1.003.07c दा॒श्वांसो॑ दा॒शुष॑ः सु॒तम् ॥
1.003.08a विश्वे॑ दे॒वासो॑ अ॒प्तुर॑ः सु॒तमा ग॑न्त॒ तूर्ण॑यः ।
1.003.08c उ॒स्रा इ॑व॒ स्वस॑राणि ॥
1.003.09a विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑ः ।
1.003.09c मेधं॑ जुषन्त॒ वह्न॑यः ॥
1.003.10a पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
1.003.10c य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
1.003.11a चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
1.003.11c य॒ज्ञं द॑धे॒ सर॑स्वती ॥
1.003.12a म॒हो अर्ण॒ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
1.003.12c धियो॒ विश्वा॒ वि रा॑जति ॥
1.004.01a सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
1.004.01c जु॒हू॒मसि॒ द्यवि॑द्यवि ॥
1.004.02a उप॑ न॒ः सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
1.004.02c गो॒दा इद्रे॒वतो॒ मद॑ः ॥
1.004.03a अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
1.004.03c मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
1.004.04a परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
1.004.04c यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
1.004.05a उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
1.004.05c दधा॑ना॒ इन्द्र॒ इद्दुव॑ः ॥
1.004.06a उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः ।
1.004.06c स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
1.004.07a एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
1.004.07c प॒त॒यन्म॑न्द॒यत्स॑खम् ॥
1.004.08a अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
1.004.08c प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
1.004.09a तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
1.004.09c धना॑नामिन्द्र सा॒तये॑ ॥
1.004.10a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
1.004.10c तस्मा॒ इन्द्रा॑य गायत ॥
1.005.01a आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
1.005.01c सखा॑य॒ः स्तोम॑वाहसः ॥
1.005.02a पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
1.005.02c इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
1.005.03a स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् ।
1.005.03c गम॒द्वाजे॑भि॒रा स न॑ः ॥
1.005.04a यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
1.005.04c तस्मा॒ इन्द्रा॑य गायत ॥
1.005.05a सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
1.005.05c सोमा॑सो॒ दध्या॑शिरः ॥
1.005.06a त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।
1.005.06c इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
1.005.07a आ त्वा॑ विशन्त्वा॒शव॒ः सोमा॑स इन्द्र गिर्वणः ।
1.005.07c शं ते॑ सन्तु॒ प्रचे॑तसे ॥
1.005.08a त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो ।
1.005.08c त्वां व॑र्धन्तु नो॒ गिर॑ः ॥
1.005.09a अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्र॑ः सह॒स्रिण॑म् ।
1.005.09c यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
1.005.10a मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः ।
1.005.10c ईशा॑नो यवया व॒धम् ॥
1.006.01a यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑ः ।
1.006.01c रोच॑न्ते रोच॒ना दि॒वि ॥
1.006.02a यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
1.006.02c शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
1.006.03a के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
1.006.03c समु॒षद्भि॑रजायथाः ॥
1.006.04a आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
1.006.04c दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥
1.006.05a वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः ।
1.006.05c अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
1.006.06a दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिर॑ः ।
1.006.06c म॒हाम॑नूषत श्रु॒तम् ॥
1.006.07a इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
1.006.07c म॒न्दू स॑मा॒नव॑र्चसा ॥
1.006.08a अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
1.006.08c ग॒णैरिन्द्र॑स्य॒ काम्यै॑ः ॥
1.006.09a अत॑ः परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
1.006.09c सम॑स्मिन्नृञ्जते॒ गिर॑ः ॥
1.006.10a इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
1.006.10c इन्द्रं॑ म॒हो वा॒ रज॑सः ॥
1.007.01a इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किण॑ः ।
1.007.01c इन्द्रं॒ वाणी॑रनूषत ॥
1.007.02a इन्द्र॒ इद्धर्यो॒ः सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
1.007.02c इन्द्रो॑ व॒ज्री हि॑र॒ण्यय॑ः ॥
1.007.03a इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
1.007.03c वि गोभि॒रद्रि॑मैरयत् ॥
1.007.04a इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
1.007.04c उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑ः ॥
1.007.05a इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
1.007.05c युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
1.007.06a स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
1.007.06c अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
1.007.07a तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिण॑ः ।
1.007.07c न वि॑न्धे अस्य सुष्टु॒तिम् ॥
1.007.08a वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
1.007.08c ईशा॑नो॒ अप्र॑तिष्कुतः ॥
1.007.09a य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
1.007.09c इन्द्र॒ः पञ्च॑ क्षिती॒नाम् ॥
1.007.10a इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
1.007.10c अ॒स्माक॑मस्तु॒ केव॑लः ॥
1.008.01a एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
1.008.01c वर्षि॑ष्ठमू॒तये॑ भर ॥
1.008.02a नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै ।
1.008.02c त्वोता॑सो॒ न्यर्व॑ता ॥
1.008.03a इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
1.008.03c जये॑म॒ सं यु॒धि स्पृध॑ः ॥
1.008.04a व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् ।
1.008.04c सा॒स॒ह्याम॑ पृतन्य॒तः ॥
1.008.05a म॒हाँ इन्द्र॑ः प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
1.008.05c द्यौर्न प्र॑थि॒ना शव॑ः ॥
1.008.06a स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
1.008.06c विप्रा॑सो वा धिया॒यव॑ः ॥
1.008.07a यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
1.008.07c उ॒र्वीरापो॒ न का॒कुद॑ः ॥
1.008.08a ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
1.008.08c प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
1.008.09a ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
1.008.09c स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
1.008.10a ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
1.008.10c इन्द्रा॑य॒ सोम॑पीतये ॥
1.009.01a इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
1.009.01c म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
1.009.02a एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।
1.009.02c चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
1.009.03a मत्स्वा॑ सुशिप्र म॒न्दिभि॒ः स्तोमे॑भिर्विश्वचर्षणे ।
1.009.03c सचै॒षु सव॑ने॒ष्वा ॥
1.009.04a असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद॑हासत ।
1.009.04c अजो॑षा वृष॒भं पति॑म् ॥
1.009.05a सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् ।
1.009.05c अस॒दित्ते॑ वि॒भु प्र॒भु ॥
1.009.06a अ॒स्मान्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।
1.009.06c तुवि॑द्युम्न॒ यश॑स्वतः ॥
1.009.07a सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।
1.009.07c वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
1.009.08a अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् ।
1.009.08c इन्द्र॒ ता र॒थिनी॒रिष॑ः ॥
1.009.09a वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् ।
1.009.09c होम॒ गन्ता॑रमू॒तये॑ ॥
1.009.10a सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।
1.009.10c इन्द्रा॑य शू॒षम॑र्चति ॥
1.010.01a गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किण॑ः ।
1.010.01c ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥
1.010.02a यत्सानो॒ः सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म् ।
1.010.02c तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥
1.010.03a यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।
1.010.03c अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ॥
1.010.04a एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।
1.010.04c ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥
1.010.05a उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।
1.010.05c श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥
1.010.06a तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ ।
1.010.06c स श॒क्र उ॒त न॑ः शक॒दिन्द्रो॒ वसु॒ दय॑मानः ॥
1.010.07a सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यश॑ः ।
1.010.07c गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥
1.010.08a न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः ।
1.010.08c जेष॒ः स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥
1.010.09a आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिर॑ः ।
1.010.09c इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ॥
1.010.10a वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म् ।
1.010.10c वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ॥
1.010.11a आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब ।
1.010.11c नव्य॒मायु॒ः प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म् ॥
1.010.12a परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः ।
1.010.12c वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥
1.011.01a इन्द्रं॒ विश्वा॑ अवीवृधन्समु॒द्रव्य॑चसं॒ गिर॑ः ।
1.011.01c र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
1.011.02a स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
1.011.02c त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥
1.011.03a पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तय॑ः ।
1.011.03c यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥
1.011.04a पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।
1.011.04c इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
1.011.05a त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।
1.011.05c त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
1.011.06a तवा॒हं शू॑र रा॒तिभि॒ः प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
1.011.06c उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रव॑ः ॥
1.011.07a मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
1.011.07c वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
1.011.08a इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
1.011.08c स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥
1.012.01a अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
1.012.01c अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
1.012.02a अ॒ग्निम॑ग्निं॒ हवी॑मभि॒ः सदा॑ हवन्त वि॒श्पति॑म् ।
1.012.02c ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥
1.012.03a अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे ।
1.012.03c असि॒ होता॑ न॒ ईड्य॑ः ॥
1.012.04a ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ।
1.012.04c दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
1.012.05a घृता॑हवन दीदिव॒ः प्रति॑ ष्म॒ रिष॑तो दह ।
1.012.05c अग्ने॒ त्वं र॑क्ष॒स्विन॑ः ॥
1.012.06a अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
1.012.06c ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥
1.012.07a क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे ।
1.012.07c दे॒वम॑मीव॒चात॑नम् ॥
1.012.08a यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ ।
1.012.08c तस्य॑ स्म प्रावि॒ता भ॑व ॥
1.012.09a यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति ।
1.012.09c तस्मै॑ पावक मृळय ॥
1.012.10a स न॑ः पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह ।
1.012.10c उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥
1.012.11a स न॒ः स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा ।
1.012.11c र॒यिं वी॒रव॑ती॒मिष॑म् ॥
1.012.12a अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः ।
1.012.12c इ॒मं स्तोमं॑ जुषस्व नः ॥
1.013.01a सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते ।
1.013.01c होत॑ः पावक॒ यक्षि॑ च ॥
1.013.02a मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे ।
1.013.02c अ॒द्या कृ॑णुहि वी॒तये॑ ॥
1.013.03a नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
1.013.03c मधु॑जिह्वं हवि॒ष्कृत॑म् ॥
1.013.04a अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह ।
1.013.04c असि॒ होता॒ मनु॑र्हितः ॥
1.013.05a स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः ।
1.013.05c यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥
1.013.06a वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चत॑ः ।
1.013.06c अ॒द्या नू॒नं च॒ यष्ट॑वे ॥
1.013.07a नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
1.013.07c इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
1.013.08a ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी ।
1.013.08c य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
1.013.09a इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑ः ।
1.013.09c ब॒र्हिः सी॑दन्त्व॒स्रिध॑ः ॥
1.013.10a इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये ।
1.013.10c अ॒स्माक॑मस्तु॒ केव॑लः ॥
1.013.11a अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः ।
1.013.11c प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥
1.013.12a स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे ।
1.013.12c तत्र॑ दे॒वाँ उप॑ ह्वये ॥
1.014.01a ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒ः सोम॑पीतये ।
1.014.01c दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥
1.014.02a आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑ः ।
1.014.02c दे॒वेभि॑रग्न॒ आ ग॑हि ॥
1.014.03a इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् ।
1.014.03c आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥
1.014.04a प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑ः ।
1.014.04c द्र॒प्सा मध्व॑श्चमू॒षद॑ः ॥
1.014.05a ईळ॑ते॒ त्वाम॑व॒स्यव॒ः कण्वा॑सो वृ॒क्तब॑र्हिषः ।
1.014.05c ह॒विष्म॑न्तो अरं॒कृत॑ः ॥
1.014.06a घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः ।
1.014.06c आ दे॒वान्सोम॑पीतये ॥
1.014.07a तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि ।
1.014.07c मध्व॑ः सुजिह्व पायय ॥
1.014.08a ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑ ।
1.014.08c मधो॑रग्ने॒ वष॑ट्कृति ॥
1.014.09a आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑ः ।
1.014.09c विप्रो॒ होते॒ह व॑क्षति ॥
1.014.10a विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
1.014.10c पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥
1.014.11a त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।
1.014.11c सेमं नो॑ अध्व॒रं य॑ज ॥
1.014.12a यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑ः ।
1.014.12c ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥
1.015.01a इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विश॒न्त्विन्द॑वः ।
1.015.01c म॒त्स॒रास॒स्तदो॑कसः ॥
1.015.02a मरु॑त॒ः पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन ।
1.015.02c यू॒यं हि ष्ठा सु॑दानवः ॥
1.015.03a अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒ः पिब॑ ऋ॒तुना॑ ।
1.015.03c त्वं हि र॑त्न॒धा असि॑ ॥
1.015.04a अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु ।
1.015.04c परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥
1.015.05a ब्राह्म॑णादिन्द्र॒ राध॑स॒ः पिबा॒ सोम॑मृ॒तूँरनु॑ ।
1.015.05c तवेद्धि स॒ख्यमस्तृ॑तम् ॥
1.015.06a यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् ।
1.015.06c ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥
1.015.07a द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे ।
1.015.07c य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
1.015.08a द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे ।
1.015.08c दे॒वेषु॒ ता व॑नामहे ॥
1.015.09a द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत ।
1.015.09c ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥
1.015.10a यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे ।
1.015.10c अध॑ स्मा नो द॒दिर्भ॑व ॥
1.015.11a अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता ।
1.015.11c ऋ॒तुना॑ यज्ञवाहसा ॥
1.015.12a गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि ।
1.015.12c दे॒वान्दे॑वय॒ते य॑ज ॥
1.016.01a आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये ।
1.016.01c इन्द्र॑ त्वा॒ सूर॑चक्षसः ॥
1.016.02a इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः ।
1.016.02c इन्द्रं॑ सु॒खत॑मे॒ रथे॑ ॥
1.016.03a इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
1.016.03c इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
1.016.04a उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभि॑ः ।
1.016.04c सु॒ते हि त्वा॒ हवा॑महे ॥
1.016.05a सेमं न॒ः स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् ।
1.016.05c गौ॒रो न तृ॑षि॒तः पि॑ब ॥
1.016.06a इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ ।
1.016.06c ताँ इ॑न्द्र॒ सह॑से पिब ॥
1.016.07a अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः ।
1.016.07c अथा॒ सोमं॑ सु॒तं पि॑ब ॥
1.016.08a विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति ।
1.016.08c वृ॒त्र॒हा सोम॑पीतये ॥
1.016.09a सेमं न॒ः काम॒मा पृ॑ण॒ गोभि॒रश्वै॑ः शतक्रतो ।
1.016.09c स्तवा॑म त्वा स्वा॒ध्य॑ः ॥
1.017.01a इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे ।
1.017.01c ता नो॑ मृळात ई॒दृशे॑ ॥
1.017.02a गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
1.017.02c ध॒र्तारा॑ चर्षणी॒नाम् ॥
1.017.03a अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ ।
1.017.03c ता वां॒ नेदि॑ष्ठमीमहे ॥
1.017.04a यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् ।
1.017.04c भू॒याम॑ वाज॒दाव्ना॑म् ॥
1.017.05a इन्द्र॑ः सहस्र॒दाव्नां॒ वरु॑ण॒ः शंस्या॑नाम् ।
1.017.05c क्रतु॑र्भवत्यु॒क्थ्य॑ः ॥
1.017.06a तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि ।
1.017.06c स्यादु॒त प्र॒रेच॑नम् ॥
1.017.07a इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से ।
1.017.07c अ॒स्मान्सु जि॒ग्युष॑स्कृतम् ॥
1.017.08a इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा ।
1.017.08c अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥
1.017.09a प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे ।
1.017.09c यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥
1.018.01a सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते ।
1.018.01c क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥
1.018.02a यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
1.018.02c स न॑ः सिषक्तु॒ यस्तु॒रः ॥
1.018.03a मा न॒ः शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।
1.018.03c रक्षा॑ णो ब्रह्मणस्पते ॥
1.018.04a स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑ः ।
1.018.04c सोमो॑ हि॒नोति॒ मर्त्य॑म् ॥
1.018.05a त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् ।
1.018.05c दक्षि॑णा पा॒त्वंह॑सः ॥
1.018.06a सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
1.018.06c स॒निं मे॒धाम॑यासिषम् ॥
1.018.07a यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न ।
1.018.07c स धी॒नां योग॑मिन्वति ॥
1.018.08a आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं॑ कृणोत्यध्व॒रम् ।
1.018.08c होत्रा॑ दे॒वेषु॑ गच्छति ॥
1.018.09a नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् ।
1.018.09c दि॒वो न सद्म॑मखसम् ॥
1.019.01a प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे ।
1.019.01c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.02a न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः ।
1.019.02c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.03a ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुह॑ः ।
1.019.03c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.04a य उ॒ग्रा अ॒र्कमा॑नृ॒चुरना॑धृष्टास॒ ओज॑सा ।
1.019.04c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.05a ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः ।
1.019.05c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.06a ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते ।
1.019.06c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.07a य ई॒ङ्खय॑न्ति॒ पर्व॑तान्ति॒रः स॑मु॒द्रम॑र्ण॒वम् ।
1.019.07c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.08a आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा ।
1.019.08c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.09a अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ ।
1.019.09c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.020.01a अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
1.020.01c अका॑रि रत्न॒धात॑मः ॥
1.020.02a य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
1.020.02c शमी॑भिर्य॒ज्ञमा॑शत ॥
1.020.03a तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
1.020.03c तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
1.020.04a युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।
1.020.04c ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
1.020.05a सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
1.020.05c आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
1.020.06a उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
1.020.06c अक॑र्त च॒तुर॒ः पुन॑ः ॥
1.020.07a ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
1.020.07c एक॑मेकं सुश॒स्तिभि॑ः ॥
1.020.08a अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
1.020.08c भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
1.021.01a इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि ।
1.021.01c ता सोमं॑ सोम॒पात॑मा ॥
1.021.02a ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः ।
1.021.02c ता गा॑य॒त्रेषु॑ गायत ॥
1.021.03a ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे ।
1.021.03c सो॒म॒पा सोम॑पीतये ॥
1.021.04a उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् ।
1.021.04c इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥
1.021.05a ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् ।
1.021.05c अप्र॑जाः सन्त्व॒त्रिण॑ः ॥
1.021.06a तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे ।
1.021.06c इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥
1.022.01a प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
1.022.01c अ॒स्य सोम॑स्य पी॒तये॑ ॥
1.022.02a या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
1.022.02c अ॒श्विना॒ ता ह॑वामहे ॥
1.022.03a या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
1.022.03c तया॑ य॒ज्ञं मि॑मिक्षतम् ॥
1.022.04a न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
1.022.04c अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥
1.022.05a हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
1.022.05c स चेत्ता॑ दे॒वता॑ प॒दम् ॥
1.022.06a अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
1.022.06c तस्य॑ व्र॒तान्यु॑श्मसि ॥
1.022.07a वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
1.022.07c स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥
1.022.08a सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑ः ।
1.022.08c दाता॒ राधां॑सि शुम्भति ॥
1.022.09a अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
1.022.09c त्वष्टा॑रं॒ सोम॑पीतये ॥
1.022.10a आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् ।
1.022.10c वरू॑त्रीं धि॒षणां॑ वह ॥
1.022.11a अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑ः ।
1.022.11c अच्छि॑न्नपत्राः सचन्ताम् ॥
1.022.12a इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
1.022.12c अ॒ग्नायीं॒ सोम॑पीतये ॥
1.022.13a म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
1.022.13c पि॒पृ॒तां नो॒ भरी॑मभिः ॥
1.022.14a तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑ः ।
1.022.14c ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥
1.022.15a स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
1.022.15c यच्छा॑ न॒ः शर्म॑ स॒प्रथ॑ः ॥
1.022.16a अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
1.022.16c पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥
1.022.17a इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
1.022.17c समू॑ळ्हमस्य पांसु॒रे ॥
1.022.18a त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
1.022.18c अतो॒ धर्मा॑णि धा॒रय॑न् ॥
1.022.19a विष्णो॒ः कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
1.022.19c इन्द्र॑स्य॒ युज्य॒ः सखा॑ ॥
1.022.20a तद्विष्णो॑ः पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑ः ।
1.022.20c दि॒वी॑व॒ चक्षु॒रात॑तम् ॥
1.022.21a तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
1.022.21c विष्णो॒र्यत्प॑र॒मं प॒दम् ॥
1.023.01a ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
1.023.01c वायो॒ तान्प्रस्थि॑तान्पिब ॥
1.023.02a उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
1.023.02c अ॒स्य सोम॑स्य पी॒तये॑ ॥
1.023.03a इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ ।
1.023.03c स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥
1.023.04a मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
1.023.04c ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥
1.023.05a ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
1.023.05c ता मि॒त्रावरु॑णा हुवे ॥
1.023.06a वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः ।
1.023.06c कर॑तां नः सु॒राध॑सः ॥
1.023.07a म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।
1.023.07c स॒जूर्ग॒णेन॑ तृम्पतु ॥
1.023.08a इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।
1.023.08c विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥
1.023.09a ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।
1.023.09c मा नो॑ दु॒ःशंस॑ ईशत ॥
1.023.10a विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒ः सोम॑पीतये ।
1.023.10c उ॒ग्रा हि पृश्नि॑मातरः ॥
1.023.11a जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
1.023.11c यच्छुभं॑ या॒थना॑ नरः ॥
1.023.12a ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः ।
1.023.12c म॒रुतो॑ मृळयन्तु नः ॥
1.023.13a आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
1.023.13c आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥
1.023.14a पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् ।
1.023.14c अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥
1.023.15a उ॒तो स मह्य॒मिन्दु॑भि॒ः षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
1.023.15c गोभि॒र्यवं॒ न च॑र्कृषत् ॥
1.023.16a अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
1.023.16c पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः ॥
1.023.17a अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑ः स॒ह ।
1.023.17c ता नो॑ हिन्वन्त्वध्व॒रम् ॥
1.023.18a अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिब॑न्ति नः ।
1.023.18c सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः ॥
1.023.19a अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
1.023.19c देवा॒ भव॑त वा॒जिन॑ः ॥
1.023.20a अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
1.023.20c अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
1.023.21a आप॑ः पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
1.023.21c ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
1.023.22a इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
1.023.22c यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
1.023.23a आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
1.023.23c पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
1.023.24a सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
1.023.24c वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
1.024.01a कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
1.024.01c को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
1.024.02a अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
1.024.02c स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
1.024.03a अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।
1.024.03c सदा॑वन्भा॒गमी॑महे ॥
1.024.04a यश्चि॒द्धि त॑ इ॒त्था भग॑ः शशमा॒नः पु॒रा नि॒दः ।
1.024.04c अ॒द्वे॒षो हस्त॑योर्द॒धे ॥
1.024.05a भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
1.024.05c मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
1.024.06a न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।
1.024.06c नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥
1.024.07a अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
1.024.07c नी॒चीना॑ः स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तव॑ः स्युः ॥
1.024.08a उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
1.024.08c अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥
1.024.09a श॒तं ते॑ राजन्भि॒षज॑ः स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।
1.024.09c बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देन॒ः प्र मु॑मुग्ध्य॒स्मत् ॥
1.024.10a अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
1.024.10c अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
1.024.11a तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑ः ।
1.024.11c अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒ः प्र मो॑षीः ॥
1.024.12a तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
1.024.12c शुन॒ःशेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
1.024.13a शुन॒ःशेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
1.024.13c अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
1.024.14a अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑ः ।
1.024.14c क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥
1.024.15a उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
1.024.15c अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
1.025.01a यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् ।
1.025.01c मि॒नी॒मसि॒ द्यवि॑द्यवि ॥
1.025.02a मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः ।
1.025.02c मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥
1.025.03a वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् ।
1.025.03c गी॒र्भिर्व॑रुण सीमहि ॥
1.025.04a परा॒ हि मे॒ विम॑न्यव॒ः पत॑न्ति॒ वस्य॑इष्टये ।
1.025.04c वयो॒ न व॑स॒तीरुप॑ ॥
1.025.05a क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
1.025.05c मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥
1.025.06a तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः ।
1.025.06c धृ॒तव्र॑ताय दा॒शुषे॑ ॥
1.025.07a वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् ।
1.025.07c वेद॑ ना॒वः स॑मु॒द्रिय॑ः ॥
1.025.08a वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
1.025.08c वेदा॒ य उ॑प॒जाय॑ते ॥
1.025.09a वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः ।
1.025.09c वेदा॒ ये अ॒ध्यास॑ते ॥
1.025.10a नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
1.025.10c साम्रा॑ज्याय सु॒क्रतु॑ः ॥
1.025.11a अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
1.025.11c कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
1.025.12a स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
1.025.12c प्र ण॒ आयूं॑षि तारिषत् ॥
1.025.13a बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म् ।
1.025.13c परि॒ स्पशो॒ नि षे॑दिरे ॥
1.025.14a न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् ।
1.025.14c न दे॒वम॒भिमा॑तयः ॥
1.025.15a उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
1.025.15c अ॒स्माक॑मु॒दरे॒ष्वा ॥
1.025.16a परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ ।
1.025.16c इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥
1.025.17a सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् ।
1.025.17c होते॑व॒ क्षद॑से प्रि॒यम् ॥
1.025.18a दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ ।
1.025.18c ए॒ता जु॑षत मे॒ गिर॑ः ॥
1.025.19a इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।
1.025.19c त्वाम॑व॒स्युरा च॑के ॥
1.025.20a त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि ।
1.025.20c स याम॑नि॒ प्रति॑ श्रुधि ॥
1.025.21a उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त ।
1.025.21c अवा॑ध॒मानि॑ जी॒वसे॑ ॥
1.026.01a वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते ।
1.026.01c सेमं नो॑ अध्व॒रं य॑ज ॥
1.026.02a नि नो॒ होता॒ वरे॑ण्य॒ः सदा॑ यविष्ठ॒ मन्म॑भिः ।
1.026.02c अग्ने॑ दि॒वित्म॑ता॒ वच॑ः ॥
1.026.03a आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ ।
1.026.03c सखा॒ सख्ये॒ वरे॑ण्यः ॥
1.026.04a आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
1.026.04c सीद॑न्तु॒ मनु॑षो यथा ॥
1.026.05a पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च ।
1.026.05c इ॒मा उ॒ षु श्रु॑धी॒ गिर॑ः ॥
1.026.06a यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे ।
1.026.06c त्वे इद्धू॑यते ह॒विः ॥
1.026.07a प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः ।
1.026.07c प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥
1.026.08a स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः ।
1.026.08c स्व॒ग्नयो॑ मनामहे ॥
1.026.09a अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् ।
1.026.09c मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥
1.026.10a विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑ः ।
1.026.10c चनो॑ धाः सहसो यहो ॥
1.027.01a अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः ।
1.027.01c स॒म्राज॑न्तमध्व॒राणा॑म् ॥
1.027.02a स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेव॑ः ।
1.027.02c मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥
1.027.03a स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
1.027.03c पा॒हि सद॒मिद्वि॒श्वायु॑ः ॥
1.027.04a इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
1.027.04c अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
1.027.05a आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
1.027.05c शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥
1.027.06a वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
1.027.06c स॒द्यो दा॒शुषे॑ क्षरसि ॥
1.027.07a यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
1.027.07c स यन्ता॒ शश्व॑ती॒रिष॑ः ॥
1.027.08a नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
1.027.08c वाजो॑ अस्ति श्र॒वाय्य॑ः ॥
1.027.09a स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
1.027.09c विप्रे॑भिरस्तु॒ सनि॑ता ॥
1.027.10a जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य ।
1.027.10c स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥
1.027.11a स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
1.027.11c धि॒ये वाजा॑य हिन्वतु ॥
1.027.12a स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑ः के॒तुः शृ॑णोतु नः ।
1.027.12c उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
1.027.13a नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑ः ।
1.027.13c यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒ः शंस॒मा वृ॑क्षि देवाः ॥
1.028.01a यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे ।
1.028.01c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.02a यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता ।
1.028.02c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.03a यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
1.028.03c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.04a यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व ।
1.028.04c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.05a यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ ।
1.028.05c इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥
1.028.06a उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
1.028.06c अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
1.028.07a आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः ।
1.028.07c हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥
1.028.08a ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑ः सो॒तृभि॑ः ।
1.028.08c इन्द्रा॑य॒ मधु॑मत्सुतम् ॥
1.028.09a उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
1.028.09c नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
1.029.01a यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
1.029.01c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.02a शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
1.029.02c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.03a नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
1.029.03c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.04a स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तय॑ः ।
1.029.04c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.05a समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
1.029.05c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.06a पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
1.029.06c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.07a सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
1.029.07c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.030.01a आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम् ।
1.030.01c मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥
1.030.02a श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् ।
1.030.02c एदु॑ नि॒म्नं न री॑यते ॥
1.030.03a सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।
1.030.03c स॒मु॒द्रो न व्यचो॑ द॒धे ॥
1.030.04a अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् ।
1.030.04c वच॒स्तच्चि॑न्न ओहसे ॥
1.030.05a स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
1.030.05c विभू॑तिरस्तु सू॒नृता॑ ॥
1.030.06a ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।
1.030.06c सम॒न्येषु॑ ब्रवावहै ॥
1.030.07a योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
1.030.07c सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
1.030.08a आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑ः ।
1.030.08c वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
1.030.09a अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
1.030.09c यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
1.030.10a तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।
1.030.10c सखे॑ वसो जरि॒तृभ्य॑ः ॥
1.030.11a अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् ।
1.030.11c सखे॑ वज्रि॒न्सखी॑नाम् ॥
1.030.12a तथा॒ तद॑स्तु सोमपा॒ः सखे॑ वज्रि॒न्तथा॑ कृणु ।
1.030.12c यथा॑ त उ॒श्मसी॒ष्टये॑ ॥
1.030.13a रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।
1.030.13c क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
1.030.14a आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
1.030.14c ऋ॒णोरक्षं॒ न च॒क्र्यो॑ः ॥
1.030.15a आ यद्दुव॑ः शतक्रत॒वा कामं॑ जरितॄ॒णाम् ।
1.030.15c ऋ॒णोरक्षं॒ न शची॑भिः ॥
1.030.16a शश्व॒दिन्द्र॒ः पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒ः शाश्व॑सद्भि॒र्धना॑नि ।
1.030.16c स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्स न॑ः सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
1.030.17a आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया ।
1.030.17c गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
1.030.18a स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।
1.030.18c स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥
1.030.19a न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः ।
1.030.19c परि॒ द्याम॒न्यदी॑यते ॥
1.030.20a कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।
1.030.20c कं न॑क्षसे विभावरि ॥
1.030.21a व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् ।
1.030.21c अश्वे॒ न चि॑त्रे अरुषि ॥
1.030.22a त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः ।
1.030.22c अ॒स्मे र॒यिं नि धा॑रय ॥
1.031.01a त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
1.031.01c तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥
1.031.02a त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् ।
1.031.02c वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥
1.031.03a त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते ।
1.031.03c अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥
1.031.04a त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः ।
1.031.04c श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुन॑ः ॥
1.031.05a त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑ः ।
1.031.05c य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥
1.031.06a त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे ।
1.031.06c यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥
1.031.07a त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे ।
1.031.07c यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मय॑ः कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥
1.031.08a त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः ।
1.031.08c ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
1.031.09a त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः ।
1.031.09c त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥
1.031.10a त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम् ।
1.031.10c सं त्वा॒ राय॑ः श॒तिन॒ः सं स॑ह॒स्रिण॑ः सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य ॥
1.031.11a त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति॑म् ।
1.031.11c इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥
1.031.12a त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य ।
1.031.12c त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
1.031.13a त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे ।
1.031.13c यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ॥
1.031.14a त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्ण॑ः पर॒मं व॒नोषि॒ तत् ।
1.031.14c आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥
1.031.15a त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वत॑ः ।
1.031.15c स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥
1.031.16a इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् ।
1.031.16c आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥
1.031.17a म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे ।
1.031.17c अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ॥
1.031.18a ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ ।
1.031.18c उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्सं न॑ः सृज सुम॒त्या वाज॑वत्या ॥
1.032.01a इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।
1.032.01c अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥
1.032.02a अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष ।
1.032.02c वा॒श्रा इ॑व धे॒नव॒ः स्यन्द॑माना॒ अञ्ज॑ः समु॒द्रमव॑ जग्मु॒राप॑ः ॥
1.032.03a वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
1.032.03c आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
1.032.04a यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒ः प्रोत मा॒याः ।
1.032.04c आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
1.032.05a अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
1.032.05c स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहि॑ः शयत उप॒पृक्पृ॑थि॒व्याः ॥
1.032.06a अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् ।
1.032.06c नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जाना॑ः पिपिष॒ इन्द्र॑शत्रुः ॥
1.032.07a अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान ।
1.032.07c वृष्णो॒ वध्रि॑ः प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥
1.032.08a न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्याप॑ः ।
1.032.08c याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑ः पत्सुत॒ःशीर्ब॑भूव ॥
1.032.09a नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार ।
1.032.09c उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानु॑ः शये स॒हव॑त्सा॒ न धे॒नुः ॥
1.032.10a अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् ।
1.032.10c वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥
1.032.11a दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आप॑ः प॒णिने॑व॒ गाव॑ः ।
1.032.11c अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
1.032.12a अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एक॑ः ।
1.032.12c अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृज॒ः सर्त॑वे स॒प्त सिन्धू॑न् ॥
1.032.13a नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
1.032.13c इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
1.032.14a अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
1.032.14c नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
1.032.15a इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः ।
1.032.15c सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥
1.033.01a एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति ।
1.033.01c अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
1.033.02a उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि ।
1.033.02c इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
1.033.03a नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ ।
1.033.03c चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥
1.033.04a वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र ।
1.033.04c धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
1.033.05a परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒ः स्पर्ध॑मानाः ।
1.033.05c प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
1.033.06a अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः ।
1.033.06c वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥
1.033.07a त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे ।
1.033.07c अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
1.033.08a च॒क्रा॒णास॑ः परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः ।
1.033.08c न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥
1.033.09a परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वत॑ः सीम् ।
1.033.09c अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥
1.033.10a न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् ।
1.033.10c युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥
1.033.11a अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् ।
1.033.11c स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥
1.033.12a न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्र॑ः ।
1.033.12c याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
1.033.13a अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् ।
1.033.13c सं वज्रे॑णासृजद्वृ॒त्रमिन्द्र॒ः प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥
1.033.14a आव॒ः कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
1.033.14c श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
1.033.15a आव॒ः शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् ।
1.033.15c ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
1.034.01a त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना ।
1.034.01c यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑ः ॥
1.034.02a त्रय॑ः प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः ।
1.034.02c त्रय॑ः स्क॒म्भास॑ः स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥
1.034.03a स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् ।
1.034.03c त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥
1.034.04a त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् ।
1.034.04c त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥
1.034.05a त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धिय॑ः ।
1.034.05c त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥
1.034.06a त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः ।
1.034.06c ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
1.034.07a त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् ।
1.034.07c ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒ः स्वस॑राणि गच्छतम् ॥
1.034.08a त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् ।
1.034.08c ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥
1.034.09a क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः ।
1.034.09c क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥
1.034.10a आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्व॑ः पिबतं मधु॒पेभि॑रा॒सभि॑ः ।
1.034.10c यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥
1.034.11a आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
1.034.11c प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
1.034.12a आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् ।
1.034.12c शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
1.035.01a ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
1.035.01c ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥
1.035.02a आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
1.035.02c हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
1.035.03a याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
1.035.03c आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
1.035.04a अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
1.035.04c आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
1.035.05a वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
1.035.05c शश्व॒द्विश॑ः सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
1.035.06a ति॒स्रो द्याव॑ः सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
1.035.06c आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
1.035.07a वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
1.035.07c क्वे॒३॒॑दानीं॒ सूर्य॒ः कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
1.035.08a अ॒ष्टौ व्य॑ख्यत्क॒कुभ॑ः पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
1.035.08c हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
1.035.09a हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
1.035.09c अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
1.035.10a हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
1.035.10c अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
1.035.11a ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।
1.035.11c तेभि॑र्नो अ॒द्य प॒थिभि॑ः सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
1.036.01a प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म् ।
1.036.01c अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥
1.036.02a जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते ।
1.036.02c स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥
1.036.03a प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
1.036.03c म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्पृ॑शन्ति भा॒नव॑ः ॥
1.036.04a दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते ।
1.036.04c विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्य॑ः ॥
1.036.05a म॒न्द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि ।
1.036.05c त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥
1.036.06a त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।
1.036.06c स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्सु॒वीर्या॑ ॥
1.036.07a तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
1.036.07c होत्रा॑भिर॒ग्निं मनु॑ष॒ः समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिध॑ः ॥
1.036.08a घ्नन्तो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे ।
1.036.08c भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑त॒ः क्रन्द॒दश्वो॒ गवि॑ष्टिषु ॥
1.036.09a सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
1.036.09c वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥
1.036.10a यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन ।
1.036.10c यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥
1.036.11a यम॒ग्निं मेध्या॑तिथि॒ः कण्व॑ ई॒ध ऋ॒तादधि॑ ।
1.036.11c तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥
1.036.12a रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् ।
1.036.12c त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥
1.036.13a ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
1.036.13c ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥
1.036.14a ऊ॒र्ध्वो न॑ः पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह ।
1.036.14c कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुव॑ः ॥
1.036.15a पा॒हि नो॑ अग्ने र॒क्षस॑ः पा॒हि धू॒र्तेररा॑व्णः ।
1.036.15c पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥
1.036.16a घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् ।
1.036.16c यो मर्त्य॒ः शिशी॑ते॒ अत्य॒क्तुभि॒र्मा न॒ः स रि॒पुरी॑शत ॥
1.036.17a अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् ।
1.036.17c अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥
1.036.18a अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे ।
1.036.18c अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सह॑ः ॥
1.036.19a नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते ।
1.036.19c दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टय॑ः ॥
1.036.20a त्वे॒षासो॑ अ॒ग्नेरम॑वन्तो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये ।
1.036.20c र॒क्ष॒स्विन॒ः सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥
1.037.01a क्री॒ळं व॒ः शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।
1.037.01c कण्वा॑ अ॒भि प्र गा॑यत ॥
1.037.02a ये पृष॑तीभिरृ॒ष्टिभि॑ः सा॒कं वाशी॑भिर॒ञ्जिभि॑ः ।
1.037.02c अजा॑यन्त॒ स्वभा॑नवः ॥
1.037.03a इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् ।
1.037.03c नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥
1.037.04a प्र व॒ः शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।
1.037.04c दे॒वत्तं॒ ब्रह्म॑ गायत ॥
1.037.05a प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् ।
1.037.05c जम्भे॒ रस॑स्य वावृधे ॥
1.037.06a को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
1.037.06c यत्सी॒मन्तं॒ न धू॑नु॒थ ॥
1.037.07a नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ ।
1.037.07c जिही॑त॒ पर्व॑तो गि॒रिः ॥
1.037.08a येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पति॑ः ।
1.037.08c भि॒या यामे॑षु॒ रेज॑ते ॥
1.037.09a स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।
1.037.09c यत्सी॒मनु॑ द्वि॒ता शव॑ः ॥
1.037.10a उदु॒ त्ये सू॒नवो॒ गिर॒ः काष्ठा॒ अज्मे॑ष्वत्नत ।
1.037.10c वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥
1.037.11a त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् ।
1.037.11c प्र च्या॑वयन्ति॒ याम॑भिः ॥
1.037.12a मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।
1.037.12c गि॒रीँर॑चुच्यवीतन ॥
1.037.13a यद्ध॒ यान्ति॑ म॒रुत॒ः सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।
1.037.13c शृ॒णोति॒ कश्चि॑देषाम् ॥
1.037.14a प्र या॑त॒ शीभ॑मा॒शुभि॒ः सन्ति॒ कण्वे॑षु वो॒ दुव॑ः ।
1.037.14c तत्रो॒ षु मा॑दयाध्वै ॥
1.037.15a अस्ति॒ हि ष्मा॒ मदा॑य व॒ः स्मसि॑ ष्मा व॒यमे॑षाम् ।
1.037.15c विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥
1.038.01a कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
1.038.01c द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
1.038.02a क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः ।
1.038.02c क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥
1.038.03a क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑त॒ः क्व॑ सुवि॒ता ।
1.038.03c क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
1.038.04a यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑स॒ः स्यात॑न ।
1.038.04c स्तो॒ता वो॑ अ॒मृत॑ः स्यात् ॥
1.038.05a मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
1.038.05c प॒था य॒मस्य॑ गा॒दुप॑ ॥
1.038.06a मो षु ण॒ः परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत् ।
1.038.06c प॒दी॒ष्ट तृष्ण॑या स॒ह ॥
1.038.07a स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः ।
1.038.07c मिहं॑ कृण्वन्त्यवा॒ताम् ॥
1.038.08a वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
1.038.08c यदे॑षां वृ॒ष्टिरस॑र्जि ॥
1.038.09a दिवा॑ चि॒त्तम॑ः कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
1.038.09c यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥
1.038.10a अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् ।
1.038.10c अरे॑जन्त॒ प्र मानु॑षाः ॥
1.038.11a मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
1.038.11c या॒तेमखि॑द्रयामभिः ॥
1.038.12a स्थि॒रा व॑ः सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् ।
1.038.12c सुसं॑स्कृता अ॒भीश॑वः ॥
1.038.13a अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् ।
1.038.13c अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥
1.038.14a मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
1.038.14c गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥
1.038.15a वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् ।
1.038.15c अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
1.039.01a प्र यदि॒त्था प॑रा॒वत॑ः शो॒चिर्न मान॒मस्य॑थ ।
1.039.01c कस्य॒ क्रत्वा॑ मरुत॒ः कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥
1.039.02a स्थि॒रा व॑ः स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ ।
1.039.02c यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिन॑ः ॥
1.039.03a परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु ।
1.039.03c वि या॑थन व॒निन॑ः पृथि॒व्या व्याशा॒ः पर्व॑तानाम् ॥
1.039.04a न॒हि व॒ः शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः ।
1.039.04c यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
1.039.05a प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न् ।
1.039.05c प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑स॒ः सर्व॑या वि॒शा ॥
1.039.06a उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः ।
1.039.06c आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥
1.039.07a आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे ।
1.039.07c गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥
1.039.08a यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते ।
1.039.08c वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभि॑ः ॥
1.039.09a असा॑मि॒ हि प्र॑यज्यव॒ः कण्वं॑ द॒द प्र॑चेतसः ।
1.039.09c असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युत॑ः ॥
1.039.10a असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतय॒ः शव॑ः ।
1.039.10c ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥
1.040.01a उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।
1.040.01c उप॒ प्र य॑न्तु म॒रुत॑ः सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥
1.040.02a त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते ।
1.040.02c सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥
1.040.03a प्रैतु॒ ब्रह्म॑ण॒स्पति॒ः प्र दे॒व्ये॑तु सू॒नृता॑ ।
1.040.03c अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥
1.040.04a यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑ः ।
1.040.04c तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥
1.040.05a प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् ।
1.040.05c यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥
1.040.06a तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् ।
1.040.06c इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥
1.040.07a को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् ।
1.040.07c प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥
1.040.08a उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।
1.040.08c नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिण॑ः ॥
1.041.01a यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
1.041.01c नू चि॒त्स द॑भ्यते॒ जन॑ः ॥
1.041.02a यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
1.041.02c अरि॑ष्ट॒ः सर्व॑ एधते ॥
1.041.03a वि दु॒र्गा वि द्विष॑ः पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
1.041.03c नय॑न्ति दुरि॒ता ति॒रः ॥
1.041.04a सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
1.041.04c नात्रा॑वखा॒दो अ॑स्ति वः ॥
1.041.05a यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
1.041.05c प्र व॒ः स धी॒तये॑ नशत् ॥
1.041.06a स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
1.041.06c अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
1.041.07a क॒था रा॑धाम सखाय॒ः स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
1.041.07c महि॒ प्सरो॒ वरु॑णस्य ॥
1.041.08a मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
1.041.08c सु॒म्नैरिद्व॒ आ वि॑वासे ॥
1.041.09a च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
1.041.09c न दु॑रु॒क्ताय॑ स्पृहयेत् ॥
1.042.01a सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् ।
1.042.01c सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥
1.042.02a यो न॑ः पूषन्न॒घो वृको॑ दु॒ःशेव॑ आ॒दिदे॑शति ।
1.042.02c अप॑ स्म॒ तं प॒थो ज॑हि ॥
1.042.03a अप॒ त्यं प॑रिप॒न्थिनं॑ मुषी॒वाणं॑ हुर॒श्चित॑म् ।
1.042.03c दू॒रमधि॑ स्रु॒तेर॑ज ॥
1.042.04a त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् ।
1.042.04c प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥
1.042.05a आ तत्ते॑ दस्र मन्तुम॒ः पूष॒न्नवो॑ वृणीमहे ।
1.042.05c येन॑ पि॒तॄनचो॑दयः ॥
1.042.06a अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम ।
1.042.06c धना॑नि सु॒षणा॑ कृधि ॥
1.042.07a अति॑ नः स॒श्चतो॑ नय सु॒गा न॑ः सु॒पथा॑ कृणु ।
1.042.07c पूष॑न्नि॒ह क्रतुं॑ विदः ॥
1.042.08a अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने ।
1.042.08c पूष॑न्नि॒ह क्रतुं॑ विदः ॥
1.042.09a श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दर॑म् ।
1.042.09c पूष॑न्नि॒ह क्रतुं॑ विदः ॥
1.042.10a न पू॒षणं॑ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि ।
1.042.10c वसू॑नि द॒स्ममी॑महे ॥
1.043.01a कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
1.043.01c वो॒चेम॒ शंत॑मं हृ॒दे ॥
1.043.02a यथा॑ नो॒ अदि॑ति॒ः कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
1.043.02c यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥
1.043.03a यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
1.043.03c यथा॒ विश्वे॑ स॒जोष॑सः ॥
1.043.04a गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
1.043.04c तच्छं॒योः सु॒म्नमी॑महे ॥
1.043.05a यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
1.043.05c श्रेष्ठो॑ दे॒वानां॒ वसु॑ः ॥
1.043.06a शं न॑ः कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
1.043.06c नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
1.043.07a अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
1.043.07c महि॒ श्रव॑स्तुविनृ॒म्णम् ॥
1.043.08a मा न॑ः सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।
1.043.08c आ न॑ इन्दो॒ वाजे॑ भज ॥
1.043.09a यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
1.043.09c मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥
1.044.01a अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य ।
1.044.01c आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुध॑ः ॥
1.044.02a जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् ।
1.044.02c स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
1.044.03a अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् ।
1.044.03c धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥
1.044.04a श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ ।
1.044.04c दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥
1.044.05a स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन ।
1.044.05c अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ॥
1.044.06a सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्व॒ः स्वा॑हुतः ।
1.044.06c प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥
1.044.07a होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ ।
1.044.07c स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥
1.044.08a स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षप॑ः ।
1.044.08c कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥
1.044.09a पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ ।
1.044.09c उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृश॑ः ॥
1.044.10a अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः ।
1.044.10c असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥
1.044.11a नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विज॑म् ।
1.044.11c म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यम् ॥
1.044.12a यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य॑म् ।
1.044.12c सिन्धो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जन्ते अ॒र्चय॑ः ॥
1.044.13a श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
1.044.13c आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥
1.044.14a शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुत॑ः सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑ः ।
1.044.14c पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥
1.045.01a त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
1.045.01c यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥
1.045.02a श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
1.045.02c तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
1.045.03a प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।
1.045.03c अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥
1.045.04a महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
1.045.04c राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥
1.045.05a घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिर॑ः ।
1.045.05c याभि॒ः कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥
1.045.06a त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑ः ।
1.045.06c शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
1.045.07a नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् ।
1.045.07c श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥
1.045.08a आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रय॑ः ।
1.045.08c बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥
1.045.09a प्रा॒त॒र्याव्ण॑ः सहस्कृत सोम॒पेया॑य सन्त्य ।
1.045.09c इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥
1.045.10a अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
1.045.10c अ॒यं सोम॑ः सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥
1.046.01a ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
1.046.01c स्तु॒षे वा॑मश्विना बृ॒हत् ॥
1.046.02a या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् ।
1.046.02c धि॒या दे॒वा व॑सु॒विदा॑ ॥
1.046.03a व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
1.046.03c यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
1.046.04a ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
1.046.04c पि॒ता कुट॑स्य चर्ष॒णिः ॥
1.046.05a आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
1.046.05c पा॒तं सोम॑स्य धृष्णु॒या ॥
1.046.06a या न॒ः पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
1.046.06c ताम॒स्मे रा॑साथा॒मिष॑म् ॥
1.046.07a आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
1.046.07c यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
1.046.08a अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथ॑ः ।
1.046.08c धि॒या यु॑युज्र॒ इन्द॑वः ॥
1.046.09a दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
1.046.09c स्वं व॒व्रिं कुह॑ धित्सथः ॥
1.046.10a अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्य॑ः ।
1.046.10c व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
1.046.11a अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
1.046.11c अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
1.046.12a तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
1.046.12c मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
1.046.13a वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
1.046.13c म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
1.046.14a यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
1.046.14c ऋ॒ता व॑नथो अ॒क्तुभि॑ः ॥
1.046.15a उ॒भा पि॑बतमश्विनो॒भा न॒ः शर्म॑ यच्छतम् ।
1.046.15c अ॒वि॒द्रि॒याभि॑रू॒तिभि॑ः ॥
1.047.01a अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा ।
1.047.01c तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
1.047.02a त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना ।
1.047.02c कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥
1.047.03a अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा ।
1.047.03c अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥
1.047.04a त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् ।
1.047.04c कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥
1.047.05a याभि॒ः कण्व॑म॒भिष्टि॑भि॒ः प्राव॑तं यु॒वम॑श्विना ।
1.047.05c ताभि॒ः ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥
1.047.06a सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना ।
1.047.06c र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥
1.047.07a यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ ।
1.047.07c अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ॥
1.047.08a अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ।
1.047.08c इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥
1.047.09a तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा ।
1.047.09c येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्व॒ः सोम॑स्य पी॒तये॑ ॥
1.047.10a उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे ।
1.047.10c शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥
1.048.01a स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
1.048.01c स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥
1.048.02a अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे ।
1.048.02c उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥
1.048.03a उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् ।
1.048.03c ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यव॑ः ॥
1.048.04a उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रय॑ः ।
1.048.04c अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
1.048.05a आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती ।
1.048.05c ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिण॑ः ॥
1.048.06a वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिन॑ः प॒दं न वे॒त्योद॑ती ।
1.048.06c वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥
1.048.07a ए॒षायु॑क्त परा॒वत॒ः सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
1.048.07c श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
1.048.08a विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
1.048.08c अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिध॑ः ॥
1.048.09a उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः ।
1.048.09c आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥
1.048.10a विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
1.048.10c सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
1.048.11a उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
1.048.11c तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥
1.048.12a विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् ।
1.048.12c सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
1.048.13a यस्या॒ रुश॑न्तो अ॒र्चय॒ः प्रति॑ भ॒द्रा अदृ॑क्षत ।
1.048.13c सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
1.048.14a ये चि॒द्धि त्वामृष॑य॒ः पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
1.048.14c सा न॒ः स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोष॑ः शु॒क्रेण॑ शो॒चिषा॑ ॥
1.048.15a उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
1.048.15c प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिष॑ः ॥
1.048.16a सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
1.048.16c सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
1.049.01a उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ ।
1.049.01c वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥
1.049.02a सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् ।
1.049.02c तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥
1.049.03a वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।
1.049.03c उष॒ः प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥
1.049.04a व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् ।
1.049.04c तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
1.050.01a उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑ः ।
1.050.01c दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
1.050.02a अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑ः ।
1.050.02c सूरा॑य वि॒श्वच॑क्षसे ॥
1.050.03a अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
1.050.03c भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥
1.050.04a त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
1.050.04c विश्व॒मा भा॑सि रोच॒नम् ॥
1.050.05a प्र॒त्यङ्दे॒वानां॒ विश॑ः प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
1.050.05c प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥
1.050.06a येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
1.050.06c त्वं व॑रुण॒ पश्य॑सि ॥
1.050.07a वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑ः ।
1.050.07c पश्य॒ञ्जन्मा॑नि सूर्य ॥
1.050.08a स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
1.050.08c शो॒चिष्के॑शं विचक्षण ॥
1.050.09a अयु॑क्त स॒प्त शु॒न्ध्युव॒ः सूरो॒ रथ॑स्य न॒प्त्य॑ः ।
1.050.09c ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥
1.050.10a उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् ।
1.050.10c दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
1.050.11a उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् ।
1.050.11c हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
1.050.12a शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
1.050.12c अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥
1.050.13a उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
1.050.13c द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
1.051.01a अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
1.051.01c यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
1.051.02a अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
1.051.02c इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
1.051.03a त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
1.051.03c स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥
1.051.04a त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रय॒ः पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
1.051.04c वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
1.051.05a त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
1.051.05c त्वं पिप्रो॑र्नृमण॒ः प्रारु॑ज॒ः पुर॒ः प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
1.051.06a त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
1.051.06c म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
1.051.07a त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राध॑ः सोमपी॒थाय॑ हर्षते ।
1.051.07c तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
1.051.08a वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
1.051.08c शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
1.051.09a अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्र॑ः श्न॒थय॒न्नना॑भुवः ।
1.051.09c वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒ः स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिह॑ः ॥
1.051.10a तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शव॑ः ।
1.051.10c आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रव॑ः ॥
1.051.11a मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
1.051.11c उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुर॑ः ॥
1.051.12a आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
1.051.12c इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
1.051.13a अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
1.051.13c मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
1.051.14a इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूप॑ः ।
1.051.14c अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥
1.051.15a इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
1.051.15c अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीरा॒ः स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्स्याम ॥
1.052.01a त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑ः सा॒कमीर॑ते ।
1.052.01c अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑ः ॥
1.052.02a स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
1.052.02c इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥
1.052.03a स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑ः ।
1.052.03c इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥
1.052.04a आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑ः स्वा अ॒भिष्ट॑यः ।
1.052.04c तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तय॒ः शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥
1.052.05a अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तय॑ः ।
1.052.05c इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥
1.052.06a परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
1.052.06c वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥
1.052.07a ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
1.052.07c त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥
1.052.08a ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः ।
1.052.08c अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥
1.052.09a बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
1.052.09c यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तय॒ः स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥
1.052.10a द्यौश्चि॑द॒स्याम॑वाँ॒ अहे॑ः स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
1.052.10c वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिर॑ः ॥
1.052.11a यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑ः ।
1.052.11c अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥
1.052.12a त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒ः स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
1.052.12c च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑ः परि॒भूरे॒ष्या दिव॑म् ॥
1.052.13a त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
1.052.13c विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥
1.052.14a न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
1.052.14c नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥
1.052.15a आर्च॒न्नत्र॑ म॒रुत॒ः सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
1.052.15c वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥
1.053.01a न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
1.053.01c नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ःष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
1.053.02a दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पति॑ः ।
1.053.02c शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शन॒ः सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥
1.053.03a शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
1.053.03c अत॑ः सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
1.053.04a ए॒भिर्द्युभि॑ः सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
1.053.04c इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षस॒ः समि॒षा र॑भेमहि ॥
1.053.05a समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
1.053.05c सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥
1.053.06a ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
1.053.06c यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हय॑ः ॥
1.053.07a यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
1.053.07c नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥
1.053.08a त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
1.053.08c त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
1.053.09a त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुष॑ः ।
1.053.09c ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥
1.053.10a त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
1.053.10c त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
1.053.11a य उ॒दृची॑न्द्र दे॒वगो॑पा॒ः सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
1.053.11c त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥
1.054.01a मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒ः शव॑सः परी॒णशे॑ ।
1.054.01c अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥
1.054.02a अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।
1.054.02c यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥
1.054.03a अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वच॒ः स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मन॑ः ।
1.054.03c बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥
1.054.04a त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् ।
1.054.04c यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥
1.054.05a नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
1.054.05c प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒ः कस्त्वा॒ परि॑ ॥
1.054.06a त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
1.054.06c त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥
1.054.07a स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒ः प्रति॒ यः शास॒मिन्व॑ति ।
1.054.07c उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥
1.054.08a अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
1.054.08c ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥
1.054.09a तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पाना॑ः ।
1.054.09c व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥
1.054.10a अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
1.054.10c अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥
1.054.11a स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
1.054.11c रक्षा॑ च नो म॒घोन॑ः पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑ः ॥
1.055.01a दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
1.055.01c भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
1.055.02a सो अ॑र्ण॒वो न न॒द्य॑ः समु॒द्रिय॒ः प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
1.055.02c इन्द्र॒ः सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
1.055.03a त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
1.055.03c प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
1.055.04a स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
1.055.04c वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
1.055.05a स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
1.055.05c अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥
1.055.06a स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
1.055.06c ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतु॒ः सर्त॒वा अ॒पः सृ॑जत् ॥
1.055.07a दा॒नाय॒ मन॑ः सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
1.055.07c यमि॑ष्ठास॒ः सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥
1.055.08a अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
1.055.08c आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥
1.056.01a ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणि॑ः ।
1.056.01c दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥
1.056.02a तं गू॒र्तयो॑ नेम॒न्निष॒ः परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यव॑ः ।
1.056.02c पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
1.056.03a स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शव॑ः ।
1.056.03c येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥
1.056.04a दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्य॑ः ।
1.056.04c यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणि॑ः ॥
1.056.05a वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
1.056.05c स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम् ॥
1.056.06a त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः ।
1.056.06c त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥
1.057.01a प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
1.057.01c अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥
1.057.02a अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
1.057.02c यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्र॒ः श्नथि॑ता हिर॒ण्यय॑ः ॥
1.057.03a अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
1.057.03c यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥
1.057.04a इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
1.057.04c न॒हि त्वद॒न्यो गि॑र्वणो॒ गिर॒ः सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वच॑ः ॥
1.057.05a भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
1.057.05c अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
1.057.06a त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
1.057.06c अवा॑सृजो॒ निवृ॑ता॒ः सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सह॑ः ॥
1.058.01a नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
1.058.01c वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
1.058.02a आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
1.058.02c अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
1.058.03a क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
1.058.03c रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
1.058.04a वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभि॒ः सृण्या॑ तुवि॒ष्वणि॑ः ।
1.058.04c तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥
1.058.05a तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
1.058.05c अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रज॑ः स्था॒तुश्च॒रथं॑ भयते पत॒त्रिण॑ः ॥
1.058.06a द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
1.058.06c होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
1.058.07a होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ ।
1.058.07c अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
1.058.08a अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमह॒ः शर्म॑ यच्छ ।
1.058.08c अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥
1.058.09a भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्य॒ः शर्म॑ ।
1.058.09c उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.059.01a व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
1.059.01c वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥
1.059.02a मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
1.059.02c तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥
1.059.03a आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि ।
1.059.03c या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥
1.059.04a बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्ष॑ः ।
1.059.04c स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥
1.059.05a दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् ।
1.059.05c राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
1.059.06a प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
1.059.06c वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥
1.059.07a वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
1.059.07c शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥
1.060.01a वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् ।
1.060.01c द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥
1.060.02a अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ता॑ः ।
1.060.02c दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥
1.060.03a तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
1.060.03c यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षास॒ः प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ॥
1.060.04a उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
1.060.04c दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ॥
1.060.05a तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
1.060.05c आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.061.01a अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय ।
1.061.01c ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥
1.061.02a अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति ।
1.061.02c इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥
1.061.03a अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न ।
1.061.03c मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभि॑ः सू॒रिं वा॑वृ॒धध्यै॑ ॥
1.061.04a अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
1.061.04c गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥
1.061.05a अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे ।
1.061.05c वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
1.061.06a अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य ।
1.061.06c वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
1.061.07a अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ ।
1.061.07c मु॒षा॒यद्विष्णु॑ः पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
1.061.08a अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
1.061.08c परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥
1.061.09a अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् ।
1.061.09c स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
1.061.10a अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्र॑ः ।
1.061.10c गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
1.061.11a अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑व॒ः परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् ।
1.061.11c ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणि॑ः कः ॥
1.061.12a अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
1.061.12c गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
1.061.13a अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
1.061.13c यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
1.061.14a अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
1.061.14c उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥
1.061.15a अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
1.061.15c प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्र॑ः ॥
1.061.16a ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
1.061.16c ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.062.01a प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
1.062.01c सु॒वृ॒क्तिभि॑ः स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥
1.062.02a प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।
1.062.02c येना॑ न॒ः पूर्वे॑ पि॒तर॑ः पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥
1.062.03a इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् ।
1.062.03c बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नर॑ः ॥
1.062.04a स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रै॑ः स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः ।
1.062.04c स॒र॒ण्युभि॑ः फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥
1.062.05a गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्ध॑ः ।
1.062.05c वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥
1.062.06a तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंस॑ः ।
1.062.06c उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥
1.062.07a द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्य॒ः स्तव॑मानेभिर॒र्कैः ।
1.062.07c भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसा॑ः ॥
1.062.08a स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवै॑ः ।
1.062.08c कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥
1.062.09a सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसा॑ः ।
1.062.09c आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पय॑ः कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥
1.062.10a स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒ः सहो॑भिः ।
1.062.10c पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥
1.062.11a स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
1.062.11c पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥
1.062.12a स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म ।
1.062.12c द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीर॒ः शिक्षा॑ शचीव॒स्तव॑ न॒ः शची॑भिः ॥
1.062.13a स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।
1.062.13c सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.063.01a त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
1.063.01c यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हास॑ः कि॒रणा॒ नैज॑न् ॥
1.063.02a आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
1.063.02c येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥
1.063.03a त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
1.063.03c त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥
1.063.04a त्वं ह॒ त्यदि॑न्द्र चोदी॒ः सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
1.063.04c यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥
1.063.05a त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
1.063.05c व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥
1.063.06a त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते ।
1.063.06c तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥
1.063.07a त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।
1.063.07c ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥
1.063.08a त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒ः परि॑ज्मन् ।
1.063.08c यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥
1.063.09a अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् ।
1.063.09c सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.064.01a वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोध॑ः सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्य॑ः ।
1.064.01c अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिर॒ः सम॑ञ्जे वि॒दथे॑ष्वा॒भुव॑ः ॥
1.064.02a ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पस॑ः ।
1.064.02c पा॒व॒कास॒ः शुच॑य॒ः सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥
1.064.03a युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गाव॒ः पर्व॑ता इव ।
1.064.03c दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥
1.064.04a चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
1.064.04c अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टय॑ः सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नर॑ः ॥
1.064.05a ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
1.064.05c दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥
1.064.06a पिन्व॑न्त्य॒पो म॒रुत॑ः सु॒दान॑व॒ः पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुव॑ः ।
1.064.06c अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥
1.064.07a म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यद॑ः ।
1.064.07c मृ॒गा इ॑व ह॒स्तिन॑ः खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥
1.064.08a सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
1.064.08c क्षपो॒ जिन्व॑न्त॒ः पृष॑तीभिरृ॒ष्टिभि॒ः समित्स॒बाध॒ः शव॒साहि॑मन्यवः ॥
1.064.09a रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूरा॒ः शव॒साहि॑मन्यवः ।
1.064.09c आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥
1.064.10a वि॒श्ववे॑दसो र॒यिभि॒ः समो॑कस॒ः सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिन॑ः ।
1.064.10c अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नर॑ः ॥
1.064.11a हि॒र॒ण्यये॑भिः प॒विभि॑ः पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान् ।
1.064.11c म॒खा अ॒यास॑ः स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥
1.064.12a घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
1.064.12c र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥
1.064.13a प्र नू स मर्त॒ः शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
1.064.13c अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥
1.064.14a च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्मं॑ म॒घव॑त्सु धत्तन ।
1.064.14c ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमा॑ः ॥
1.064.15a नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
1.064.15c स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.065.01 प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥
1.065.02 स॒जोषा॒ धीरा॑ः प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
1.065.03 ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
1.065.04 वर्ध॑न्ती॒माप॑ः प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥
1.065.05 पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥
1.065.06 अत्यो॒ नाज्म॒न्सर्ग॑प्रतक्त॒ः सिन्धु॒र्न क्षोद॒ः क ईं॑ वराते ॥
1.065.07 जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
1.065.08 यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
1.065.09 श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
1.065.10 सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभा॑ः ॥
1.066.01 र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥
1.066.02 तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥
1.066.03 दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नाम् ॥
1.066.04 ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥
1.066.05 दु॒रोक॑शोचि॒ः क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥
1.066.06 चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥
1.066.07 सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥
1.066.08 य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥
1.066.09 तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥
1.066.10 सिन्धु॒र्न क्षोद॒ः प्र नीची॑रैनो॒न्नव॑न्त॒ गाव॒ः स्व१॒॑र्दृशी॑के ॥
1.067.01 वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥
1.067.02 क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥
1.067.03 हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ॥
1.067.04 वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ॥
1.067.05 अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ॥
1.067.06 प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥
1.067.07 य ईं॑ चि॒केत॒ गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥
1.067.08 वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥
1.067.09 वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ॥
1.067.10 चित्ति॑र॒पां दमे॑ वि॒श्वायु॒ः सद्मे॑व॒ धीरा॑ः स॒म्माय॑ चक्रुः ॥
1.068.01 श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥
1.068.02 परि॒ यदे॑षा॒मेको॒ विश्वे॑षां॒ भुव॑द्दे॒वो दे॒वानां॑ महि॒त्वा ॥
1.068.03 आदित्ते॒ विश्वे॒ क्रतुं॑ जुषन्त॒ शुष्का॒द्यद्दे॑व जी॒वो जनि॑ष्ठाः ॥
1.068.04 भज॑न्त॒ विश्वे॑ देव॒त्वं नाम॑ ऋ॒तं सप॑न्तो अ॒मृत॒मेवै॑ः ॥
1.068.05 ऋ॒तस्य॒ प्रेषा॑ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां॑सि चक्रुः ॥
1.068.06 यस्तुभ्यं॒ दाशा॒द्यो वा॑ ते॒ शिक्षा॒त्तस्मै॑ चिकि॒त्वान्र॒यिं द॑यस्व ॥
1.068.07 होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा॑सां॒ पती॑ रयी॒णाम् ॥
1.068.08 इ॒च्छन्त॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥
1.068.09 पि॒तुर्न पु॒त्राः क्रतुं॑ जुषन्त॒ श्रोष॒न्ये अ॑स्य॒ शासं॑ तु॒रास॑ः ॥
1.068.10 वि राय॑ और्णो॒द्दुर॑ः पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू॑नाः ॥
1.069.01 शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योति॑ः ॥
1.069.02 परि॒ प्रजा॑त॒ः क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥
1.069.03 वे॒धा अदृ॑प्तो अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा॑ पितू॒नाम् ॥
1.069.04 जने॒ न शेव॑ आ॒हूर्य॒ः सन्मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ॥
1.069.05 पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता॑रीत् ॥
1.069.06 विशो॒ यदह्वे॒ नृभि॒ः सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥
1.069.07 नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ॥
1.069.08 तत्तु ते॒ दंसो॒ यदह॑न्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥
1.069.09 उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा॑तरूप॒श्चिके॑तदस्मै ॥
1.069.10 त्मना॒ वह॑न्तो॒ दुरो॒ व्यृ॑ण्व॒न्नव॑न्त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥
1.070.01 व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥
1.070.02 आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥
1.070.03 गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा॑म् ॥
1.070.04 अद्रौ॑ चिदस्मा अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृत॑ः स्वा॒धीः ॥
1.070.05 स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥
1.070.06 ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्ताँ॑श्च वि॒द्वान् ॥
1.070.07 वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ॥
1.070.08 अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥
1.070.09 गोषु॒ प्रश॑स्तिं॒ वने॑षु धिषे॒ भर॑न्त॒ विश्वे॑ ब॒लिं स्व॑र्णः ॥
1.070.10 वि त्वा॒ नर॑ः पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरन्त ॥
1.070.11 सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥
1.071.01a उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑य॒ः सनी॑ळाः ।
1.071.01c स्वसा॑र॒ः श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गाव॑ः ॥
1.071.02a वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण ।
1.071.02c च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अह॒ः स्व॑र्विविदुः के॒तुमु॒स्राः ॥
1.071.03a दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः ।
1.071.03c अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥
1.071.04a मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
1.071.04c आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
1.071.05a म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
1.071.05c सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
1.071.06a स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।
1.071.06c वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
1.071.07a अ॒ग्निं विश्वा॑ अ॒भि पृक्ष॑ः सचन्ते समु॒द्रं न स्र॒वत॑ः स॒प्त य॒ह्वीः ।
1.071.07c न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥
1.071.08a आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
1.071.08c अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
1.071.09a मनो॒ न योऽध्व॑नः स॒द्य एत्येक॑ः स॒त्रा सूरो॒ वस्व॑ ईशे ।
1.071.09c राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥
1.071.10a मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
1.071.10c नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥
1.072.01a नि काव्या॑ वे॒धस॒ः शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
1.072.01c अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥
1.072.02a अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि॑न्दन्नि॒च्छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
1.072.02c श्र॒म॒युव॑ः पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥
1.072.03a ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।
1.072.03c नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्व१॒॑ः सुजा॑ताः ॥
1.072.04a आ रोद॑सी बृह॒ती वेवि॑दाना॒ः प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।
1.072.04c वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥
1.072.05a सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् ।
1.072.05c रि॒रि॒क्वांस॑स्त॒न्व॑ः कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥
1.072.06a त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
1.072.06c तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषा॑ः प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥
1.072.07a वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।
1.072.07c अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥
1.072.08a स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।
1.072.08c वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥
1.072.09a आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
1.072.09c म॒ह्ना म॒हद्भि॑ः पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥
1.072.10a अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
1.072.10c अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥
1.073.01a र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासु॑ः ।
1.073.01c स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥
1.073.02a दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ ।
1.073.02c पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥
1.073.03a दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ ।
1.073.03c पु॒र॒ःसद॑ः शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥
1.073.04a तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच॑न्त क्षि॒तिषु॑ ध्रु॒वासु॑ ।
1.073.04c अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णाम् ॥
1.073.05a वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायु॑ः ।
1.073.05c स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥
1.073.06a ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पय॑न्त॒ द्युभ॑क्ताः ।
1.073.06c प॒रा॒वत॑ः सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ सस्रु॒रद्रि॑म् ॥
1.073.07a त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
1.073.07c नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धु॑ः ॥
1.073.08a यान्रा॒ये मर्ता॒न्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ ।
1.073.08c छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ॥
1.073.09a अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोता॑ः ।
1.073.09c ई॒शा॒नास॑ः पितृवि॒त्तस्य॑ रा॒यो वि सू॒रय॑ः श॒तहि॑मा नो अश्युः ॥
1.073.10a ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि सन्तु॒ मन॑से हृ॒दे च॑ ।
1.073.10c श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥
1.074.01a उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ ।
1.074.01c आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
1.074.02a यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ ।
1.074.02c अर॑क्षद्दा॒शुषे॒ गय॑म् ॥
1.074.03a उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
1.074.03c ध॒नं॒ज॒यो रणे॑रणे ॥
1.074.04a यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ ।
1.074.04c द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥
1.074.05a तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो ।
1.074.05c जना॑ आहुः सुब॒र्हिष॑म् ॥
1.074.06a आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ।
1.074.06c ह॒व्या सु॑श्चन्द्र वी॒तये॑ ॥
1.074.07a न योरु॑प॒ब्दिरश्व्य॑ः शृ॒ण्वे रथ॑स्य॒ कच्च॒न ।
1.074.07c यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥
1.074.08a त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः ।
1.074.08c प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥
1.074.09a उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि ।
1.074.09c दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥
1.075.01a जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।
1.075.01c ह॒व्या जुह्वा॑न आ॒सनि॑ ॥
1.075.02a अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।
1.075.02c वो॒चेम॒ ब्रह्म॑ सान॒सि ॥
1.075.03a कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।
1.075.03c को ह॒ कस्मि॑न्नसि श्रि॒तः ॥
1.075.04a त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।
1.075.04c सखा॒ सखि॑भ्य॒ ईड्य॑ः ॥
1.075.05a यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।
1.075.05c अग्ने॒ यक्षि॒ स्वं दम॑म् ॥
1.076.01a का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा ।
1.076.01c को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥
1.076.02a एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्ध॒ः सु पु॑रए॒ता भ॑वा नः ।
1.076.02c अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥
1.076.03a प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ ।
1.076.03c अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥
1.076.04a प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः ।
1.076.04c वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥
1.076.05a यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभि॑ः क॒विः सन् ।
1.076.05c ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥
1.077.01a क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।
1.077.01c यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥
1.077.02a यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् ।
1.077.02c अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥
1.077.03a स हि क्रतु॒ः स मर्य॒ः स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।
1.077.03c तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारी॑ः ॥
1.077.04a स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् ।
1.077.04c तना॑ च॒ ये म॒घवा॑न॒ः शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥
1.077.05a ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।
1.077.05c स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥
1.078.01a अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।
1.078.01c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.02a तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।
1.078.02c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.03a तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।
1.078.03c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.04a तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।
1.078.04c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.05a अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वच॑ः ।
1.078.05c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.079.01a हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
1.079.01c शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥
1.079.02a आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवै॑ः कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।
1.079.02c शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑ः स्त॒नय॑न्त्य॒भ्रा ॥
1.079.03a यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः ।
1.079.03c अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥
1.079.04a अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो ।
1.079.04c अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रव॑ः ॥
1.079.05a स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा ।
1.079.05c रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥
1.079.06a क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषस॑ः ।
1.079.06c स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥
1.079.07a अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि ।
1.079.07c विश्वा॑सु धी॒षु व॑न्द्य ॥
1.079.08a आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यम् ।
1.079.08c विश्वा॑सु पृ॒त्सु दु॒ष्टर॑म् ॥
1.079.09a आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसम् ।
1.079.09c मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥
1.079.10a प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ ।
1.079.10c भर॑स्व सुम्न॒युर्गिर॑ः ॥
1.079.11a यो नो॑ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः ।
1.079.11c अ॒स्माक॒मिद्वृ॒धे भ॑व ॥
1.079.12a स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति ।
1.079.12c होता॑ गृणीत उ॒क्थ्य॑ः ॥
1.080.01a इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् ।
1.080.01c शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.02a स त्वा॑मद॒द्वृषा॒ मद॒ः सोम॑ः श्ये॒नाभृ॑तः सु॒तः ।
1.080.02c येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.03a प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते ।
1.080.03c इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.04a निरि॑न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः ।
1.080.04c सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.05a इन्द्रो॑ वृ॒त्रस्य॒ दोध॑त॒ः सानुं॒ वज्रे॑ण हीळि॒तः ।
1.080.05c अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.06a अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा ।
1.080.06c म॒न्दा॒न इन्द्रो॒ अन्ध॑स॒ः सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.07a इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् ।
1.080.07c यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.08a वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ ।
1.080.08c म॒हत्त॑ इन्द्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.09a स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः ।
1.080.09c श॒तैन॒मन्व॑नोनवु॒रिन्द्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.10a इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्सह॑सा॒ सह॑ः ।
1.080.10c म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.11a इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही ।
1.080.11c यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.12a न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् ।
1.080.12c अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.13a यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः ।
1.080.13c अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.14a अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते ।
1.080.14c त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.15a न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः ।
1.080.15c तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.16a यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त ।
1.080.16c तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.081.01a इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभि॑ः ।
1.081.01c तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥
1.081.02a असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।
1.081.02c असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
1.081.03a यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ ।
1.081.03c यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हन॒ः कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥
1.081.04a क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शव॑ः ।
1.081.04c श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥
1.081.05a आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।
1.081.05c न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
1.081.06a यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ ।
1.081.06c इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥
1.081.07a मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतु॑ः ।
1.081.07c सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥
1.081.08a मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से ।
1.081.08c वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥
1.081.09a ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।
1.081.09c अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥
1.082.01a उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव ।
1.082.01c य॒दा न॑ः सू॒नृता॑वत॒ः कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.02a अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
1.082.02c अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.03a सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।
1.082.03c प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.04a स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् ।
1.082.04c यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.05a यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो ।
1.082.05c तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.06a यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः ।
1.082.06c उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्समु॒ पत्न्या॑मदः ॥
1.083.01a अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभि॑ः ।
1.083.01c तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥
1.083.02a आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रज॑ः ।
1.083.02c प्रा॒चैर्दे॒वास॒ः प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥
1.083.03a अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यत॑ः ।
1.083.03c असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥
1.083.04a आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑य॒ः शम्या॒ ये सु॑कृ॒त्यया॑ ।
1.083.04c सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नर॑ः ॥
1.083.05a य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ तत॒ः सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।
1.083.05c आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥
1.083.06a ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।
1.083.06c ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
1.084.01a असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
1.084.01c आ त्वा॑ पृणक्त्विन्द्रि॒यं रज॒ः सूर्यो॒ न र॒श्मिभि॑ः ॥
1.084.02a इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् ।
1.084.02c ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥
1.084.03a आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
1.084.03c अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥
1.084.04a इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
1.084.04c शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥
1.084.05a इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
1.084.05c सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सह॑ः ॥
1.084.06a नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
1.084.06c नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकि॒ः स्वश्व॑ आनशे ॥
1.084.07a य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
1.084.07c ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥
1.084.08a क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
1.084.08c क॒दा न॑ः शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥
1.084.09a यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
1.084.09c उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥
1.084.10a स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्व॑ः पिबन्ति गौ॒र्य॑ः ।
1.084.10c या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
1.084.11a ता अ॑स्य पृशना॒युव॒ः सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
1.084.11c प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
1.084.12a ता अ॑स्य॒ नम॑सा॒ सह॑ः सप॒र्यन्ति॒ प्रचे॑तसः ।
1.084.12c व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
1.084.13a इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
1.084.13c ज॒घान॑ नव॒तीर्नव॑ ॥
1.084.14a इ॒च्छन्नश्व॑स्य॒ यच्छिर॒ः पर्व॑ते॒ष्वप॑श्रितम् ।
1.084.14c तद्वि॑दच्छर्य॒णाव॑ति ॥
1.084.15a अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
1.084.15c इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
1.084.16a को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
1.084.16c आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
1.084.17a क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
1.084.17c कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
1.084.18a को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभि॑ः ।
1.084.18c कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥
1.084.19a त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
1.084.19c न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वच॑ः ॥
1.084.20a मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
1.084.20c विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥
1.085.01a प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नव॑ः सु॒दंस॑सः ।
1.085.01c रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥
1.085.02a त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सद॑ः ।
1.085.02c अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥
1.085.03a गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः ।
1.085.03c बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥
1.085.04a वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभि॑ः प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा ।
1.085.04c म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातास॒ः पृष॑ती॒रयु॑ग्ध्वम् ॥
1.085.05a प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः ।
1.085.05c उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥
1.085.06a आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑न॒ः प्र जि॑गात बा॒हुभि॑ः ।
1.085.06c सीद॒ता ब॒र्हिरु॒रु व॒ः सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥
1.085.07a ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सद॑ः ।
1.085.07c विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥
1.085.08a शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे ।
1.085.08c भय॑न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नर॑ः ॥
1.085.09a त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् ।
1.085.09c ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥
1.085.10a ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् ।
1.085.10c धम॑न्तो वा॒णं म॒रुत॑ः सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥
1.085.11a जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ ।
1.085.11c आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नव॒ः कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥
1.085.12a या व॒ः शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
1.085.12c अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥
1.086.01a मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
1.086.01c स सु॑गो॒पात॑मो॒ जन॑ः ॥
1.086.02a य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
1.086.02c मरु॑तः शृणु॒ता हव॑म् ॥
1.086.03a उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत ।
1.086.03c स गन्ता॒ गोम॑ति व्र॒जे ॥
1.086.04a अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु ।
1.086.04c उ॒क्थं मद॑श्च शस्यते ॥
1.086.05a अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
1.086.05c सूरं॑ चित्स॒स्रुषी॒रिष॑ः ॥
1.086.06a पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
1.086.06c अवो॑भिश्चर्षणी॒नाम् ॥
1.086.07a सु॒भग॒ः स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्य॑ः ।
1.086.07c यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
1.086.08a श॒श॒मा॒नस्य॑ वा नर॒ः स्वेद॑स्य सत्यशवसः ।
1.086.08c वि॒दा काम॑स्य॒ वेन॑तः ॥
1.086.09a यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना ।
1.086.09c विध्य॑ता वि॒द्युता॒ रक्ष॑ः ॥
1.086.10a गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् ।
1.086.10c ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
1.087.01a प्रत्व॑क्षस॒ः प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिण॑ः ।
1.087.01c जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभि॑ः ॥
1.087.02a उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुत॒ः केन॑ चित्प॒था ।
1.087.02c श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥
1.087.03a प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे ।
1.087.03c ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥
1.087.04a स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः ।
1.087.04c असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥
1.087.05a पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा ।
1.087.05c यदी॒मिन्द्रं॒ शम्यृक्वा॑ण॒ आश॒तादिन्नामा॑नि य॒ज्ञिया॑नि दधिरे ॥
1.087.06a श्रि॒यसे॒ कं भा॒नुभि॒ः सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दय॑ः ।
1.087.06c ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्न॑ः ॥
1.088.01a आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
1.088.01c आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
1.088.02a ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गै॑ः शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वै॑ः ।
1.088.02c रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥
1.088.03a श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा ।
1.088.03c यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥
1.088.04a अहा॑नि॒ गृध्रा॒ः पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् ।
1.088.04c ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
1.088.05a ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः ।
1.088.05c पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
1.088.06a ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
1.088.06c अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
1.089.01a आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑ः ।
1.089.01c दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
1.089.02a दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
1.089.02c दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयु॒ः प्र ति॑रन्तु जी॒वसे॑ ॥
1.089.03a तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
1.089.03c अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
1.089.04a तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
1.089.04c तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥
1.089.05a तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
1.089.05c पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
1.089.06a स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑ः पू॒षा वि॒श्ववे॑दाः ।
1.089.06c स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
1.089.07a पृष॑दश्वा म॒रुत॒ः पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
1.089.07c अ॒ग्नि॒जि॒ह्वा मन॑व॒ः सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
1.089.08a भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
1.089.08c स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑ः ॥
1.089.09a श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् ।
1.089.09c पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑ः ॥
1.089.10a अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
1.089.10c विश्वे॑ दे॒वा अदि॑ति॒ः पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
1.090.01a ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
1.090.01c अ॒र्य॒मा दे॒वैः स॒जोषा॑ः ॥
1.090.02a ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
1.090.02c व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
1.090.03a ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
1.090.03c बाध॑माना॒ अप॒ द्विष॑ः ॥
1.090.04a वि न॑ः प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुत॑ः ।
1.090.04c पू॒षा भगो॒ वन्द्या॑सः ॥
1.090.05a उ॒त नो॒ धियो॒ गोअ॑ग्रा॒ः पूष॒न्विष्ण॒वेव॑यावः ।
1.090.05c कर्ता॑ नः स्वस्ति॒मत॑ः ॥
1.090.06a मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
1.090.06c माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
1.090.07a मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रज॑ः ।
1.090.07c मधु॒ द्यौर॑स्तु नः पि॒ता ॥
1.090.08a मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्य॑ः ।
1.090.08c माध्वी॒र्गावो॑ भवन्तु नः ॥
1.090.09a शं नो॑ मि॒त्रः शं वरु॑ण॒ः शं नो॑ भवत्वर्य॒मा ।
1.090.09c शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु॑रुरुक्र॒मः ॥
1.091.01a त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
1.091.01c तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑ः ॥
1.091.02a त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षै॑ः सु॒दक्षो॑ वि॒श्ववे॑दाः ।
1.091.02c त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षा॑ः ॥
1.091.03a राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
1.091.03c शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
1.091.04a या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
1.091.04c तेभि॑र्नो॒ विश्वै॑ः सु॒मना॒ अहे॑ळ॒न्राज॑न्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
1.091.05a त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा ।
1.091.05c त्वं भ॒द्रो अ॑सि॒ क्रतु॑ः ॥
1.091.06a त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे ।
1.091.06c प्रि॒यस्तो॑त्रो॒ वन॒स्पति॑ः ॥
1.091.07a त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते ।
1.091.07c दक्षं॑ दधासि जी॒वसे॑ ॥
1.091.08a त्वं न॑ः सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
1.091.08c न रि॑ष्ये॒त्त्वाव॑त॒ः सखा॑ ॥
1.091.09a सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तय॒ः सन्ति॑ दा॒शुषे॑ ।
1.091.09c ताभि॑र्नोऽवि॒ता भ॑व ॥
1.091.10a इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
1.091.10c सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥
1.091.11a सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विद॑ः ।
1.091.11c सु॒मृ॒ळी॒को न॒ आ वि॑श ॥
1.091.12a ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
1.091.12c सु॒मि॒त्रः सो॑म नो भव ॥
1.091.13a सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा ।
1.091.13c मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥
1.091.14a यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्य॑ः ।
1.091.14c तं दक्ष॑ः सचते क॒विः ॥
1.091.15a उ॒रु॒ष्या णो॑ अ॒भिश॑स्ते॒ः सोम॒ नि पा॒ह्यंह॑सः ।
1.091.15c सखा॑ सु॒शेव॑ एधि नः ॥
1.091.16a आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑ः सोम॒ वृष्ण्य॑म् ।
1.091.16c भवा॒ वाज॑स्य संग॒थे ॥
1.091.17a आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरं॒शुभि॑ः ।
1.091.17c भवा॑ नः सु॒श्रव॑स्तम॒ः सखा॑ वृ॒धे ॥
1.091.18a सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजा॒ः सं वृष्ण्या॑न्यभिमाति॒षाह॑ः ।
1.091.18c आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
1.091.19a या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
1.091.19c ग॒य॒स्फान॑ः प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥
1.091.20a सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति ।
1.091.20c सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥
1.091.21a अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
1.091.21c भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥
1.091.22a त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
1.091.22c त्वमा त॑तन्थो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥
1.091.23a दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य ।
1.091.23c मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्य॒ः प्र चि॑कित्सा॒ गवि॑ष्टौ ॥
1.092.01a ए॒ता उ॒ त्या उ॒षस॑ः के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते ।
1.092.01c नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णव॒ः प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तर॑ः ॥
1.092.02a उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत ।
1.092.02c अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥
1.092.03a अर्च॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभि॑ः समा॒नेन॒ योज॑ने॒ना प॑रा॒वत॑ः ।
1.092.03c इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥
1.092.04a अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् ।
1.092.04c ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तम॑ः ॥
1.092.05a प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व॑म् ।
1.092.05c स्वरुं॒ न पेशो॑ वि॒दथे॑ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥
1.092.06a अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती॑ व॒युना॑ कृणोति ।
1.092.06c श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥
1.092.07a भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः ।
1.092.07c प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥
1.092.08a उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् ।
1.092.08c सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त॑म् ॥
1.092.09a विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति ।
1.092.09c विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥
1.092.10a पुन॑ःपुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना ।
1.092.10c श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायु॑ः ॥
1.092.11a व्यू॒र्ण्व॒ती दि॒वो अन्ताँ॑ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति ।
1.092.11c प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥
1.092.12a प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् ।
1.092.12c अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥
1.092.13a उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति ।
1.092.13c येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
1.092.14a उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि ।
1.092.14c रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥
1.092.15a यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः ।
1.092.15c अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥
1.092.16a अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् ।
1.092.16c अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ॥
1.092.17a यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथु॑ः ।
1.092.17c आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥
1.092.18a एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी ।
1.092.18c उ॒ष॒र्बुधो॑ वहन्तु॒ सोम॑पीतये ॥
1.093.01a अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।
1.093.01c प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑ः ॥
1.093.02a अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑ः सप॒र्यति॑ ।
1.093.02c तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥
1.093.03a अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् ।
1.093.03c स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
1.093.04a अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः ।
1.093.04c अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑ः ॥
1.093.05a यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
1.093.05c यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
1.093.06a आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑ः ।
1.093.06c अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥
1.093.07a अग्नी॑षोमा ह॒विष॒ः प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् ।
1.093.07c सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
1.093.08a यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
1.093.08c तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥
1.093.09a अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑ः ।
1.093.09c सं दे॑व॒त्रा ब॑भूवथुः ॥
1.093.10a अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति ।
1.093.10c तस्मै॑ दीदयतं बृ॒हत् ॥
1.093.11a अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् ।
1.093.11c आ या॑त॒मुप॑ न॒ः सचा॑ ॥
1.093.12a अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूद॑ः ।
1.093.12c अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥
1.094.01a इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
1.094.01c भ॒द्रा हि न॒ः प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.02a यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् ।
1.094.02c स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.03a श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
1.094.03c त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.04a भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒ः पर्व॑णापर्वणा व॒यम् ।
1.094.04c जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.05a वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभि॑ः ।
1.094.05c चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.06a त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः ।
1.094.06c विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.07a यो वि॒श्वत॑ः सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे ।
1.094.07c रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.08a पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्य॑ः ।
1.094.08c तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.09a व॒धैर्दु॒ःशंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिण॑ः ।
1.094.09c अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.10a यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रव॑ः ।
1.094.10c आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.11a अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् ।
1.094.11c सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.12a अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः ।
1.094.12c मृ॒ळा सु नो॒ भूत्वे॑षां॒ मन॒ः पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.13a दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे ।
1.094.13c शर्म॑न्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.14a तत्ते॑ भ॒द्रं यत्समि॑द्ध॒ः स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः ।
1.094.14c दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.15a यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता ।
1.094.15c यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥
1.094.16a स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायु॒ः प्र ति॑रे॒ह दे॑व ।
1.094.16c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥
1.095.01a द्वे विरू॑पे चरत॒ः स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते ।
1.095.01c हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑ः ॥
1.095.02a दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् ।
1.095.02c ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥
1.095.03a त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु ।
1.095.03c पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥
1.095.04a क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑ः ।
1.095.04c ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
1.095.05a आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ ।
1.095.05c उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥
1.095.06a उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवै॑ः ।
1.095.06c स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भि॑ः ॥
1.095.07a उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् ।
1.095.07c उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
1.095.08a त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः ।
1.095.08c क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
1.095.09a उ॒रु ते॒ ज्रय॒ः पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ ।
1.095.09c विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑ः पाह्य॒स्मान् ॥
1.095.10a धन्व॒न्स्रोत॑ः कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् ।
1.095.10c विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
1.095.11a ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
1.095.11c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥
1.096.01a स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ ।
1.096.01c आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.02a स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नाम् ।
1.096.02c वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.03a तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् ।
1.096.03c ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.04a स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् ।
1.096.04c वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.05a नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची ।
1.096.05c द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.06a रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः ।
1.096.06c अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.07a नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् ।
1.096.07c स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.08a द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् ।
1.096.08c द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायु॑ः ॥
1.096.09a ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
1.096.09c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥
1.097.01a अप॑ न॒ः शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम् ।
1.097.01c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.02a सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।
1.097.02c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.03a प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रय॑ः ।
1.097.03c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.04a प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् ।
1.097.04c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.05a प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नव॑ः ।
1.097.05c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.06a त्वं हि वि॑श्वतोमुख वि॒श्वत॑ः परि॒भूरसि॑ ।
1.097.06c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.07a द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय ।
1.097.07c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.097.08a स न॒ः सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।
1.097.08c अप॑ न॒ः शोशु॑चद॒घम् ॥
1.098.01a वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
1.098.01c इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥
1.098.02a पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
1.098.02c वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
1.098.03a वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम् ।
1.098.03c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥
1.099.01a जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑ः ।
1.099.01c स न॑ः पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥
1.100.01a स यो वृषा॒ वृष्ण्ये॑भि॒ः समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
1.100.01c स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.02a यस्याना॑प्त॒ः सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
1.100.02c वृष॑न्तम॒ः सखि॑भि॒ः स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.03a दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒ः पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः ।
1.100.03c त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.04a सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भि॒ः सखि॑भि॒ः सखा॒ सन् ।
1.100.04c ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.05a स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
1.100.05c सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.06a स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभि॒ः सूर्यं॑ सनत् ।
1.100.06c अ॒स्मिन्नह॒न्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.07a तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तय॑ः कृण्वत॒ त्राम् ।
1.100.07c स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.08a तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
1.100.08c सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.09a स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ ।
1.100.09c स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.10a स ग्रामे॑भि॒ः सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य ।
1.100.10c स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.11a स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑ः ।
1.100.11c अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.12a स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
1.100.12c च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.13a तस्य॒ वज्र॑ः क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒ः शिमी॑वान् ।
1.100.13c तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.14a यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वत॑ः सीम् ।
1.100.14c स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.15a न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः ।
1.100.15c स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.16a रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
1.100.16c वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥
1.100.17a ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राध॑ः ।
1.100.17c ऋ॒ज्राश्व॒ः प्रष्टि॑भिरम्ब॒रीष॑ः स॒हदे॑वो॒ भय॑मानः सु॒राधा॑ः ॥
1.100.18a दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
1.100.18c सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒ः सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑ः ॥
1.100.19a वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
1.100.19c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥